काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 600, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ ३ ॥ ५९९ वतुप् । ईदृक् । ईदृशः । इयान् । कीदृक् । कीदृशः । कियान् । किमिदंभ्यां वो घ इति वतुप् ॥ दृक्ते चेति क्तव्यम् ॥ * ॥ ईदृक्तः । कीदृक्तः ॥ आ सर्वनाम्नः ॥ ९१ ॥ सर्वनाम्न आकारादेशो भवति दृग्दृशवतुषु । तादृक् । तादृशः । तावान् । यादृक् । यादृशः । यावान् ॥ दृक्ते चेति वक्तव्यम् ॥ * ॥ तादृक्तः । यादृक्तः ॥ विष्वग्देवयोश्च टेरद्रञ्चतौ वप्रत्यये ॥ ९२ ॥ विष्वक् देव इत्येतयोः सर्वनाम्नश्च टेरद्रीत्ययमादेशो भवति अञ्चतौ वप्रत्ययान्तउत्तरपदे । विष्वगञ्चतीति विष्वद्रङ् । देवद्रङ् । सर्वनाम्नः । तद्रङ् । यद्रङ् । अद्रिसध्योरन्तोदात्तनिपातनं कृत्स्वरनिवृत्त्यर्थम् । तत्र यथा- देशे कृते उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्यैव स्वरो भवति । विष्वग्देव- योरिति किम् । प्राग्वाची । अञ्चताविति किम् । विष्वग्युक् । वप्रत्ययइति किम् । विष्वगञ्चनम् । वप्रत्ययग्रहणमन्यत्र धातुग्रहणे तदादिविधिप्रतिषे- धार्थः । तेनायस्कृतमयस्कार इत्यत्रातः कृकमिकंसकुम्भपात्रेति सत्वं भवति ॥ छन्दसि स्त्रियां बहुलमिति वक्तव्यम् ॥ * ॥ विश्वाची च घृताची चेत्यत्र न भवति । कद्रोचीत्यत्र तु भवत्येव * ॥ समः समी ॥ ९३ ॥ समित्येतस्य समि इत्ययमादेशो भवति अञ्चतौ वप्रत्ययान्तउत्तरपदे । सम्यक् । सम्यञ्चौ । सम्यञ्चः ॥ तिरसस्तिर्यलोपे ॥ ९४ ॥ तिरस् इत्येतस्य तिरि इत्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्त उत्तर- पदे ऽलोपे । यदा ऽस्य लोपो न भवति । तिर्यङ् । तिर्यञ्चौ । तिर्यञ्चः । अलोपइति किम् । तिरश्चा । तिरश्चे । अत्र इत्यकारलोपः ॥ सहस्य सध्रिः ॥ ९५ ॥ सहेत्यस्य सध्रिरित्ययमादेशो भवत्यञ्चतौ वप्रत्ययान्तउत्तरपदे । सध्र्यङ् । सध्र्यञ्चौ । सध्र्यञ्चः । सध्रीचः । सध्रीचा ॥ सध मादस्थयोरुच्छन्दसि ॥ ९६ ॥ छन्दसि विषये माद स्थ इत्येतयोरुत्तरपदयोः सहस्य सध इत्ययमा- देशो भवति । सधमादो द्युम्न्य एकास्ताः । सधस्थ्याः ॥ द्व्यन्तरुपसर्गेभ्यो ऽप ईत् ॥ ९७ ॥
- क्व चिदन्यत्रापि भवति । विष्वद्यश्रा। इत्याधिकमेकस्मिन्पुस्तके ।