भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 6, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 6

भूमिका । काशिका पाणिनिसूत्राणां व्याख्या सूत्रपाठक्रमानुसारिणी श्रीमन्महामहिमभट्टोजिदीक्षितविरचित- सिद्धान्तकौमुदीमरीचिप्रसारतः पूर्वं सर्वस्मिन् भारते वर्षे पठनपाठनादि- प्रचुरविततप्रचारापि सम्प्रति लघीयस्त्वेन व्युत्पत्तिसौकर्यानुरोधेन चोक्तकौ- मुद्या एव पठनपाठनादिव्यवहारगोचरतयेयमतीवास्तं गता लुप्तकल्पे- वास्ते । यस्याः संस्कृतविद्यैकमहाशरणे ऽस्मिन् क्षेत्रे ऽपि नैकमप्यख- ण्डितं पुस्तकं कस्यापि पुस्तकालयेउपलभ्यते । एतन्निर्मातारौ च वाम- नजयादित्यनामानौ सूरिणौ । भट्टोजिदीक्षितकृतप्रौढमनोरमायां तद्धितप्र- करणस्थबह्वल्पाद्यर्थादिति सूत्रे एतत्सर्वं जयादित्यमतेनोक्तं वामनस्तु मन्यते इति तयोः पार्थक्येन प्रदर्शनात् प्रथमद्वितीयपञ्चमषष्ठा वामनकृ- [L1