काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 616, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ ४ ॥ ६१५ शासु इच्छायामिति चास्य न भवति । आशास्ते । आशास्यमानः ॥ क्विप्प्रत्यये तु तस्यापि भवतीति वक्तव्यम् ॥ * ॥ आशीः । आशिषौ । आशिषः । छिया- शीःप्रैषेषु तिङाकाङ्क्षमिति निपातनाद्वा सिद्धम् ॥ शा हौ ॥ ३५ ॥ शासो हौ परतः शा इत्ययमादेशो भवति । अनुशाधि । प्रशाधि । उपधाया इति निवृत्तं ततः शास इति स्थानेयोगा षष्ठी भवति । क्ङितीत्येतदपि निवृ- त्तम् । तेन यदा वा छन्दसीति पित्वं हिशब्दस्य तदाप्यादेशो भवत्येव । शाधीत्याद्युदात्तमपि छन्दसि दृश्यते ॥ हन्तेर्जः ॥ ३६ ॥ हन्तेर्द्धातोर्ज इत्ययमादेशो भवति हौ परतः । जहि शत्रून् ॥ अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलो- पो झलि क्ङिति ॥ ३७ ॥ अनुदात्तोपदेशानामङ्गानां वनतेस्तनोत्यादीनां चानुनासिकलोपो भवति झलादौ क्ङिति प्रत्यये परतः । यमु । यत्वा । यतः । यतवान् । यतिः । रमु । रत्वा । रतः । रतवान् । रतिः । अनुदात्तोपदेशा अनुनासिकान्ता यमिरमिन- मिगमिहनिमन्त्यतयः । वनति । वतिः । क्तिनो रूपमेतत् । क्तिचि तु न क्तिचि दीर्घश्चेति भवति । अन्यत्र झलादाविटा भवितव्यम् । तनोत्यादयः । ततः । ततवान् * । सनोतेरात्वं वक्ष्यति । षणु । षतः । षतवान् । क्षणु । क्षतः । क्षतवान् । तृणु । तृतः । तृतवान् । घृणु । घृतः । घृतवान् । वनु । वतः । वतवान् । मनु । मतः । मतवान् । ङिति । अतत । अतथाः । अनुदात्तोपदेशवनतित- नोत्यादीनामिति किम् । शान्तः । शान्तवान् । तान्तः । तान्तवान् । दान्तः । दान्तवान् । अनुनासिकस्येति किम् । पक्वः । पक्ववान् । झलीति किम् । गम्यते । रम्यते । क्ङितीति किम् । यन्ता । यन्तव्यम् । उपदेशग्रहणं किम् । इह च यथा स्यात् । गतिः । इह च मा भूत् । शान्तः । शान्तवानिति ॥ वा ल्यपि ॥ ३८ ॥ ल्यपि परतो ऽनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो वा भवति । व्यवस्थितविभाषा चेयं, तेन मकारान्तानां विकल्पो भवति । अन्यत्र नित्यमेव लोपः । प्रयत्य । प्रयम्य । प्ररत्य । प्ररम्य । प्रगत्य । प्रगम्य । आगत्य । आगम्य । आहत्य । प्रमत्य । प्रवत्य । प्रतत्य ॥
- तत्त्वा ततिरित्याधिकमेकस्मिन्पुस्तके ।