काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 678, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ७ ॥ २ ॥ १०७ ॥ प्रक्रमितव्यम् । अनात्मनेपदनिमित्ते इति किम् । प्रस्नोषीष्ट । प्रक्रंसीष्ट । प्रस्नो- ष्यते । प्रक्रंस्यते । प्रसुस्नूषिष्यते । प्रविचिक्रंसिष्यते । सर्वेष्वेवात्र स्नोतिः क्रमिश्चा- त्मनेपदस्य निमित्तम् । सनन्तादपि हि पूर्ववत्सन इत्यात्मनेपदं विधीयते । निमित्तग्रहणं किम् । सीयुडादेस्सत्यरपरस्य च प्रतिषेधार्थम् । इह तु प्रक्रवि- तेवाचरतीति प्रक्रवियीयतइति क्यङन्तमात्मनेपदस्य निमित्तं न स्नोतिः ॥ क्रमेस्तु कर्त्तर्यात्मनेपदविषयादसत्यात्मनेपदे ऽति प्रतिषेधो वक्तव्यः ॥ * ॥ प्रक्रन्ता । उपक्रन्ता । कर्त्तरीति किम् । प्रक्रमितव्यम् । उपक्रमितव्यम् । आत्मने- पदविषयादिति किम् । निष्क्रमिता । स्नोतेः सनि किति च प्रत्यये इत्युक्तः किति सनि यहगुहोश्च इत्येव