भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 653, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 653

६५२ ॥ काशिका ॥ ७ । १ ॥ ध्वमो ध्वात् ॥ ४२ ॥ छन्दसि विषये ध्वमो ध्वादित्ययमादेशो भवति । आन्तरेणोष्माणं वारयध्वात् । वारयध्वमिति प्राप्ते ॥ यजध्वैनमिति च ॥ ४३ ॥ यजध्वमित्येतस्य एनमित्येतस्मिन्परतो मकारलोपो निपात्यते वकारस्य च यकारश्छन्दसि विषये । यजध्वैनं प्रियमेधाः । यजध्वमेनमिति प्राप्ते ॥ तस्य तात् ॥ ४४ ॥ तशब्दस्य लोट्मध्यमपुरुषबहुवचनस्य स्थाने तादित्ययमादेशो भवति । गात्रंगात्रमस्या नूनं शृणुतात् । शृणुतेति प्राप्ते । ऊरुध्ये गोष्ठं पार्थिवं खन- तात् । खनतेति प्राप्ते । अस्मरक्तः संसृजतात् । संसृजतेति प्राप्ते । सूर्ये चक्षु- र्गमयतात् । गमयतेति प्राप्ते ॥ तप्तनप्तनथनाश्च ॥ ४५ ॥ तस्येति वर्तते । छन्दसि विषये तस्य स्थाने तप् तनप् तन थन इत्येते आदेशा भवन्ति । तप् । शृणोत ग्रावाणः । शृणुतेति प्राप्ते । सुनोत । सुनुतेति प्राप्ते । तनप् । संघरत्रा दधातन । धत्तेति प्राप्ते । तन । जुजुष्टन । जुषतेति प्राप्ते । छान्दसत्वात् श्लुः । थन । यदिष्ठन । यदिच्छथेति प्राप्ते । पित्करणमङित्त्वार्थम् ॥ इदन्तो मसि ॥ ४६ ॥ छन्दसि विषये मसित्ययं शब्द इकारान्तो भवति । मसः सकारान्तस्य इकारागमो भवति स च तस्यान्तो भवति, तद्ग्रहणेन एतद्गृह्यतइत्यर्थः । पुनस्त्वां दीपयामसि । दीपयाम इति प्राप्ते । शलभं भञ्जयामसि । भञ्जयाम इति प्राप्ते । त्वयि रात्रिं वासयामसि । वासयाम इति प्राप्ते ॥ क्त्वो यक् ॥ ४७ ॥ क्त्वा इत्येतस्य यगागमो भवति छन्दसि विषये । दत्त्वाय सविता धियः । दत्त्वेति प्राप्ते । क्त्वापिच्छन्दसीत्यस्यानन्तरमिदं कस्मान्नोच्यते । समासइति तत्रानुवर्त्तते ॥ इष्ट्वीनमिति च ॥ ४८ ॥ इष्ट्वीनमित्ययं शब्दो निपात्यते छन्दसि विषये । यजेः क्त्वाप्रत्ययान्तस्य ईनमादेशोऽन्त्यस्य निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा देवानिति प्राप्ते ॥ पीत्वी- नमित्यपीष्यते ॥ चकारस्यानुक्तसमुच्चयार्थत्वात्सिद्धम् ॥ स्नात्व्यादयश्च ॥ ४९ ॥