काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 601, कुल 828 में से
संदर्भ में पढ़ें६०० ॥ काशिका ॥ ६ ॥ ३ ॥ द्वि अन्तरित्येताभ्यामुपसर्गाच्चोत्तरस्याबित्येतस्य ईकारादेशो भवति । द्वीपः । अन्तरीपः । उपसर्गात् । नीपम् । वीपम् । समीपम् ॥ समाप इत्ये प्रतिषेधो वक्तव्यः ॥ * ॥ समापं नाम देवयजनम् । अपर आह ॥ ईत्वमनव- योरिति वक्तव्यम् ॥ * ॥ इह मा भूत् । प्रापम् । परापम् । अप्शब्दं प्रति क्रियायोगाभावाद् उपसर्गग्रहणं प्राद्युपलक्षणार्थम् । उदनोर्द्देशे ॥ ९८ ॥ अनोत्तरस्याप ऊकारादेशो भवति देशाभिधाने । अनूपो देशः । देश इति किम् । अन्वीपम् । दीर्घोच्चारणमप्रत्याहारार्थम् । अनु ऊपो ऽनूप इति ॥ अशष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थि- तोत्सुकोतिकारकरागच्छेषु ॥ ९९ ॥ अशष्ठीस्थस्य अतृतीयास्थस्य चान्यशब्दस्य दुगागमो भवति आशिस् आशा आस्था आ