भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 7, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 7

निर्देशान्यतमस्याप्युपेक्षणात् । वृत्तौ भाष्ये इत्यादि प्रबन्धमुखपद्ये समा- हृत्यान्यतन्त्राणीत्यमरश्लोकसमानच्छायोपलम्भाच्च । इदं च दृढतरमन- योर्नास्तिकत्वे प्रमाणं यदमू कुत्रत्यानपि कतिपयान्प्रयोगानुपलभ्य तेषां च सूत्रवार्तिकभाष्यैः सिद्धिमपश्यन्तौ स्वतन्त्राविव बहूनि वचनानि कल्पयामासतुर्यमाञ्चेत्येवमादीनि, सूत्रमध्ये च प्रचिक्षिपतुर्बहूनि पदानि ग्रामजनबन्धुसहायेभ्यस्तल् करण्ख्युनामित्यादिरूपेण, येनाद्य यावदा- स्तिकानामपर्यालोचितरहस्यानामङ्गपारायणैकप्रवणानां पारायणे वैगुण्य- मुपलभ्यते । आस्तिको हि सूत्रभङ्गादिप्रयासेनापि सूत्राक्षरैरेव रूपाणि साधयितुं यतेत तथाप्यशक्नुवन्नसाध्वेतदित्यभिदधीत न तु शास्त्रं कल्प- येदन्यथयेद्वा । एवं संमाननोत्सञ्जनेति सूत्रे संमाननोदाहरणं नयते चार्वा लोकायते इत्यप्यत्र प्रमाणं चार्वा बुद्धः तत्संबन्धादाचार्यो ऽपि चार्वा स लोकायते शास्त्रे पदार्थान्नयते उपपत्तिभिः स्थिरीकृत्य शिष्येभ्यः प्रापयति युक्तिभिः । स्थाप्यमानाः संमानिताः पूजिता भवन्ति इति हि लिखितम् । आस्तिको हि साङ्ख्ये योगे ऽन्यस्मिन्वा ऽऽस्तिकशास्त्रे शि- ष्याणां व्युत्पादनेन संमाननमभिप्रेयान्न तु नितरां विरुद्धे लोकायतशास्त्रे व्युत्पादनेन । आसंश्च तस्मिन्समये भूयांसो जैनाः पाणिनीयतन्त्रे निष्णात-न्यासकारप्रभृतयः । न्यासकारस्य जैनत्वं हि । जयन्ति ते सदा सन्तः सर्वोपायैरुपार्जितम् । गुणानां सुमहद् वृन्दं दोषाणां परिमार्जनम् ॥ अन्यतः सारमादाय कृतेषा काशिका यथा । वृत्तिस्तस्या यथाशक्ति क्रियते पञ्जिका तथा ॥ इति ग्रन्थारम्भस्थपद्यद्वयेन इति श्रीबोधिसत्वदेशीयाचार्यजिने- न्द्रबुद्धिपादविरचितायां काशिकाविवरणपञ्जिकायां प्रथमाध्याय इत्युपसं- हारेण च व्यक्तमेव । मन्ये चेदमेव निरीक्ष्य नास्तिककृतनिबन्धपठन- पाठनाभ्यामास्तिकजनानां दुरितमाशङ्कमानैरार्षप्रामाण्यैकबद्धादरैरास्तिक-