काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 606, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ ३ ॥ ६०५ दस्ति ॥ १२४ ॥ दा इत्येतस्य यस्तकारादिरादेशस्तस्मिन्परत इगन्तस्योपसर्गस्य दीर्घो भवति । नीत्तम् । वीत्तम् । परीत्तम् । अच उपसर्गात्त इत्यत्र यद्यपि तकारः क्रियते तथापि चर्त्वाश्रयात्सिद्धत्वमिति तकारादिर्भवति । इक इत्येव । प्रत्तम् । अवत्तम् । द इति किम् । वितीर्णम् । नितान्तम् । तीति किम् । सुदत्तम् ॥ अष्टनः संज्ञायाम् ॥ १२५ ॥ अष्टनित्येतस्योत्तरपदे संज्ञायां दीर्घो भवति । अष्टावक्षः । अष्टाब- न्धुः । अष्टापदम् । संज्ञायामिति किम् । अष्टपुत्रः । अष्टभार्यः ॥ छन्दसि च ॥ १२६ ॥ छन्दसि विषये ऽष्टन उत्तरपदे दीर्घो भवति । आग्नेयमष्टाकपालं निर्वपेत् । अष्टाहिरण्या दक्षिणा । अष्टापदी देवता सुमती । अष्टौ पादा- वस्या इति बहुव्रीहौ पादस्य लोपे कृते पादोऽन्यतरस्यामिति ङीप् ॥ गवि च युक्ते भाषायामष्टनो दीर्घो भवतीति वक्तव्यम् ॥ * ॥ अष्टागवं शकटम् ॥ चितेः कपि ॥ १२७ ॥ चितिशब्दस्य कपि परतो दीर्घो भवति । एकचितीकः । द्विचितीकः । त्रिचितीकः ॥ विश्वस्य वसुराटोः ॥ १२८ ॥ विश्वशब्दस्य वसु राडित्येतयोरुत्तरपदयोर्दीर्घ आदेशो भवति । विश्वावसुः । विश्वाराट् । राडिति विकारनिर्देशो यत्रास्यैतद्रूपं तत्रैव यथा स्यात् । इह न भवति । विश्वराजौ । विश्वराजः ॥ नरे संज्ञायाम् ॥ १२९ ॥ नरशब्दउत्तरपदे संज्ञायां विषये विश्वस्य दीर्घो भवति । विश्वानरो नाम यस्य वैश्वानरिः पुत्रः । संज्ञायामिति किम् । विश्वे नरा यस्य स विश्वनरः ॥ मित्रे चर्षौ ॥ १३० ॥ मित्रे चोत्तरपदे ऋषावभिधेये विश्वस्य दीर्घो भवति । विश्वामित्रो नाम ऋषिः । ऋषाविति किम् । विश्वमित्रो माणवकः ॥ मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ ॥ १३१ ॥ मन्त्रविषये सोम अश्व इन्द्रिय विश्वदेव्य इत्येतेषां मतुप्प्रत्यये परतो दीर्घो भवति । सोमावती । अश्वावती । इन्द्रियावती । विश्वदेव्यावती ॥