काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
६०० ॥ काशिका ॥ ६ ॥ ३ ॥ द्वि अन्तरित्येताभ्यामुपसर्गाच्चोत्तरस्याबित्येतस्य ईकारादेशो भवति । द्वीपः । अन्तरीपः । उपसर्गात् । नीपम् । वीपम् । समीपम् ॥ समाप इत्ये प्रतिषेधो वक्तव्यः ॥ * ॥ समापं नाम देवयजनम् । अपर आह ॥ ईत्वमनव- योरिति वक्तव्यम् ॥ * ॥ इह मा भूत् । प्रापम् । परापम् । अप्शब्दं प्रति क्रियायोगाभावाद् उपसर्गग्रहणं प्राद्युपलक्षणार्थम् । उदनोर्द्देशे ॥ ९८ ॥ अनोत्तरस्याप ऊकारादेशो भवति देशाभिधाने । अनूपो देशः । देश इति किम् । अन्वीपम् । दीर्घोच्चारणमप्रत्याहारार्थम् । अनु ऊपो ऽनूप इति ॥ अशष्ठ्यतृतीयास्थस्यान्यस्य दुगाशीराशास्थास्थि- तोत्सुकोतिकारकरागच्छेषु ॥ ९९ ॥ अशष्ठीस्थस्य अतृतीयास्थस्य चान्यशब्दस्य दुगागमो भवति आशिस् आशा आस्था आ
॥ काशिका ॥ ६ ॥ ३ ॥ ६०१ तृणे च जातौ ॥ १०३ ॥ तृणशब्दउत्तरपदे जातावभिधेयायां कोः कदादेशो भवति । कत्तृणा नाम जातिः । जाताविति किम् । कुत्सितानि तृणानि कुतृणानि ॥ का पथ्यक्षयोः ॥ १०४ ॥ पथिन् अक्ष इत्येतयोरुत्तरपदयोः कोः का इत्ययमादेशो भवति । कापथः । काक्षः ॥ ईषदर्थे ॥ १०५ ॥ ईषदर्थे वर्तमानस्य कोः का इत्ययमादेशो भवति । कामधुरम् । कालवणम् । काम्लम् । अजादावपि परत्वात् कादेश एव भवति । कोष्णम् ॥ विभाषा पुरुषे ॥ १०६ ॥ पुरुषशब्दउत्तरपदे विभाषा कोः का इत्ययमादेशो भवति । कापुरुषः । कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति । ईषत्पुरुषः, कापुरुषः ॥ कवञ्चोष्णे ॥ १०७ ॥ उष्णशब्दउत्तरपदे कोः कवदित्ययमादेशो भवति का च विभाषा । कवोष्णम् । कदुष्णम् ॥ पथि चच्छन्दसि ॥ १०८ ॥ पथिन्शब्दउत्तरपदे छन्दसि विषये कोः कव का इत्येतावादेशौ भवतो विभाषा । कवपथः । कापथः । कुपथः ॥ पृषोदरादीनि यथोपदिष्टम् ॥ १०९ ॥ पृषोदरादीनि शब्दरूपाणि येषु लोपागमवर्णविकाराः शास्त्रेण न विहिता दृश्यन्ते च तानि यथोपदिष्टानि साधूनि भवन्ति । यानि यथोप- दिष्टानि शिष्टैरुच्चारितानि प्रयुक्तानि तथैवानुगन्तव्यानि । पृषदुदरं यस्य, पृषोदरम् । पृषद् उद्वानं यस्य, पृषोद्वानम् । अत्र तकारलोपो भवति । वारि- वाहको, बलाहकः । पूर्वशब्दस्य बशब्द आदेश उत्तरपदादेश्च लत्वम् । जीवनस्य मूतो, जीमूतः । वनशब्दस्य लोपः । शवानां शयनं, श्मशानम् । शवशब्दस्य श्मादेशः । शयनशब्दस्यापि शानशब्द आदेशः । ऊर्ध्वं खमस्येति, उलूखलम् । ऊर्ध्वखशब्दयोहलू खल इत्येतावादेशौ भवतः । पिशिताशः, पिशाचः । पिशिताशशब्दयोर्यथायोगं पिशाचशब्दावादेशौ । ब्रुवन्तोऽस्यां सीदन्तीति, बृसी । सदेरधिकरणे किट् प्रत्ययः । ब्रुवच्छब्दस्य चोपपदस्य
६०२ ॥ काशिका ॥ ६ ॥ ३ ॥ वृशब्द आदेशो भवति। महां रौतीति, मयूरः। रौतेरचि टिलोपः। मही- शब्दस्य मयूभावः। एवमन्येऽपि चाश्वत्थकपित्थाप्रभृतयो यथायोगमनुमन्तव्याः ॥ दिक्शब्देभ्य उत्तरस्य तीरस्य तारभावो वा भवति ॥ दक्षिणतीरम् । दक्षिण- तारम् । उत्तरतीरम् । उत्तरतारम् ॥ वाचो वादे ह्रत्वं च लभावश्चोत्तरपद- स्येञि प्रत्यये भवति ॥ वाचं वदतीति, वाग्वादः । तस्यापत्यं वाद्गालिः ॥ षष उत्वं दन्तदशधासूत्तरपदादेष्टुत्वं च भवति ॥ षड् दन्ता अस्य षोडन् । षट् च दश च षोडश ॥ धासु वा षष उत्वं भवति उत्तरपदादेश्च ष्टुत्वम् ॥ षोढा षड्धा कुरु । बहुवचननिर्देशो नानाधिकरणवाचिनो धाशब्दस्य प्रति- पत्त्यर्थः । इह मा भूत् । षट् दधाति धयति वा षड्धेति ॥ दुरो दाशनाश- दभधेषूत्वं वक्तव्यमुत्तरपदादेश्च ष्टुत्वम् ॥ कृच्छ्रेण दाश्यते नाश्यते दभ्यते च यः स दूदाशः । दूणाशः । दूढभः । दम्भेः खल्वनुनासिकलोपो निपातनात् । दुष्टं धायतीति, दूढाः । दुःशब्दोपपदस्य धायतेरातश्चोपसर्ग इति कप्रत्ययः ॥ स्वरौ रोहतो छन्दस्युत्वं वक्तव्यम् ॥ जायएहि स्वो रोहाव ॥ पीवोऽवसाना- दीनां च लोपो वक्तव्यः ॥ पीवोऽवसानां पयोऽवसानाम् ॥ वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यां ङौ ॥ ११० ॥ संख्या वि साय इत्येवं पूर्वस्याहन्शब्दस्य स्थाने अहनित्ययमादेशो भव- त्यन्यतरस्यां ङौ परतः। द्वयोरह्नोर्भवः, द्व्यह्नः। द्व्यहः। द्व्यह्नि। द्व्यहनि। व्यह्नि । व्यहनि। द्व्यह्ने । व्यह्ने । व्यपगतमहो, व्यन्हः । व्यह्नि । व्यहनि । व्यह्ने । सायमन्हः सायान्हः । सायाह्नि । सायाहनि । सायाह्ने । एकदेशिसमासः । पूर्वादिभ्यो ऽन्यस्यापि भवतीत्येतदेव विसायपूर्वस्याह्नस्य ग्रहणं ज्ञापकम् । तेन मध्यमह्नो मध्याह्न इत्यपि भवति । संख्याविसायपूर्वस्येति किम् । पूर्वेह्ने । अपराह्वे ॥ ढ्रलोपे पूर्वस्य दीर्घो ऽणः ॥ १११ ॥ ढकाररेफयोर्लोपो यस्मिन् स ढ्रलोपः, तत्र पूर्वस्याणो दीर्घो भवति । लीढम् । मीढम् । उपगूढम् । रलोपे । नीरक्तम् । अम्रीरथः । दून्दूरथः । पुनारक्तं वासः । प्राताराजक्रयः । पूर्वेग्रहणमनुत्तरपदे ऽपि पूर्वमात्रस्य दीर्घा- र्थम् । अण इति किम् । आवूढम् * ॥ सहिवहोरोदवर्णस्य ॥ ११२ ॥ सहि वहि इत्येतयोरवर्णस्योकार आदेशो भवति ढ्रलोपे । सोढा ।
- आवूढम् आवूढमिति पुस्तकान्तरे ऽधिकम् ।
॥ काशिका ॥ ६ ॥ ३ ॥ ६०३
सोढुम् । सोढव्यम् । वोढा । वोढुम् । वोढव्यम् । अवर्णस्येति किम् ॥ ऊढः । ऊढवान् । वर्णग्रहणं किम् । कृतायामपि वृद्धौ यथा स्यात् । उदवोढाम् । उदवोढम् । तदपि परस्तपरस्परत्वादाकारस्य ग्रहणं न स्यात् ॥ साढौ साद्वा साढेति निगमे ॥ ११३ ॥ साढौ साद्वा साढा इति निगमे निपात्यन्ते । साढौ समन्तात् । साद्वा शत्रून् । सहेः क्त्वाप्रत्यये ओत्वाभावः । पक्षे क्त्वाप्रत्ययस्य धौभावः । साढेति तृज्रूपमेतत् । निगम इति किम् । सोढा सोढेति भाषायाम् ॥ संहितायाम् ११४ ॥ संहितायामित्ययमधिकारः । यदित ऊर्ध्वमनुक्रमिष्यामः संहितायामि- त्येवं तद्वेदितव्यम् । वक्ष्यति । ष्ट्योतस्तिङ इति । विद्वा हित्वॉ सत्यतिं शूर गोनाम् । संहितायामिति किम् । विद्ध, हि, त्वा, सत्यतिं, शूर, गोनाम् ॥ कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नछिद्र- स्रुवस्वस्तिकस्य ॥ ११५ ॥ कर्णशब्दे उत्तरपदे लक्षणवाचिनो दीर्घो भवति विष्ट अष्टन् पञ्चन् मणि भिन्न छिन्न छिद्र स्रुव स्वस्तिक इत्येतान्वर्जयित्वा । दात्राकर्णः । द्विगु- णाकर्णः । त्रिगुणाकर्णः । कुण्डलाकर्णः । शङ्कुलाकर्णः । यत्पशूनां स्वामिवि- शेषसम्बन्धज्ञापनायै दात्राकारादि क्रियते तदिह लक्षणं गृह्यते । लक्षणस्येति किम् । शोभनकर्णः । अविष्टादीनामिति किम् । विष्टकर्णः । अष्टकर्णः । पञ्च- कर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः ॥ नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ॥ ११६ ॥ नहि वृति वृषि व्यधि रुचि सहि तनि इत्येतेषु क्विप्प्रत्ययान्तेषूत्तरपदेषु पूर्वपदस्य दीर्घो भवति संहितायां विषये । नहि । उपानत् । परीणत् । वृति । नीवृत । उपावृत । वृषि । प्रावृट् । उपावृट् । व्यधि । मर्मावित् । हृदया- वित् । श्वावित् । रुचि । नीरुक् । अभीरुक् । सहि । पृतनाषाट् । तनि । परीतत् ॥ गमः क्वाविति गमादीनामिष्यते ॥ ततस्तनोतेरप्यनुनासिकलोपः । क्वाविति किम् । परितहनम् ॥ वनगिर्योः संज्ञायां कोटरकिंशुल्कादीनाम् ॥ ११७ ॥ वन गिरि इत्येतयोरुत्तरपदयोर्यथासंख्यं कोटरादीनां किंशुल्कादीनां च दीर्घो भवति संज्ञायां विषये । वने कोटरादीनाम् कोटरावणम् । मिश्र- कावणम् । सिध्रकावणम् । सारिकावणम् । गिरौ किंशुल्कादीनाम् । किंशु-
