भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 66, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 66

॥ काशिका ॥ १ ॥ ३ ॥ ५९ विभाषा ऽकर्मकात् ॥ ८५ ॥ रम उपादिति च वर्तते । पूर्वेण नित्ये परस्मैपडे प्राप्ते विकल्प आरभ्यते । उपपूर्वाद्रमतेरकर्मकाद्विभाषा परस्मैपदं भवति । यावद्भुक्तमुपरमति । यावद्भु- क्तमुपरमते । निवर्ततइत्यर्थः ॥ बुधयुधनशजनेङ्प्रद्रुस्रुभ्यो णेः ॥ ८६ ॥ णिचश्चेति कर्तृभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते । बुध युध नश जन इङ् प्र द्रु स्रु इत्येतेभ्यो ण्यन्तेभ्यः परस्मैपदं भवति । बोधयति । योधयति । नाशयति । जनयति । अध्यापयति । प्राव- यति । द्रावयति । स्रावयति । ये ऽत्राकर्मकास्तेषामणावकर्मकाच्चित्तवत्कर्तृ- कादित्येवं सिद्धे वचनमिदमचित्तवत्कर्तृकार्थम् । बोधयति पद्मम् । योधयन्ति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । ये ऽत्र चलनार्था अपि तेषां निगरणचलनार्थेभ्यश्चेति सिद्धे यदा न चलनार्थास्तदर्थे वचनम् । प्रवते । प्राप्नोतीति गम्यते । अयो द्रवति । विलीयतदित्यर्थः । कुण्डिका स्रवति । स्यन्दतइत्यर्थः । तद्विषयान्युदाहरणानि ॥ निगरणचलनार्थेभ्यश्च ॥ ८७ ॥ णेरिति वर्तते । कर्तृभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः पर- स्मैपदं विधीयते । निगरणमभ्यवहारः । चलनं कम्पनम् । निगरणार्थेभ्यश्च- लनार्थेभ्यश्च धातुभ्यो ण्यन्तेभ्यः परस्मैपदं भवति । निगारयति । आशयति । भोजयति । चलनार्थेभ्यः । चलयति । चोदयति । कम्पयति । अयमपियोगः सकर्मकार्थः । अचित्तवत्कर्तृकार्थश्च । अदेः प्रतिषेधो वक्तव्यः ॥ * ॥ आत्ति देवदत्तः । आदयते देवदत्तेन ॥ अणावकर्मकाच्चित्तवत्कर्तृकात् ॥ ८८ ॥ णेरिति वर्तते । कर्तृभिप्रायक्रियाफलविवक्षायामात्मनेपदापवादः पर- स्मैपदं विधीयते । अण्यन्तो यो धातुरकर्मकश्चित्तवत्कर्तृकश्च तस्माद् ण्यन्ता- त्परस्मैपदं भवति । आस्ते देवदत्तः । आसयति देवदत्तम् । शेते देवदत्तः । शाययतिदेवदत्तम् । अणाविति किम् । चेतयमानं प्रयोजयति चेतयते इति के चित्प्रत्युदाहरन्ति तदयुक्तम् । हेतुमण्णिचो विधिः, प्रतिषेधोपि प्रत्यास- त्तेस्तस्यैव न्याय्यः । तस्मादिह चेतयतीति परस्मैपदेनैव भवितव्यम् । इदं तु प्रत्युदाहरणम् । आरोहयमाणं प्रयोजयति । आरोहयते । अकर्मकादिति किम् । कटं कुर्वाणं प्रयोजयति । कारयते । चित्तवत्कर्तृकादिति किम् । शुष्यन्ति व्रीहयः । शोषयते व्रीहीनातपः ॥