काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 604, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ ३ ॥ ६०३
सोढुम् । सोढव्यम् । वोढा । वोढुम् । वोढव्यम् । अवर्णस्येति किम् ॥ ऊढः । ऊढवान् । वर्णग्रहणं किम् । कृतायामपि वृद्धौ यथा स्यात् । उदवोढाम् । उदवोढम् । तदपि परस्तपरस्परत्वादाकारस्य ग्रहणं न स्यात् ॥ साढौ साद्वा साढेति निगमे ॥ ११३ ॥ साढौ साद्वा साढा इति निगमे निपात्यन्ते । साढौ समन्तात् । साद्वा शत्रून् । सहेः क्त्वाप्रत्यये ओत्वाभावः । पक्षे क्त्वाप्रत्ययस्य धौभावः । साढेति तृज्रूपमेतत् । निगम इति किम् । सोढा सोढेति भाषायाम् ॥ संहितायाम् ११४ ॥ संहितायामित्ययमधिकारः । यदित ऊर्ध्वमनुक्रमिष्यामः संहितायामि- त्येवं तद्वेदितव्यम् । वक्ष्यति । ष्ट्योतस्तिङ इति । विद्वा हित्वॉ सत्यतिं शूर गोनाम् । संहितायामिति किम् । विद्ध, हि, त्वा, सत्यतिं, शूर, गोनाम् ॥ कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नच्छिन्नछिद्र- स्रुवस्वस्तिकस्य ॥ ११५ ॥ कर्णशब्दे उत्तरपदे लक्षणवाचिनो दीर्घो भवति विष्ट अष्टन् पञ्चन् मणि भिन्न छिन्न छिद्र स्रुव स्वस्तिक इत्येतान्वर्जयित्वा । दात्राकर्णः । द्विगु- णाकर्णः । त्रिगुणाकर्णः । कुण्डलाकर्णः । शङ्कुलाकर्णः । यत्पशूनां स्वामिवि- शेषसम्बन्धज्ञापनायै दात्राकारादि क्रियते तदिह लक्षणं गृह्यते । लक्षणस्येति किम् । शोभनकर्णः । अविष्टादीनामिति किम् । विष्टकर्णः । अष्टकर्णः । पञ्च- कर्णः । मणिकर्णः । भिन्नकर्णः । छिन्नकर्णः । छिद्रकर्णः । स्रुवकर्णः । स्वस्तिककर्णः ॥ नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ ॥ ११६ ॥ नहि वृति वृषि व्यधि रुचि सहि तनि इत्येतेषु क्विप्प्रत्ययान्तेषूत्तरपदेषु पूर्वपदस्य दीर्घो भवति संहितायां विषये । नहि । उपानत् । परीणत् । वृति । नीवृत । उपावृत । वृषि । प्रावृट् । उपावृट् । व्यधि । मर्मावित् । हृदया- वित् । श्वावित् । रुचि । नीरुक् । अभीरुक् । सहि । पृतनाषाट् । तनि । परीतत् ॥ गमः क्वाविति गमादीनामिष्यते ॥ ततस्तनोतेरप्यनुनासिकलोपः । क्वाविति किम् । परितहनम् ॥ वनगिर्योः संज्ञायां कोटरकिंशुल्कादीनाम् ॥ ११७ ॥ वन गिरि इत्येतयोरुत्तरपदयोर्यथासंख्यं कोटरादीनां किंशुल्कादीनां च दीर्घो भवति संज्ञायां विषये । वने कोटरादीनाम् कोटरावणम् । मिश्र- कावणम् । सिध्रकावणम् । सारिकावणम् । गिरौ किंशुल्कादीनाम् । किंशु-