६०४ ॥ काशिका ॥ ६ ॥ ३ ॥ लकागिरिः। अञ्जनागिरिः। कोटरकिंशुलकादीनामिति किम् । असिपत्रव- नम् । कृष्णगिरिः। कोटर। मिश्रक। पुरक। सिध्रक। सारिक। कोटरादिः। किंशुलक। साल्वक। अञ्जन। भञ्जन। लोहित। कुक्कुट। किंशुलकादिः ॥ वले ॥ ११८ ॥ वले परतः पूर्वस्य दीर्घो भवति । आसुतीवलः। कृषीवलः। दन्तावलः। रजःकृष्यासुतिपर्षदोवलच् इति वलच्प्रत्ययो गृह्यते ॥ अनुत्साहभ्रातृपितृभ्यामि- त्येव ॥ उत्साहवलः । भ्रातृवलः ॥ पितृवलः * ॥ मतावह्नचो ऽनजिरादीनाम् ॥ ११९ ॥ मतौ परतो बह्वचो ऽजिरादिवर्जितस्य दीर्घो भवति संज्ञायां विषये । उदुम्बरावती । मशकावती । वीरणवती । पुष्करावती । अमरावती । नद्यां [L12
॥ काशिका ॥ ६ ॥ ३ ॥ ६०५ दस्ति ॥ १२४ ॥ दा इत्येतस्य यस्तकारादिरादेशस्तस्मिन्परत इगन्तस्योपसर्गस्य दीर्घो भवति । नीत्तम् । वीत्तम् । परीत्तम् । अच उपसर्गात्त इत्यत्र यद्यपि तकारः क्रियते तथापि चर्त्वाश्रयात्सिद्धत्वमिति तकारादिर्भवति । इक इत्येव । प्रत्तम् । अवत्तम् । द इति किम् । वितीर्णम् । नितान्तम् । तीति किम् । सुदत्तम् ॥ अष्टनः संज्ञायाम् ॥ १२५ ॥ अष्टनित्येतस्योत्तरपदे संज्ञायां दीर्घो भवति । अष्टावक्षः । अष्टाब- न्धुः । अष्टापदम् । संज्ञायामिति किम् । अष्टपुत्रः । अष्टभार्यः ॥ छन्दसि च ॥ १२६ ॥ छन्दसि विषये ऽष्टन उत्तरपदे दीर्घो भवति । आग्नेयमष्टाकपालं निर्वपेत् । अष्टाहिरण्या दक्षिणा । अष्टापदी देवता सुमती । अष्टौ पादा- वस्या इति बहुव्रीहौ पादस्य लोपे कृते पादोऽन्यतरस्यामिति ङीप् ॥ गवि च युक्ते भाषायामष्टनो दीर्घो भवतीति वक्तव्यम् ॥ * ॥ अष्टागवं शकटम् ॥ चितेः कपि ॥ १२७ ॥ चितिशब्दस्य कपि परतो दीर्घो भवति । एकचितीकः । द्विचितीकः । त्रिचितीकः ॥ विश्वस्य वसुराटोः ॥ १२८ ॥ विश्वशब्दस्य वसु राडित्येतयोरुत्तरपदयोर्दीर्घ आदेशो भवति । विश्वावसुः । विश्वाराट् । राडिति विकारनिर्देशो यत्रास्यैतद्रूपं तत्रैव यथा स्यात् । इह न भवति । विश्वराजौ । विश्वराजः ॥ नरे संज्ञायाम् ॥ १२९ ॥ नरशब्दउत्तरपदे संज्ञायां विषये विश्वस्य दीर्घो भवति । विश्वानरो नाम यस्य वैश्वानरिः पुत्रः । संज्ञायामिति किम् । विश्वे नरा यस्य स विश्वनरः ॥ मित्रे चर्षौ ॥ १३० ॥ मित्रे चोत्तरपदे ऋषावभिधेये विश्वस्य दीर्घो भवति । विश्वामित्रो नाम ऋषिः । ऋषाविति किम् । विश्वमित्रो माणवकः ॥ मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ॥ १३१ ॥ मन्त्रविषये सोम अश्व इन्द्रिय विश्वदेव्य इत्येतेषां मतुप्प्रत्यये परतो दीर्घो भवति । सोमावती । अश्वावती । इन्द्रियावती । विश्वदेव्यावती ॥
