काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 603, कुल 828 में से
संदर्भ में पढ़ें६०२ ॥ काशिका ॥ ६ ॥ ३ ॥ वृशब्द आदेशो भवति। महां रौतीति, मयूरः। रौतेरचि टिलोपः। मही- शब्दस्य मयूभावः। एवमन्येऽपि चाश्वत्थकपित्थाप्रभृतयो यथायोगमनुमन्तव्याः ॥ दिक्शब्देभ्य उत्तरस्य तीरस्य तारभावो वा भवति ॥ दक्षिणतीरम् । दक्षिण- तारम् । उत्तरतीरम् । उत्तरतारम् ॥ वाचो वादे ह्रत्वं च लभावश्चोत्तरपद- स्येञि प्रत्यये भवति ॥ वाचं वदतीति, वाग्वादः । तस्यापत्यं वाद्गालिः ॥ षष उत्वं दन्तदशधासूत्तरपदादेष्टुत्वं च भवति ॥ षड् दन्ता अस्य षोडन् । षट् च दश च षोडश ॥ धासु वा षष उत्वं भवति उत्तरपदादेश्च ष्टुत्वम् ॥ षोढा षड्धा कुरु । बहुवचननिर्देशो नानाधिकरणवाचिनो धाशब्दस्य प्रति- पत्त्यर्थः । इह मा भूत् । षट् दधाति धयति वा षड्धेति ॥ दुरो दाशनाश- दभधेषूत्वं वक्तव्यमुत्तरपदादेश्च ष्टुत्वम् ॥ कृच्छ्रेण दाश्यते नाश्यते दभ्यते च यः स दूदाशः । दूणाशः । दूढभः । दम्भेः खल्वनुनासिकलोपो निपातनात् । दुष्टं धायतीति, दूढाः । दुःशब्दोपपदस्य धायतेरातश्चोपसर्ग इति कप्रत्ययः ॥ स्वरौ रोहतो छन्दस्युत्वं वक्तव्यम् ॥ जायएहि स्वो रोहाव ॥ पीवोऽवसाना- दीनां च लोपो वक्तव्यः ॥ पीवोऽवसानां पयोऽवसानाम् ॥ वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ संख्याविसायपूर्वस्याह्नस्याहनन्यतरस्यां ङौ ॥ ११० ॥ संख्या वि साय इत्येवं पूर्वस्याहन्शब्दस्य स्थाने अहनित्ययमादेशो भव- त्यन्यतरस्यां ङौ परतः। द्वयोरह्नोर्भवः, द्व्यह्नः। द्व्यहः। द्व्यह्नि। द्व्यहनि। व्यह्नि । व्यहनि। द्व्यह्ने । व्यह्ने । व्यपगतमहो, व्यन्हः । व्यह्नि । व्यहनि । व्यह्ने । सायमन्हः सायान्हः । सायाह्नि । सायाहनि । सायाह्ने । एकदेशिसमासः । पूर्वादिभ्यो ऽन्यस्यापि भवतीत्येतदेव विसायपूर्वस्याह्नस्य ग्रहणं ज्ञापकम् । तेन मध्यमह्नो मध्याह्न इत्यपि भवति । संख्याविसायपूर्वस्येति किम् । पूर्वेह्ने । अपराह्वे ॥ ढ्रलोपे पूर्वस्य दीर्घो ऽणः ॥ १११ ॥ ढकाररेफयोर्लोपो यस्मिन् स ढ्रलोपः, तत्र पूर्वस्याणो दीर्घो भवति । लीढम् । मीढम् । उपगूढम् । रलोपे । नीरक्तम् । अम्रीरथः । दून्दूरथः । पुनारक्तं वासः । प्राताराजक्रयः । पूर्वेग्रहणमनुत्तरपदे ऽपि पूर्वमात्रस्य दीर्घा- र्थम् । अण इति किम् । आवूढम् * ॥ सहिवहोरोदवर्णस्य ॥ ११२ ॥ सहि वहि इत्येतयोरवर्णस्योकार आदेशो भवति ढ्रलोपे । सोढा ।
- आवूढम् आवूढमिति पुस्तकान्तरे ऽधिकम् ।