भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 652, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 652

याच् आल् इत्येते आदेशा भवन्ति । सु । अनुत्तरा ऋजवः सन्तु पन्थाः । पन्थान इति प्राप्ते ॥ सुपां सुपो भवन्तीति वक्तव्यम् ॥ * ॥ धुरि दक्षिणायाः । दक्षिणायामिति प्राप्ते ॥ तिङां तिङो भवन्तीति वक्तव्यम् ॥ * ॥ चषालं ये अश्वयूपाय तक्षति । तक्षन्तीति प्राप्ते । लुक् । आर्द्रं चर्मन् । लोहिते चर्मन् । चर्मणीति प्राप्ते । हविर्द्धाने * यत्सुन्वन्ति तत्सामिधेनीरन्वाह । यस्मिन्सु- न्वन्ति तस्मिन्सामिधेनीरिति प्राप्ते । पूर्वसवर्णः । धीती । मती । सुष्टुती । धीत्या मत्या सुष्टुत्या इति प्राप्ते । आ । उभा यन्तरौ । उभौ यन्तरौ इति प्राप्ते । आत् । न ताद्ब्राह्मणाद् निन्दामि । न तान् ब्राह्मणानिति प्राप्ते । शे । न युष्मे वाजबन्धवः । अस्मे इन्द्राबृहस्पती । यूयं वयमिति प्राप्ते । यूया- देशो वयादेशश्च छान्दसत्वाच्च भवति । या । उरुया । धृष्णुया । उरुणा धृष्णु- नेति प्राप्ते । डा । नाभा पृथिव्याम् । नाभौ पृथिव्यामिति प्राप्ते । ड्या । अनुष्टुभा च्यावयतात् । अनुष्टुभेति प्राप्ते । याच् । साधुया । साध्विति सोर्लुकि प्राप्ते । आल् । वसन्ता यजेत । वसन्त इति प्राप्ते ॥ इयाडियाजीकाराणामुप- संख्यानम् ॥ * ॥ इया । उर्विया परिधानम् । दार्विया । उरुणा दारुणेति प्राप्ते । डियाच् । सुक्षेत्रिया । सुगातुया । सुक्षेत्रिणा सुगातुनेति प्राप्ते । ईकारः । दृतिं न शुष्कं सरसी शयानम् । सरसि शयानमिति प्राप्ते ॥ आङ्याज्- यारामुपसंख्यानम् ॥ * ॥ आङ् । प्रबाहवा । प्रबाहुनेति प्राप्ते । अयाच् । स्वप्नया सच सेवनम् । स्वप्नेनेति प्राप्ते । अयार् । सिन्धुमिव नावया । नावेति प्राप्ते † ॥ अमो मश् ॥ ४० ॥ अम् इति मिबादेशो गृह्यते । तस्य छन्दसि विषये मशादेशो भवति । वधीं वृत्रम् । क्रमीं वृत्तस्य शाखाम् ‡ । लुङि बहुलं छन्दस्यमाङ्योगेपीत्यडा- गमाभावः । शित्करणं सर्वादेशार्थम् । मकारस्यापि हि मकारवचनमनुस्वार- निवृत्त्यर्थं स्यात् ॥ लोपस्त आत्मनेपदेषु ॥ ४१ ॥ आत्मनेपदेषु यस्तकारस्तस्य छन्दसि विषये लोपो भवति । देवा अदुह्र । गन्धर्वाप्सरसो अदुह्र । अदुहृतेति प्राप्ते । दुहामश्विभ्यां पयो यद्- र्येयम् । दुग्धामिति प्राप्ते । दक्षिणतः शये । शेतइति प्राप्ते । अपीत्यधिका- राच्च भवति । तत्र आत्मानमनृतं कृणुते । आत्मनेपदेष्विति किम् । वत्सं दुहन्ति कलशं चतुर्बिलम् ॥ * हविर्धानायेति पाठान्तरम् । † अयारिति रेफ उपोत्तमं रितीत्युपोत्तमस्योदात्तार्थः । अधिकोयं पाठ एकस्मिन् पुस्तके । ‡ अवधिवमक्रमिषमिति प्राप्ते । इत्यार्थिकं पुस्तकान्तरे ।

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 652, कुल 828 में से · BharatKosha