६०६ ॥ काशिका ॥ ६ ॥ ३ ॥ ओषधेश्च विभक्तावप्रथमायाम् ॥ १३२ ॥ मन्त्र इति वर्तते । ओषधिशब्दस्य विभक्तावप्रथमायां परतो दीर्घो भवति । ओषधीभिरपीप्रतत् । नमः पृथिव्यै नम ओषधीभ्यः । विभक्ताविति किम् । ओषधिपते । अप्रथमायामिति किम् । स्थिरेयमस्त्वोषधिः ॥ ऋचि तुनुघमत्तुतङ्कुत्रोरुष्याणाम् ॥ १३३ ॥ ऋचि विषये तु नु घ मत्तु तङ् कु त्र उरुष्य इत्येषां दीर्घो भवति । आ तू न इन्द्र वृत्रहन् । तु । नू करत्ने । घ । उत वा घा स्यालात् । मत्तु । मत्तू गोमन्तममीमहे । तङ् । भरता जातवेदसम् । तङिति थादेशस्य ङित्त्वपक्षे ग्रहणं, तेनेह न भवति । शृणोत ग्रावाणः । कु । कुमनः । त्र । अत्रा गोः । उरुष्य । उरुष्या णोभनेः ॥ इकः सुञि ॥ १३४ ॥ सुञ् निपातो गृह्यते । इगन्तस्य सुञि परतो मन्त्रविषये दीर्घो भवति । अभी षु णः सखीनाम् । ऊर्ध्व ऊ षु ण ऊतये । सुञ इति षत्वम् । नश्च धातुस्थोरुषुभ्य इति णत्वम् ॥ द्व्यचोतस्तिङः ॥ १३५ ॥ ऋचीति वर्तते । द्व्यचस्तिङन्तस्यात ऋग्विषये दीर्घो भवति । विद्मा हि त्वा सर्पार्तं शूर गोनाम् । विद्मा स तस्य पितरम् । द्व्यच इति किम् ! देवा भवत वाजिनः । अत इति किम् । आ देवान्वक्षि यक्षि च ॥ निपातस्य च ॥ १३६ ॥ ऋचीत्येव । निपातस्य च ऋग्विषये दीर्घ आदेशो भवति । एवा ते अच्छाते ॥ अन्येषामपि दृश्यते ॥ १३७ ॥ अन्येषामपि दीर्घो दृश्यते स शिष्टप्रयोगादनुगन्तव्यः । यस्य दीर्घत्वं न विहितं दृश्यते च प्रयोगे तदनेन कर्तव्यम् । केशाकेशि । कचाकचि । जलाषाट् । नारकः पूरुषः ॥ शुनो दन्तदंष्ट्रकर्णकुन्दवराहपुच्छपदेषु ॥ * ॥ श्वादन्तः । श्वादंष्ट्रः । श्वाकर्णः । श्वाकुन्दः । श्वावराहः । श्वापुच्छः । श्वापदः ॥ चौ ॥ १३८ ॥ चौ परतः पूर्वपदस्य दीर्घो भवति । चावित्यञ्चतिर्लुप्तनकाराकारो गृह्यते । दधीचः पश्य । दधीचा । दधीचे । मधूचः पश्य । मधूचा । मधूचे । अन्तरङ्गोऽपि हि यणादेशो दीर्घविधानसामर्थ्यान्न प्रवर्तते ॥
॥ काशिका ॥ ६ ॥ ४ ॥ ६०७ संप्रसारणस्य ॥ १३९ ॥ उत्तरपदमिति वर्तते । संप्रसारणान्तस्य पूर्वपदस्योत्तरपदे दीर्घो भवति । कारीषगन्धीपुत्रः । कारीषगन्धीपतिः । कौमुद्गन्धीपुत्रः । कौमुद्गन्धापतिः । करीषस्येव गन्धोऽस्य । कुमुदस्येव गन्धो ऽस्य । अल्पाख्यायामुपमानाच्चेति इकारः समासान्तः । करीषगन्धेरपत्यं कुमुदगन्धेरपत्यं, कौमुद्गन्ध्यापुत्रः । कौमुद्गन्धीपतिः । इको ह्रस्वो ऽङ्यो गालवस्येत्येतच्च भवति । व्यवस्थित- विभाषा हि सा । यकृतएव दीर्घत्वे ह्रस्वाभावपक्षे कृतार्थेनापि दीर्घेण पत्ता- न्ते परत्वाद् ह्रस्वो बाध्यते । पुनः प्रसङ्गविज्ञानं च न भवति । सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ॥ इति काशिकायां वृत्तौ षष्ठस्याध्यायस्य तृतीयः पा
यथा', what is that akshara? It has a loop on the left, a vertical stroke, and an u-kar below: that's 'पु' or 'यु' or 'त्यु'? Wait, look at "नृपते" later in the line: 'प' 'त' 'े'. Look at the akshara in question: it has a vertical line, and a curve to the left, like 'यु' or 'पु'. Wait, could it be "नामि परमुभयथा भवति"? Wait! Is it "परमुभयथा"? No, 'म' has a loop at bottom-left and flat top. Could it be "परत उभयथा"? Look at line 11: "परत उभयथा". In line 11, 'त' is a separate letter, then space, then 'उभयथा'. In line 15: There is 'प', 'र', then 'यु' or 'त्यु'? Wait, look at the letter: it has a top bar, a vertical stem, a loop at the bottom, and a descender. That's 'यु' or 'त्यु'! Wait, could it be "परत्युभयथा"? In Hindi/Sanskrit prints, sometimes 'परत उभयथा' was set as 'परत्युभयथा' by mistake. Wait, let's look at: "पर्युभयथा"? (र-फला
Line 26:
शौ नियमं पुनरेव विदध्याद् भूष्णहनीति तथास्य न दुष्येत् ॥
Wait, is it "भूष्णहनीति" or "पूष्णहनीति"?
