काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 63, कुल 828 में से
संदर्भ में पढ़ें५६ ॥ काशिका ॥ १ ॥ ३ ॥ णेरिति वर्तते । अकर्त्रभिप्रायोऽयमारम्भः । बिभेतेः स्मयतेश्च ण्य- न्तादात्मनेपदं भवति हेतुभये । हेतुः प्रयोजकः कर्त्ता सकारणाच्चेत्ततश्चेद्भयं भवति । भयग्रहणमुपलक्षणार्थं विस्मयोऽपि तत एव । जटिलो भीषयते । मुण्डो भीषयते । जटिलो विस्मापयते । मुण्डो विस्मापयते । हेतुभयइति किम् । कुञ्चिकयैनं भाययति । रूपेण विस्माययति । अत्र कुञ्चिका भयस्य करणं न हेतुः ॥ गृधिवञ्च्योः प्रलम्भने ॥ ६९ ॥ णेरिति वर्तते । अकर्त्रभिप्रायो ऽयमारम्भः । गृधु अभिकाङ्क्षायां वञ्चु गतावित्येतयोर्ण्यन्तयोः प्रलम्भने वर्त्तमानयोरात्मनेपदं भवति । प्रलम्भनं विसंवादनं मिथ्याफलाख्यानम् । माणवकं गर्धयते । माणवकं वञ्चयते । प्रल- म्भनइति किम् । श्वानं गर्धयति । गर्धनमस्योत्पादयतीत्यर्थः । अहिं वञ्च- यति । परिहरतीत्यर्थः ॥ लियः संमाननशालीनीकरणयोश्च ॥ ७० ॥ णेरिति वर्तते । अकर्त्रभिप्रायोऽयमारम्भः । लीङ् श्लेषणे इति दिवादौ पठ्यते । ली श्लेषणे इति च क्र्यादौ । विशेषाभावाद् द्वयोरपि ग्रहणम् । लियो ण्यन्तात्संमानने शालीनीकरणे च वर्त्तमानादात्मनेपदं भवति च शब्दात् प्रल- म्भने च । संमाननं पूजनम् । शालीनीकरणं न्याग्भावनम् । जटाभिरालापयते । पूजां समधिगच्छतीत्यर्थः । श्येनो वर्त्तिकामुल्लापयते । न्यक्करोतीत्यर्थः । प्रल- म्भने । कस्त्वामुल्लापयते । विसंवादयतीत्यर्थः । विभाषा लीयतेरिति वात्वं विधीयते । तदस्मिन्विषये नित्यमन्यत्र विकल्पः । व्यवस्थितविभाषा हि सा । संमाननादिष्विति किम् । बालकमुल्लापयति ॥ मिथ्योपपदात्कृञोऽभ्यासे ॥ ७१ ॥ णेरिति वर्तते । अकर्त्रभिप्रायोऽयमारम्भः । ण्यन्तात्करोतेर्मिथ्योपप- दादात्मनेपदं भवति अभ्यासे । अभ्यासः पुनःपुनः करणमावृत्तिः । पदं मिथ्या कारयते । सापचारं स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः । मिथ्योपपदादिति किम् । पदं सुष्ठु कारयति । कृञ इति किम् । पदं मिथ्या वाचयति । अभ्यासाइति किम् । पदं मिथ्या कारयति । सकृदुच्चारयति ॥ स्वरितञितः कर्त्रभिप्राये क्रियाफले ॥ ७२ ॥ णेरिति निवृत्तम् । शेषात्कर्त्तरि परस्मैपदे प्राप्ते स्वरितेतो ये धातवो ञितश्च तेभ्य आत्मनेपदं भवति कर्त्तारं चेत्क्रियाफलमभिप्रैति क्रियायाः फलं क्रियाफलं प्रधानभूतं यदर्थमसौ क्रिया आरभ्यते तच्चेत्कर्तृलकारवाच्यस्य भवति । यजते । पचते । ञितः खल्वपि । सुनुते । कुरुते । सर्वो हि प्रधानफलमिह कर्त्ता-