काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 617, कुल 828 में से
संदर्भ में पढ़ेंHere is the line-by-line transcription of the text from the image in pure Markdown with line markers:
६१६ ॥ काशिका ॥ ६ ॥ ४ ॥ न क्तिचि दीर्घश्च ॥ ३९ ॥ क्तिचि परतो ऽनुदात्तोपदेशादीनामनुनासिकलोपो दीर्घश्च न भवति । यन्तिः । वन्तिः । तन्तिः । अनुनासिकलोपे प्रतिषिद्धे ऽनुनासिकस्य क्झलोः क्ङितीति दीर्घः प्राप्नोति सोऽपि प्रतिषिध्यते ॥ गमः क्वौ ॥ ४० ॥ गमः क्वौ परतो ऽनुनासिकलोपो भवति । अङ्गगत् । कलिङ्गगत् । अध्वगतो हरयः ॥ गमादीनामिति वक्तव्यम् ॥ * ॥ इहापि यथा स्यात् । संयत् । परीतत् ॥ ऊङ् च गमादीनामिति वक्तव्यम् ॥ * ॥ अयेगूः । अयेभूः ॥ विड्वनोरनुनासिकस्यात् ॥ ४१ ॥ विटि वनि च प्रत्यये परतो ऽनुनासिकान्तस्याङ्गस्याकार आदेशो भवति । अब्जाः । गोजाः ।