काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 657, कुल 828 में से
संदर्भ में पढ़ें६५६ ॥ काशिका ॥ ७ । १ ॥ विपरीतमप्यवधारणं संभाव्यते इत्येव लिटि नान्यत्रेति । तथा हि सति ररन्धे- त्यत्र न स्यात्, रधितेत्यत्र च स्यादेव ॥ रभेरशब्लिटोः ॥ ६३ ॥ रभेरङ्गस्य शब्लिङ्वर्जिते ऽजादौ प्रत्यये परतो नुमागमो भवति । आर- म्भयति । आरम्भकः । साधारम्भी । आरम्भमारम्भम् । आरम्भो वर्तते । अश- ब्लिटोरिति किम् । आरभते । आरभे । अचीत्येव । आरब्धा ॥ लभेश्च ॥ ६४ ॥ लभेश्चाजादौ प्रत्यये शब्लिङ्वर्जिते नुमागमो भवति । लम्भयति । लम्भकः । साधुलम्भी । लम्भंलम्भम् । लम्भो वर्तते । अशब्लिटोरित्येव । लभते । लेभे । अचीत्येव । लब्धा । लभेश्च पृथग्योगकरणमुत्तरार्थम् ॥ आङो यि ॥ ६५ ॥ आङ उत्तरस्य लभेर्यकारादिप्रत्ययविषये नुमागमो भवति । आलभ्या गौः । आलभ्या वडवा । प्राक्प्रत्ययोत्पत्तेर्नुमि कृते विहतमदुपधत्वमिति ऋह- लोर्ण्यदिति ण्यत्प्रत्ययस्तत्र कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तत्वेनान्तस्वरितत्वं भवति । यति तु पुनरुत्तरपदाद्युदात्तत्वं स्यात् । आङ इति किम् । लभ्यः * । कथमग्निष्टोम आलभ्य इति । सर्वे विधयश्छन्दसि विकल्प्यन्ते । अथ वा आलम्भ्य इत्यत्र नुमि कृते ऽनुषङ्गलोपः क्रियते ॥ उपात्प्रशंसायाम् ॥ ६६ ॥ उपादुत्तरस्य लभेः प्रशंसायां गम्यमानायां यकारादिप्रत्ययविषये नुमा- गमो भवति । उपलभ्या भवता विद्या । उपलभ्यानि धनानि । ण्यत्प्रत्यया- न्तत्वादन्तस्वरितत्वमेव । प्रशंसायामिति किम् । उपलभ्यमस्माद्दुर्बलात्किं- चित् । पोरदुपधत्वाद्यत्प्रत्ययान्तमिदम् ॥ उपसर्गात्खल्घञोः ॥ ६७ ॥ उपसर्गादुत्तरस्य लभेः खल्घञोः परतो नुमागमो भवति । ईषत्प्रलम्भः । सुप्रलम्भः । दुष्प्रलम्भः । घञि । प्रलम्भो, विप्रलम्भः । सिद्धे सत्यारम्भो नियम- मार्थः । उपसर्गादेव लभेः खल्घञोः परतो नुमागमो भवति, नान्यत्र । ईष- ल्लभः । लाभो वर्तते ॥ न सुदुर्भ्यां केवलाभ्याम् ॥ ६८ ॥ सु दुरित्येताभ्यां केवलाभ्यामन्योपसर्गरहिताभ्यामुपसृष्टस्य लभेः खल्-
- अदुपधत्वाद्यत्प्रत्ययान्तमेतत् । यीति किम् । आलब्धा । इत्यधिकमस्तिपुस्तके ।