भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 619, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 619

६१८ ॥ काशिका ॥ ६ ॥ ४ ॥ वृत्तता ॥ वृद्धिदीर्घाभ्यामतो लोपः पूर्वविप्रतिषेधेन ॥ * ॥ चिकीर्षकः । जिही- र्षकः । चिकीर्ष्यते । जिहीर्ष्यते ॥ यस्य हलः ॥ ४९ ॥ हल उत्तरस्य यशब्दस्यार्द्धधातुके लोपो भवति । बेभिदिता । बेभिदि- तुम् । बेभिदितव्यम् । यस्येति संघातग्रहणमेतत् । तन्नालोन्त्यस्येत्येतन्न भव- त्यतो लोप इत्यनेनैव तस्य सिद्धत्वात् । हल इति वा पञ्चमीनिर्देशस्तत्रादेः परस्येति यकारोनेन लुप्यते । संघातग्रहणं किम् । इय्यिता । मय्यिता । हल इति किम् । लोलूयिता । पोपूयिता ॥ क्यस्य विभाषा ॥ ५० ॥ क्यस्य हल उत्तरस्य विभाषा लोपो भवति आर्द्धधातुके । समिध्यिता । समिधिता । दृषद्यिता । दृषदिता । समिधमात्मन इच्छति, समिधइवाचरति, इति वा क्यच्क्यङौ यथायोगं कर्त्तव्यौ ॥ णेरनिटि ॥ ५१ ॥ अनिडादावार्द्धधातुके णेर्लोपो भवति । इयङयण्गुणवृद्धिदीर्घाणामप- वादः । अततक्षत् । अररक्षत् । आशिशत् । आटिटत् । कारणा । हारणा । कारकः । हारकः । कार्यते । हार्यते । जीप्सति । अनिटीति किम् । कार- यिता । हारयिता ॥ निष्ठायां सेटि ॥ ५२ ॥ निष्ठायां सेटि परतो णेर्लोपो भवति । कारितम् । हारितम् । गणि- तम् । लक्षितम् । सेटीति किम् । संज्ञपितः पशुः । इड्ग्रहणसामर्थ्यादिह पूर्वेणापि न भवति । सनीवन्तर्द्धति ज्ञपेरिटि विकल्पिते यस्य विभाषेति निष्ठायां प्रतिषेधः । अथ पुनरेकाच इति तत्रानुवर्त्तते तदा नित्यमत्र भवित- व्यमेवेडागमेनेति । सेड्ग्रहणमनर्थकं तत् क्रियते कालावधारणार्थम् इडागमे कृते णिलोपो यथा स्यात् । अकृते हि तत्र णिलोपे सति कारितमित्यत्र एकाच उपदेशे ऽनुदात्तादितीटः प्रतिषेधः प्रसज्येत ॥ जनिता मन्त्रे ॥ ५३ ॥ जनितेति मन्त्रविषये इडादौ णिलोपो निपात्यते । यो नः पिता जनिता । मन्त्रइति किम् । जनयिता ॥ शमिता यज्ञे ॥ ५४ ॥ यज्ञकर्मणि शमितेति इडादौ णिलोपो निपात्यते । शतं हविः शमितः । शुचि संबुद्ध्यन्तमेतत् । यज्ञइति किम् । शतं हविः शमयितः ॥