Look at the first letter: भू or पू?
It has the loop of पू or भू?
Wait, in "पूष्णहनीति", पूष्ण + हन्. पूषन् and हन्!
Does it have the circle of भ?
Look at भू in भूष्णहनीति: it has a loop on the left! It looks like भू. But wait, could it be पू? Look at पूष्णौ in line 24: पूष्णौ has पू.
In line 26: the character is भू! Why भूष्ण? It's a typo for पूष्ण (प and भ are easily confused in manuscripts/typesetting). Let's check:
"शौ नियमं पुनरेव विदध्यात् पूष्णहनीति तथास्य न दुष्येत्"
Yes, the text is: "पूष्णहनीति" (or printed "भूष्णहनीति"). Looking at the image, it looks like भूष्णहनीति. Let's look very closely: yes, it has the inner loop of भ: भूष्णहनीति. We should transcribe what is printed, or भूष्णहनीति
६१० ॥ काशिका ॥ ६ ॥ ४ ॥ हन्स्तेरनुनासिकस्य क्विब्झलोः क्ङितीति दीर्घत्वं यत् तदपि नियमेन बाध्यते । वृत्रहणि । भ्रूणहनीति । कथम् । योगविभागः क्रियते । इन्हन्पू- षार्यम्णाम् । सर्वनामस्थानएव दीर्घो भवति, नान्यत्रेति । ततः शाविति द्वितीयो नियमः, शावेव सर्वनामस्थाने दीर्घो भवति नान्यत्रेति । सर्वेभ्यो पधालक्षणस्य दीर्घस्य नियमेन निवृत्तिः क्रियते । यस्तु न उपधालक्षणः, स भवत्येव । वृत्रहायते । भ्रूणहायते । अथ वा ऽनुवर्त्तमानेपि सर्वनामस्थानग्रहणे सामर्थ्यादयमविशेषेण नियमः । शिशब्दो हि सर्वनामस्थानं नपुंसकस्य, न च तस्यान्यत्सर्वनामस्थानमस्तीत्यविशेषेण नियमः । तत्र तु नपुंसकस्येत्येतदा- श्रीयते । तेनानपुंसकस्यापि दीर्घो न भवति । सर्वनामस्थानसंज्ञाविधाने तु नपुंसकस्य व्यापारोस्तीति तत्र नियमः क्रियमाणो
ः । पृष्टवान् । पृष्ट्वा । वकारस्य ।" Look at "छस्य": Wait, is that "छस्य"? Yes: छ with स्य -> "छस्य ।" Then: "पृष्टः । पृष्टवान् । पृष्ट्वा । वकारस्य ।"
Line 28: "द्यूतः । द्यूतवान् । द्यूत्वा । क्ङितीत्येव । द्युभ्याम् । द्युभिः । के चिदत्र" Look at "द्युभ्याम् । द्युभिः ।": Wait, is the u-kara short or long? It is short: "द्युभ्याम् । द्युभिः ।" Then: "के चिदत्र" (two words: के चिदत्र or केचिदत्र). Here spaced: "के चिदत्र".
Line 29: "क्ङितीति नानुवर्तयन्ति । कथं द्युभ्यां द्युभिरिति, ऊठि कृते दिव उत्इति" Wait, in "क्ङितीति": Does line 29 start with "क्ङितीति"? Yes: "क्ङितीति नानुवर्तयन्ति । कथं द्युभ्यां द्युभिरिति, ऊठि कृते दिव उत्इति" Wait, look at "दिव उत्इति": द-ि-व उ-त-्-इ-त-ि -> "दिव उत्
... पश्य ।
Look at the letters:
1: चि
2: च्छ्यु? No, च्यु?
Wait, look at the letter:
Top is ि matra over a letter that has a top bar and a loop: चि?
