काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 660, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ७ ॥ १ ॥ ६५९ तद्योगादभिधेयमपि यन्नपुंसकं तदपि भाषितपुंस्कम् । तस्य प्रतिपादिकं यच्छब्दरूपं तदपि भाषितपुंस्कमिति । इक इत्येव । कीलालपा ब्राह्मणः । कीलालपं ब्राह्मणकुलम् । कीलालपेन ब्राह्मणकुलेन । अचीत्येव । ग्रामणीभ्यां ब्राह्मणकुलाभ्याम् ॥ अस्थिदधिसक्थ्यक्ष्णामनडुदात्तः ॥ ७५ ॥ अस्थि दधि सक्थि अक्षि इत्येतेषां नपुंसकानां तृतीयादिष्वजादिषु विभक्तिषु परतो ऽनङित्ययमादेशो भवति, स चोदात्तो भवति । अस्था । अस्थ्ने । दध्ना । दध्ने । सक्थ्ना । सक्थ्ने । अक्ष्णा । अक्ष्णे । अस्थ्यादय चानु- दात्तास्तेषामनङादेशः स्थानिवद्भावादनुदात्तः स्यादित्युदात्तवचनम् । तत्र भसं- ज्ञायामल्लोपे कृते उदात्तनिवृत्तिस्वरेण विभक्तिरुदात्ता भवति ॥ इतरस्यादि- भिर्नपुंसकैर्नपुंसकस्याप्यङ्गस्य तदन्तग्रहणमिष्यते ॥ प्रियास्था ब्राह्मणेन । प्रियदध्ना * । तृतीयादिष्विति किम् । अस्थिनी । दधिनी । अचीत्येव । अस्थिभ्याम् । दधिभ्याम् ॥ छन्दस्यपि दृश्यते ॥ ७६ ॥ अस्थिदधिसक्थ्यक्ष्णामनङ् छन्दस्यपि दृश्यते । यत्र विहितस्ततोऽन्य- त्रापि दृश्यते । अचीत्युक्तमनजादावपि दृश्यते । इन्द्रो दधीचो अस्थभिः । भद्रं पश्येमाक्षभिः । तृतीयादिष्वित्युक्तमतृतीयाविषु दृश्यते । अस्थ्यान्युत्कृत्य जुहोति । विभक्तावित्युक्तमविभक्तावपि दृश्यते । अवद्यव्रता लाहुडेन । अस्थ- न्वन्तं यदनस्था बिभर्ति ॥ ई च द्विवचने ॥ ७७ ॥ द्विवचने परतश्छन्दसि विषये ऽस्थ्यादीनामीकारादेशो भवति, स चोदात्तः । अक्षी ते इन्द्रपिङ्गले कपोतेव । अक्षीभ्यां ते नासिकाभ्याम् । अती रत्यत्र नुम्परत्वादीकारेण बाध्यते । तत्र कृते सकृद्गतौ विप्रतिषेधे यद्वाधितं तद्बाधितमेवेति पुनर्नुम्न क्रियते ॥ नाभ्यस्ताच्छतुः ॥ ७८ ॥ नाभ्यस्तादङ्गादुत्तरस्य शतुर्नुम्न भवति । ददत् । ददतौ । ददतः । दधत् । दधतौ । दधतः । जक्षत् । जक्षतौ । जक्षतः । जाग्रत् । जाग्रतौ । जाग्रतः । शतुरनन्तर ईकारो न विहित इति व्यवहितस्यापि नुमः प्रतिषेधो विज्ञायते ॥ वा नपुंसकस्य ॥ ७९ ॥
- प्रियास्थ्ये । प्रियदध्न्ये । प्रियसक्थ्ना । प्रियसक्थ्ने । प्रियाक्ष्णा । प्रियाक्ष्णे । इत्यनुदात्त- स्वरूपविकाशश्चैतस्मिन् पुस्तके ।