काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 630, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ६ ॥ ४ ॥ ६२६ श्नसोरल्लोपः ॥ १११ ॥ श्नस्यास्तेश्चाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः । इन्धः । इन्धन्ति । भिन्तः । भिन्दन्ति । आस्तेः । स्तः । सन्ति । क्ङितीत्येव । भिनत्ति । अस्ति । श्नसोरिति पररूपं शकन्ध्वादिषु द्रष्टव्यम् ॥ श्नाभ्यस्तयोरातः ॥ ११२ ॥ श्ना इत्येतस्याभ्यस्तानां चाङ्गानामाकारस्य लोपो भवति सार्वधातुके क्ङिति परतः । लुनीते । लुनताम् । अलुनत * । अभ्यस्तानाम् । मिमते । मिमताम् । अमिमत । संजिहते । संजिहताम् । समजिहत । श्नाभ्यस्तयोरिति किम् । यान्ति । वान्ति । आत इति किम् । बिभ्रति । क्ङितीत्येव । अलु- नात् । अजहात् ॥ ई ह्ल्यघोः ॥ ११३ ॥ श्नान्तानामङ्गानामभ्यस्तानां च घुवर्जितानामात ईकारादेशो भवति हलादौ सार्वधातुके क्ङिति परतः । लुनीतः । पुनीतः । लुनीथः । पुनीथः । लुनीते । पुनीते । अभ्यस्तानाम् । मिमीते । मिमीषे । मिमीध्वे । संजिहीते । संजिहीषे । संजिहीध्वे । हलीति किम् । लुनन्ति । मिमते । अघोरिति किम् । दत्तः । धत्तः । क्ङितीत्येव । लुनाति । जहाति ॥ इद्दरिद्रस्य ॥ ११४ ॥ दरिद्रातेर्हलादौ सार्वधातुके क्ङिति परत इकारादेशो भवति । दरि- द्रितः । दरिद्रिथः । दरिद्रिवः । दरिद्रिमः । हलीत्येव । दरिद्रति । क्ङिती- त्येव । दरिद्राति ॥ दरिद्रातेरार्धधातुके लोपो वक्तव्यः ॥ * ॥ सिट्ठुश्व प्रत्यय- विधौ भवतीति वक्तव्यम् ॥ * ॥ दरिद्रातीति दरिद्रः । आकारान्तलक्षणो णप्रत्ययो न भवति पचादित्वादजेव भवति । न दरिद्रायके लोपो दरिद्राणे च नेष्यते । दिदरिद्रासतीत्येके दिदरिद्रिषतीति वा ॥ अद्यातन्यां † वेति वक्तव्यम् ॥ * ॥ अदरिद्रीत् । अदरिद्रासीत् । दरि- द्रस्येति निर्देशे छान्दसं ह्रस्वत्वं द्रष्टव्यम् ॥ भियो ऽन्यतरस्याम् ॥ ११५ ॥ भी इत्येतस्याङ्गस्यान्यतरस्यामिकारादेशो भवति हलादौ क्ङिति सार्वधातुके परतः । बिभितः । बिभीतः । बिभिथः । बिभीथः । बिभिवः ।
- पुनते पुनताम् । अपुनत । इत्यधिकं पुस्तकान्तरे । † लुङ् एषा पूर्वाचार्यसंज्ञा ।