काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 608, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ ४ ॥ ६०७ संप्रसारणस्य ॥ १३९ ॥ उत्तरपदमिति वर्तते । संप्रसारणान्तस्य पूर्वपदस्योत्तरपदे दीर्घो भवति । कारीषगन्धीपुत्रः । कारीषगन्धीपतिः । कौमुद्गन्धीपुत्रः । कौमुद्गन्धापतिः । करीषस्येव गन्धोऽस्य । कुमुदस्येव गन्धो ऽस्य । अल्पाख्यायामुपमानाच्चेति इकारः समासान्तः । करीषगन्धेरपत्यं कुमुदगन्धेरपत्यं, कौमुद्गन्ध्यापुत्रः । कौमुद्गन्धीपतिः । इको ह्रस्वो ऽङ्यो गालवस्येत्येतच्च भवति । व्यवस्थित- विभाषा हि सा । यकृतएव दीर्घत्वे ह्रस्वाभावपक्षे कृतार्थेनापि दीर्घेण पत्ता- न्ते परत्वाद् ह्रस्वो बाध्यते । पुनः प्रसङ्गविज्ञानं च न भवति । सकृद्गतौ विप्रतिषेधे यद्बाधितं तद्बाधितमेवेति ॥ इति काशिकायां वृत्तौ षष्ठस्याध्यायस्य तृतीयः पा