भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 64, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 64

॥ काशिका ॥ १ ॥ ३ ॥ ५७ रम्भिप्रैति । कर्त्रभिप्रायइति किम् । यजन्ति याजकाः । पचन्ति पाचकाः । कुर्व- न्ति कर्म्मकराः । यद्यपि दक्षिणा भृतिश्च कर्तुः फलमिहास्ति तथापि न तदर्थः क्रियारम्भः ॥ अपाद्वदः ॥ ७३ ॥ कर्त्रभिप्रायइति वर्त्तते । अपपूर्वाद्वदतेः कर्त्रभिप्राये क्रियाफले चात्मने- पदं भवति । धनकामो न्यायमपवदते । न्यायापवादेन धनमर्जयिष्यामि इति मन्यते । कर्त्रभिप्राये क्रियाफलइत्येव । अपवदति ॥ णिचश्च ॥ ७४ ॥ कर्त्रभिप्राये क्रियाफलइति वर्त्तते । णिजन्तादात्मनेपदं भवति कर्त्रभि- प्राये क्रियाफले । कटं कारयते । ओदनं पाचयते । कर्त्रभिप्रायइत्येव । कटं कारयति परस्य ॥ समुदाङ्भ्यो यमो ऽग्रन्थे ॥ ७५ ॥ कर्त्रभिप्रायइति वर्त्तते । सम् उद् आङ् इत्येवंपूर्वाद्यमेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति ग्रन्थविषयश्चेत्प्रयोगो न भवति । व्रीहीन् संय- च्छते । भारमुद्यच्छते । वस्त्रमायच्छते । आङ्पूर्वादकर्म्मकादाङो यमहन इति सिद्धमेवात्मनेपदं सकर्म्मकार्थमिदं पुनर्वचनम् । अग्रन्थइति किम् । उद्यच्छति चिकित्सां वैद्याः । कर्त्रभिप्रायइत्येव । संयच्छति । उद्यच्छति । आयच्छति ॥ अनुपसर्गाज् ज्ञः ॥ ७६ ॥ कर्त्रभिप्रायइति वर्त्तते । अनुपसर्गाज्जानातेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति । गां जानीते । अश्वं जानीते । अनुपसर्गादिति किम् । स्वर्गे लोकं न प्रजानाति मूढः । कर्त्रभिप्रायइत्येव । देवदत्तस्य गां जानाति । विभाषोपपदेन प्रतीयमाने ॥ ७७ ॥ स्वरितञित इति पञ्चभिः सूत्रैरात्मनेपदं कर्त्रभिप्राये क्रियाफले द्योतिते विहितं तदुपपदेन द्योतिते न प्राप्नोतीति वचनमारभ्यते । समीपे श्रूयमाणं शब्दान्तरमुपपदं तेन प्रतीयमाने कर्त्रभिप्राये क्रियाफले विभाषा ऽऽत्मनेपदं भवति । स्वं यज्ञं यजति । स्वं यज्ञं यजते । स्वं कटं करोति । स्वं कटं कुरुते । स्वं पुत्रमपवदति । स्वं पुत्रमपवदते । एवं पञ्चसूत्र्यामुदाहार्य्यम् ॥ शेषात्कर्त्तरि परस्मैपदम् ॥ ७८ ॥ पूर्वेण प्रकारेणात्मनेपदनियमः कृतः न परस्मैपदनियमः तत्सर्व्वतः प्रा- प्नोति तदर्थमिदमुच्यते । येभ्यो धातुभ्यो येन विशेषेणात्मनेपदमुक्तं ततो यद- न्यस्स शेषः । शेषात्कर्त्तरि परस्मैपदं भवति शेषादेव नान्यस्मात् । अनुदात्त-