भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 629, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 629

६२८ ॥ काशिका ॥ ६ ॥ ४ ॥ चिणो लुक् ॥ १०४ ॥ चिण उत्तरस्य प्रत्ययस्य लुग्भवति । अकारि । अहारि । अलावि । अपाचि । अकारितराम्, अहारितमामित्यत्र तलोपस्यासिद्धत्वात् तरप्तमपोर्न लुग्भवति, चिणो लुगित्येतद्विषयभेदाद्विज्ञायते ॥ अतो हेः ॥ १०५ ॥ अकारान्तादङ्गादुत्तरस्य हेर्लुग्भवति । पच । पठ । गच्छ । धाव । अत इति किम् । युहि । रहि । तपरकरणं किम् । लुनीहि । पुनीहि । ईत्वस्या- सिद्धत्वादाकार एव भवति ॥ उतश्च प्रत्ययादसंयोगपूर्वात् ॥ १०६ ॥ उकारो यो ऽसंयोगपूर्वस्तदन्तात्प्रत्ययादुत्तरस्य हेर्लुग्भवति । चिनु । सुनु । कुरु । उत इति किम् । लुनीहि । सुनीहि । प्रत्ययादिति किम् । रुहि । गुहि । असंयोगपूर्वादिति किम् । आप्नुहि । रा