Then the next letter: च्यु?
Then षः!
Wait, could it be चिच्युषः? (from च्यु -> चुच्युवुष्? No, च्यु is u-varna).
Wait, what root with यणादेश?
If क्री -> चिक्रियुषः?
If चि -> चिच्युषः? No, चि -> चिच्युषः doesn't exist.
Wait! What if the root is च्यु?
Wait, what if the word is:
पपुषः पश्य । निन्युषः पश्य । लुलुवुषः पश्य ।?
Wait, look at the first consonant of word 2:
It is नि! The left hook is the i-matra coming down to the left of न!
Wait, look at नि in नास्ति (line 27), निन्युषः?
Wait, look at the conjunct: it is न्यु! A न with a य and ु!
Wait, look at the prompt image again:
`प
॥ काशिका ॥ ६ ॥ ४ ॥ ६१३ श्नान्नलोपः ॥ २३ ॥ श्नादिति श्नमयमुत्सृष्टमकारो गृह्यते । तत उत्तरस्य नकारस्य लोपो भवति । अनक्ति । भनक्ति । छिनत्ति । शकारवतो ग्रहणं किम् । यत्नानाम् । यत्नानाम् । सुपि चेति परत्वात् कृते ऽपि दीर्घत्वे स्थानिवद्भावाच्चलोपः स्यादेव । विश्नानां प्रश्नानामित्यत्र लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेत्येवं न भवति ॥ अनिदितां हल उपधायाः क्ङिति ॥ २४ ॥ अनिदितामङ्गानां हलन्तानामुपधाया नकारस्य लोपो भवति क्ङिति प्रत्यये परतः । स्रस्तः । ध्वस्तः । स्रस्यते । ध्वस्यते । सनीस्रस्यते । दनीध्व- स्यते । अनिदितामिति किम् । नन्द्यते । नानन्द्यते । हल इति किम् । नीयते । नेनीयते । उपधाया इति किम् । नह्यते । नानह्यते । क्ङितीति कि
? Wait, it's a flower or star symbol: "॥ ऽ ॥" or "॥ * ॥"? Wait! It's a cross/star like a divider between vārttikas! In Kāśikā editions, Vārttikas are often enclosed between "॥ * ॥" or "॥" and "॥"! Wait, look at line 29: "शास इत्वं भवतीति वक्तव्यम् ॥ * ॥ आर्यान् शास्तीति..." Wait, is line 29 part of the Vārttika? "क्वौ च शास इत्वं भवतीति वक्तव्यम् ॥" is the Vārttika! Then "॥ * ॥" separates the Vārttika from the vṛtti/udāharaṇa: "आर्य्यान् शास्तीति, आर्य्यशीः । मित्रशीः ॥" Yes! That's a traditional separator symbol (like a cross or rosette).
Let's check line 13: "क्ति स्कन्दिष्यन्दोः ॥ ३१ ॥" Wait, let's look closely at "क्ति": Could it be "क्तौ"? Look at the right side of the letter: there is no vertical bar for au. Wait, is it "क्त्वा"? Wait, look at "क्त्वा" in line 14: "क्त्वाप्रत्यये" - the 'क्त्वा' has क, ्, त, ्, व, ा. In line 13:
॥ काशिका ॥ ६ ॥ ४ ॥ ६१५ शासु इच्छायामिति चास्य न भवति । आशास्ते । आशास्यमानः ॥ क्विप्प्रत्यये तु तस्यापि भवतीति वक्तव्यम् ॥ * ॥ आशीः । आशिषौ । आशिषः । छिया- शीःप्रैषेषु तिङाकाङ्क्षमिति निपातनाद्वा सिद्धम् ॥ शा हौ ॥ ३५ ॥ शासो हौ परतः शा इत्ययमादेशो भवति । अनुशाधि । प्रशाधि । उपधाया इति निवृत्तं ततः शास इति स्थानेयोगा षष्ठी भवति । क्ङितीत्येतदपि निवृ- त्तम् । तेन यदा वा छन्दसीति पित्वं हिशब्दस्य तदाप्यादेशो भवत्येव । शाधीत्याद्युदात्तमपि छन्दसि दृश्यते ॥ हन्तेर्जः ॥ ३६ ॥ हन्तेर्द्धातोर्ज इत्ययमादेशो भवति हौ परतः । जहि शत्रून् ॥ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलो- पो झलि क्ङिति ॥ ३७ ॥ अनुदात्तोपदेशानामङ्गानां वनतेस्तनोत्यादीनां चानुनासिकलोपो भवति झलादौ क्ङिति प्रत्यये परतः । यमु । यत्वा । यतः । यतवान् । यतिः । रमु । रत्वा । रतः । रतवान् । रतिः । अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिन- मिगमिहनिमन्त्यतयः । वनति । वतिः । क्तिनो रूपमेतत् । क्तिचि तु न क्तिचि दीर्घश्चेति भवति । अन्यत्र झलादाविटा भवितव्यम् । तनोत्यादयः । ततः । ततवान् * । सनोतेरात्वं वक्ष्यति । षणु । षतः । षतवान् । क्षणु । क्षतः । क्षतवान् । तृणु । तृतः । तृतवान् । घृणु । घृतः । घृतवान् । वनु । वतः । वतवान् । मनु । मतः । मतवान् । ङिति । अतत । अतथाः । अनुदात्तोपदेशवनतित- नोत्यादीनामिति किम् । शान्तः । शान्तवान् । तान्तः । तान्तवान् । दान्तः । दान्तवान् । अनुनासिकस्येति किम् । पक्वः । पक्ववान् । झलीति किम् । गम्यते । रम्यते । क्ङितीति किम् । यन्ता । यन्तव्यम् । उपदेशग्रहणं किम् । इह च यथा स्यात् । गतिः । इह च मा भूत् । शान्तः । शान्तवानिति ॥ वा ल्यपि ॥ ३८ ॥ ल्यपि परतो ऽनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो वा भवति । व्यवस्थितविभाषा चेयं, तेन मकारान्तानां विकल्पो भवति । अन्यत्र नित्यमेव लोपः । प्रयत्य । प्रयम्य । प्ररत्य । प्ररम्य । प्रगत्य । प्रगम्य । आगत्य । आगम्य । आहत्य । प्रमत्य । प्रवत्य । प्रतत्य ॥
- तत्त्वा ततिरित्याधिकमेकस्मिन्पुस्तके ।
Here is the line-by-line transcription of the text from the image in pure Markdown with line markers:
६१६ ॥ काशिका ॥ ६ ॥ ४ ॥ न क्तिचि दीर्घश्च ॥ ३९ ॥ क्तिचि परतो ऽनुदात्तोपदेशादीनामनुनासिकलोपो दीर्घश्च न भवति । यन्तिः । वन्तिः । तन्तिः । अनुनासिकलोपे प्रतिषिद्धे ऽनुनासिकस्य क्झलोः क्ङितीति दीर्घः प्राप्नोति सोऽपि प्रतिषिध्यते ॥ गमः क्वौ ॥ ४० ॥ गमः क्वौ परतो ऽनुनासिकलोपो भवति । अङ्गगत् । कलिङ्गगत् । अध्वगतो हरयः ॥ गमादीनामिति वक्तव्यम् ॥ * ॥ इहापि यथा स्यात् । संयत् । परीतत् ॥ ऊङ् च गमादीनामिति वक्तव्यम् ॥ * ॥ अयेगूः । अयेभूः ॥ विड्वनोरनुनासिकस्यात् ॥ ४१ ॥ विटि वनि च प्रत्यये परतो ऽनुनासिकान्तस्याङ्गस्याकार आदेशो भवति । अब्जाः । गोजाः ।
तनोतेर्यकि परतो विभाषा आकार आदेशो भवति । तायते । तन्यते । यकीति किम् । तन्तन्यते ॥ सनः क्तिचि लोपश्चास्यान्तरस्याम् ॥ ४५ ॥ सनोतेरङ्गस्य क्तिचि प्रत्यये परत आकार आदेशो भवति लोपश्चास्या- न्तरस्याम् । सातिः । सन्तिः । सतिः । अन्यतरस्यांग्रहणं विस्पष्टार्थम् । असं- बद्धं हि विभाषाग्रहणमिह निवृत्तमित्याशङ्केत ॥ आर्धधातुके ॥ ४६ ॥ आर्धधातुकइत्यधिकारो न ल्यपीति प्रागेतस्माद्यदित ऊर्ध्वमनुक्रमिष्याम आर्धधातुकइत्येवं तद्वेदितव्यम् । वक्ष्यति । अतो लोपः । चिकीर्षिता । जिही- र्षिता । आर्धधातुकइति किम् । भवति । भवतः । अदिप्रभृतिभ्यः शपो लुग्वचनं प्रत्ययलक्षणप्रतिषेधार्थं स्यादित्येतच्च ज्ञापकं शपो लोपाभावस्य । यस्य हलः । बेभिदि
