काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 65, कुल 828 में से
संदर्भ में पढ़ें५८ ॥ काशिका ॥ १ ॥ ३ ॥
ङित् आत्मनेपदमुक्तम् । आस्ते । शेते । ततो ऽन्यत्र परस्मैपदं भवति । याति । वाति । नेर्विश आत्मनेपदमुक्तम् । निविशते । ततो ऽन्यत्र परस्मैपदम् । आवि- शति । प्रविशति । कर्त्तरीति किम् । पच्यते । गम्यते । कर्मकर्मरि कस्मात्पर- स्मैपदं न भवति । पच्यते चोदनः स्वयमेव । कर्त्तरि कर्मव्यतिहारइति द्वितीयं कर्तृग्रहणमनुवर्त्तते तेन कर्तैव यः कर्त्ता तत्र परस्मैपदं कर्मकर्त्तरि न भवति ॥ अनुपराभ्यां कृञः ॥ ७९ ॥ कर्त्रभिप्राये क्रियाफले गन्धनादिषु च करोतेरात्मनेपदं विहितं तदप- वादः परस्मैपदं विधीयते । अनु परा इत्येवंपूर्वात्करोतेः परस्मैपदं भवति । अनुकरोति । पराकरोति ॥ अभिप्रत्यतिभ्यः क्षिपः ॥ ८० ॥ क्षिप प्रेरणे स्वरितेत् ततः कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते । अभि प्रति अति इत्येवंपूर्वात् क्षिपः परस्मैपदं भवति । अभिक्षिपति । प्रतिक्षिपति । अतिक्षिपति । अभिप्रत्यतिभ्य इति किम् । आक्षि- पते । द्वितीयमपि कर्तृग्रहणमनुवर्त्तते । तेनेह न भवति । अभिक्षिष्यते स्वयमेव ॥ प्राद्वहः ॥ ८१ ॥ वह प्रापणे स्वरितेत् तत्र कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते । प्रपूर्वाद्वहतेः परस्मैपदं भवति । प्रवहति । प्रव- हतः । प्रवहन्ति । प्रादिति किम् । आवहते ॥ परेर्मृषः ॥ ८२ ॥ मृष तितिक्षायां स्वरितेत् ततस्तथैवात्मनेपदे प्राप्ते परस्मैपदं विधीयतै । परिपूर्वाद् मृष्यतेः परस्मैपदं भवति । परिमृष्यति । परिमृष्यतः । परिमृष्यन्ति । परेरिति किम् । आमृष्यते । वहतिमपि के चिदत्रानुवर्त्तयन्ति । परिवहति ॥ व्याङ्परिभ्यो रमः ॥ ८३ ॥ रमु क्रीडायाम् । अनुदात्तेत्त्वादात्मनेपदे प्राप्ते परस्मैपदं विधीयते । वि आङ् परि इत्येवंपूर्वाद्रमतेः परस्मैपदं भवति । विरमति । आरमति । परिरमति । एतेभ्य इति किम् । अभिरमते ॥ उपाच्च ॥ ८४ ॥ रम इत्येव । उपपूर्वाद्रमतेः परस्मैपदं भवति । देवदत्तमुपरमति । यज्ञ- दत्तमुपरमति । उपरमयतीति यावत् । अन्तर्भावितण्यर्थश्च रमिः । पृथग्यो- गकरणमुत्तरार्थम् । अकर्मकाच्चिभाषां वक्ष्यति सा उपपूर्वादेव यथा स्यात् ॥