काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 624, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ ४ ॥ ६२३ इरयो रे ॥ ७६ ॥ इरे इत्येतस्य छन्दसि विषये बहुलं रे इत्ययमादेशो भवति । गर्भे प्रथमं दध्र आपः । या ऽस्य परिदधे । धाञो रेभावस्यासिद्धत्वादातो लोपो भवति । न च भवति । परमाया धियोऽग्निकर्माणि चक्रिरे । अत्र रेशब्दस्य सेटाम् धातूनामिरिट् कृते पुनः रेभावः क्रियते तदर्थमिरयोरित्ययं द्विवचननिर्देशः ॥ अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ॥ ७७ ॥ श्नुप्रत्ययान्तस्याङ्गस्य धातोरिवर्णोवर्णान्तस्य भ्रू इत्येतस्य इयङ् उवङ् इत्येतावादेशौ भवतो ऽचि परतः । आप्नुवन्ति । राध्नुवन्ति । शक्नुवन्ति । धातोः । चिक्षियतुः । चिक्षियुः । लुलुवतुः । लुलुवुः । नियौ । नियः । लुवौ । लुवः । भ्रुवौ । भ्रुवः । अचीति किम् । आप्नुयात् । शक्नुयात् । राध्नुयात् । श्नुधातुभ्रुवामिति किम् । लक्ष्म्यै । वध्वै । य्वोरिति किम् । चक्रतुः । चक्रुः । इयङुवङ्भ्यां गुणवृद्धी भवतो विप्रतिषेधेन । चयनम् । चायकः । लवनम् । लावकः ॥ इयङुवङ्प्रकरणे तन्वादीनां छन्दसि बहुलमुपसंख्यानं कर्त्त- व्यम् ॥ * ॥ तन्वं पुषेम । तनुवं पुषेम । विषुवं पुषेम । स्वर्गी लोकः । सुवर्गी लोकः । त्र्यम्बकं यजामहे । त्रियम्बकं यजामहे ॥ अभ्यासस्यासवर्णे ॥ ७८ ॥ अभ्यासस्येवर्णोवर्णान्तस्यासवर्णे ऽचि परत इयङ् उवङ् इत्येतावादेशौ भवतः । इयेष । उवोष । इयर्त्ति । असवर्णेति किम् । ईषतुः । ईषुः । ऊषतुः । ऊषुः । अचीत्येव । इयाय । उवाप ॥ स्त्रियाः ॥ ७९ ॥ स्त्री इत्येतस्याजादौ प्रत्यये परत इयङादेशो भवति । स्त्री । स्त्रियौ । स्त्रियः । स्त्रीणामित्यत्र परत्वान्नुडागमः । पृथग्योगकरणमुत्तरार्थम् ॥ वा ऽम्शसोः ॥ ८० ॥ अमि शसि परतः । स्त्रिया वा इयङादेशो भवति । स्त्रीं पश्य । स्त्रियं पश्य । स्त्रीः पश्य । स्त्रियः पश्य ॥ इणो यण् ॥ ८१ ॥ इणोऽङ्गस्य यणादेशो भवति अचि परतः । यन्ति । यन्तु । आयन् । इयङादेशापवादोयम् । मध्येपवादाः पूर्वान्विधीन्बाधन्तइति गुणवृद्धिभ्यां पर- त्वाद् बाध्यते । अयनम् । आयकः ॥ एरनेकाचो ऽसंयोगपूर्वस्य ॥ ८२ ॥