६१८ ॥ काशिका ॥ ६ ॥ ४ ॥ वृत्तता ॥ वृद्धिदीर्घाभ्यामतो लोपः पूर्वविप्रतिषेधेन ॥ * ॥ चिकीर्षकः । जिही- र्षकः । चिकीर्ष्यते । जिहीर्ष्यते ॥ यस्य हलः ॥ ४९ ॥ हल उत्तरस्य यशब्दस्यार्द्धधातुके लोपो भवति । बेभिदिता । बेभिदि- तुम् । बेभिदितव्यम् । यस्येति संघातग्रहणमेतत् । तन्नालोन्त्यस्येत्येतन्न भव- त्यतो लोप इत्यनेनैव तस्य सिद्धत्वात् । हल इति वा पञ्चमीनिर्देशस्तत्रादेः परस्येति यकारोनेन लुप्यते । संघातग्रहणं किम् । इय्यिता । मय्यिता । हल इति किम् । लोलूयिता । पोपूयिता ॥ क्यस्य विभाषा ॥ ५० ॥ क्यस्य हल उत्तरस्य विभाषा लोपो भवति आर्द्धधातुके । समिध्यिता । समिधिता । दृषद्यिता । दृषदिता । समिधमात्मन इच्छति, समिधइवाचरति, इति वा क्यच्क्यङौ यथायोगं कर्त्तव्यौ ॥ णेरनिटि ॥ ५१ ॥ अनिडादावार्द्धधातुके णेर्लोपो भवति । इयङयण्गुणवृद्धिदीर्घाणामप- वादः । अततक्षत् । अररक्षत् । आशिशत् । आटिटत् । कारणा । हारणा । कारकः । हारकः । कार्यते । हार्यते । जीप्सति । अनिटीति किम् । कार- यिता । हारयिता ॥ निष्ठायां सेटि ॥ ५२ ॥ निष्ठायां सेटि परतो णेर्लोपो भवति । कारितम् । हारितम् । गणि- तम् । लक्षितम् । सेटीति किम् । संज्ञपितः पशुः । इड्ग्रहणसामर्थ्यादिह पूर्वेणापि न भवति । सनीवन्तर्द्धति ज्ञपेरिटि विकल्पिते यस्य विभाषेति निष्ठायां प्रतिषेधः । अथ पुनरेकाच इति तत्रानुवर्त्तते तदा नित्यमत्र भवित- व्यमेवेडागमेनेति । सेड्ग्रहणमनर्थकं तत् क्रियते कालावधारणार्थम् इडागमे कृते णिलोपो यथा स्यात् । अकृते हि तत्र णिलोपे सति कारितमित्यत्र एकाच उपदेशे ऽनुदात्तादितीटः प्रतिषेधः प्रसज्येत ॥ जनिता मन्त्रे ॥ ५३ ॥ जनितेति मन्त्रविषये इडादौ णिलोपो निपात्यते । यो नः पिता जनिता । मन्त्रइति किम् । जनयिता ॥ शमिता यज्ञे ॥ ५४ ॥ यज्ञकर्मणि शमितेति इडादौ णिलोपो निपात्यते । शतं हविः शमितः । शुचि संबुद्ध्यन्तमेतत् । यज्ञइति किम् । शतं हविः शमयितः ॥
॥ काशिका ॥ ६ ॥ ४ ॥ ६१९ अयामन्ताल्वाय्येत्न्विष्णुषु ॥ ५५ ॥ आम् अन्त आलु आय्य इत्नु ष्णु इत्येतेषु परतो णेरयादेशो भवति । कारयांचकार । हारयांचकार । अन्त । गणयन्तः । मण्डयन्तः । आलु । स्पृहयालुः । आय्य । स्पृहयाय्यः । गृहयाय्यः । इत्नु । स्तनयित्नुः । इष्णु । पोष- यिष्णवः * । नेति वक्तव्ये अयादेशवचनमुत्तरार्थम् ॥ ल्यपि लघुपूर्वात् ॥ ५६ ॥ ल्यपि परतो लघुपूर्वादुत्तरस्य णेरयादेशो भवति । प्रशमय्य गतः । संदमय्य गतः । प्रवेभिदय्य गतः । प्रगणय्य गतः । ह्रस्वलोपाल्लोपानामसि- द्धत्वं न भवत्यसमानाश्रयत्वात् । ह्रस्वादयो हि णौ ल्यपि णेरयादेशो भवति । लघुपूर्वादिति किम् । प्रपात्य गतः ॥ विभाषा ऽऽपः ॥ ५७ ॥ आप उत्तरस्य णेर्ल्यपि परतो विभाषा ऽयादेशो भवति । प्रापय्य गतः । प्राप्य गतः । इहादेशस्य लाक्षणिकत्वाच्च भवति । आप्याय्य गतः ॥ युप्लुवोर्दीर्घश्छन्दसि ॥ ५८ ॥ यु प्लु इत्येतयोर्ल्यपि परतश्छन्दसि विषये दीर्घो भवति । दान्त्यनुपूर्वं वियूय । यन्ना यो दक्षिणा परिप्लूय । छन्दसीति किम् । संयुत्य । आप्लुत्य ॥ क्षियः ॥ ५९ ॥ क्षियश्च दीर्घो भवति ल्यपि परतः । प्रक्षीय ॥ निष्ठायामण्यदर्थे ॥ ६० ॥ ण्यतः कृत्यस्यार्थो भावकर्म्मणी ताभ्यामन्यत्र या निष्ठा तस्यां क्षियो दीर्घो भवति । आक्षीणः । प्रक्षीणः । परिक्षीणः । अकर्म्मकत्वात् क्षियः कर्त्तरि क्तः । प्रक्षीणमिदं देवदत्तस्येति क्तो ऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्य इत्यधिकरणे क्तः । अण्यदर्थेति किम् । क्षित्तमसि मामेतेष्ठाः । क्षितमिति भावे दीर्घाभावात् क्षियो दीर्घादिति निष्ठानत्वमपि न भवति ॥ वा ऽऽक्रोशदैन्ययोः ॥ ६१ ॥ आक्रोशे गम्यमाने दैन्ये च क्षियो निष्ठायामण्यदर्थे वा दीर्घो भवति । क्षितायुरेधि । क्षीणायूरेधि । दैन्ये । क्षितकः । क्षीणकः । क्षितोयं तपस्वी । क्षीणोयं तपस्वी ॥
- पारयिष्णव इत्यधिकं पुस्तकान्तरे ।