काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 659, कुल 828 में से
संदर्भ में पढ़ें३५८ ॥ काशिका ॥ ७ ॥ १ ॥ इको ऽचि विभक्तौ ॥ ७३ ॥ इगन्तस्य नपुंसकस्याङ्गस्याजादौ विभक्तौ नुमागमो भवति । त्रपुणी । जतुनी । तुम्बुरुणी । त्रपुणे । जतुने । तुम्बुरुणे । इक इति किम् । कुण्डे । पीठे । अङ्गग्रहणमुत्तरार्थम् । यद्येवं, तत्रैव कर्तव्यम् । इह तु करणे एतत्प्रयो- जनं हे त्रपो इत्यत्र नुम् मा भूदिति, । न ङिसंबुद्ध्योरिति नलोपप्रतिषेधः स्यात् । ननु च न लुमताङ्गस्येति प्रत्ययलक्षणे प्रतिषिद्धे विभक्तिरेव नास्ति । एतदेवाङ्गग्रहणं ज्ञापकं प्रत्ययलक्षणप्रतिषेधोऽत्र न भवतीति । तथा च संबुद्धि- गुणः क्रियते । विभक्ताविति किम् । ताम्बुरवं चूर्णम् । इकोचि व्यञ्जने माभूदस्तु लोपः स्वरः कथम् । स्वरो वै श्रूयमाणेऽपि लुप्ते किं न भविष्यति ॥ रायात्वं तिसृभावश्च व्यवधानान्नुमा अपि । नुट् वाच्य उत्तरार्थे तु इह किं चित्रपो इति ॥ तृतीयादिषु भाषित पुंस्कं पुंवद्गालवस्य ॥ ७४ ॥ तृतीयादिषु विभक्तिष्वजादिषु भाषितपुंस्कं नपुंसकलिङ्गमङ्गं गाल- वाचाय्र्यस्य मतेन पुंवद्भवति । यथा पुंसि ह्रस्वनुमौ न भवतस्तद्वदत्रापि न भवत इत्यर्थः । ग्रामणीर्ब्राह्मणः । ग्रामणि ब्राह्मणकुलम् । ग्रामण्या ब्राह्म- णकुलेन । ग्रामणिना ब्राह्मणकुलेन । ग्रामण्ये ब्राह्मणकुलाय । ग्रामणिने ब्राह्मणकुलाय । ग्रामण्यो ब्राह्मणकुलात् । ग्रामणिनो ब्राह्मणकुलात् । ग्रामण्यो ब्राह्मणकुलस्य । ग्रामणिनो ब्राह्मणकुलस्य । ग्रामण्योर्ब्राह्मणकु- लयोः । ग्रामणिनोर्ब्राह्मणकुलयोः । ग्रामण्यां ब्राह्मणकुलानाम् । नुमचि रेति पूर्वविप्रतिषेधेन नुट् । ग्रामणीनां ब्राह्मणकुलानाम् । ग्रामण्यां ब्राह्म- णकुले । ग्रामणिनि ब्राह्मणकुले । शुचिर्ब्राह्मणः । शुचि ब्राह्मणकुलम् । शुचिना ब्राह्मणकुलेन १ । शुचये ब्राह्मणकुलाय । शुचिने ब्राह्मणकुलाय । शुचेर्ब्राह्मणकुलात् । शुचिनो ब्राह्मणकुलात् । शुचेर्ब्राह्मणकुलस्य । शुचिनो ब्राह्मणकुलस्य । शुच्योर्ब्राह्मणकुलयोः । शुचिनोर्ब्राह्मणकुलयोः । शुचौ ब्राह्मण- कुले । शुचिनि ब्राह्मणकुले । तृतीयादिष्विति किम् । ग्रामणिनी ब्राह्मण- कुले । शुचिनी ब्राह्मणकुले । भाषितपुंस्कमिति किम् । त्रपुणे ।, जतुने । इह कस्मान्न भवति । पीलुवृक्षः पीलु फलं, पीलुने फलायेति । समानायामाकृतौ यद्भाषितपुंस्कं तुल्ये प्रवृत्तिनिमित्ते तस्य पुंवद्भावः । इह तु वृक्षाकृतिः प्रवृत्ति- निमित्तं पुंसि शब्दस्य । फलाकृतिर्नपुंसके । तदेतदेवं कथं भवति भाषितपुं- स्कमिति । भाषितः पुमान्यस्मिन्नर्थे प्रवृत्तिनिमित्ते स भाषितपुंस्कशब्देनोच्यते ।