काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 683, कुल 828 में से
संदर्भ में पढ़ें६८२ ॥ काशिका ॥ ७ । २ ॥ प्रतिषेधो यथा बाध्येतेति । चतुर्ग्रहणे हि सति तात्पर्येण स्यन्दिः संनिधापितो भवति। परस्मैपदेष्वित्येव। वर्तिषीष्ट । वर्तिष्यते। अवर्तिष्यत्। विवर्तिषते। यद्या- त्मनेपदेन समानपदस्थेभ्यो वृतादिभ्य इडागम इष्यते। अन्यत्र सर्वत्र प्रतिषेधः । कृत्यपि हि परस्मैपदलुकि च प्रतिषेधो भवति । विवृत्सिता । विवृत्स त्वमिति * ॥ तासि च कॢपः ॥ ६० ॥ कॢप उत्तरस्य तासेः सकारादेश्चार्द्धधातुकस्य परस्मैपदेषु इडागमो न भवति । कल्पता । श्वः कल्प्स्यति । अकल्प्स्यत् । चिकलिप्सति । परस्मैपदेष्वि- त्येव । कल्पितासे । कल्पिषीष्ट । कल्पिष्यते । अकल्पिष्यत । चिकल्पिषते । कॢपेरात्मनेपदेन समानपदस्थस्य इडागम इष्यते । अन्यत्र प्रतिषेधः । कृत्यपि हि परस्मैपदलुकि च प्रतिषेधो भवति । चिकॢप्सिता । चिकॢप्स त्वमिति ॥ अचस्तास्वत्थल्यनिटो नित्यम् ॥ ६१ ॥ तासौ ये नित्यानिटो धातवो ऽजन्तास्तेभ्यस्तासाविव थलीडागमो न भवति । याता । ययाथ । चेता । चिचेथ । नेता । निनेथ । होता । जुहोथ । अच इति किम् । भेत्ता । बिभेदिथ । तास्वदिति किम् । लूत्वा । लुलविथ । थलीति किम् । याता । ययिव । ययिम । अनिड्ग्रहणं नित्यमित्यनेन विशे- षणार्थम् । नित्यग्रहणं किम् । विधोता । विधाविता । विदुधविथ । तासि- विभावितेटस्थलि नित्यमिहागमो भवति । तास्वदिति वर्तिनिर्देशः किमर्थः । तासौ सतस्थलि प्रतिषेधार्थः । यो हि तासावसन्नसत्त्वाच्च नित्यानिट् तस्य थलि प्रतिषेधो न भवति । जघसिथ । उवयिथ । उत्तरसूत्रेपि तास्वदिति वर्तते अदादेशो हि घसिर्वजादेशश्च वयिस्तासौ नास्ति ॥ उपदेशेऽत्वतः ॥ ६२ ॥ उपदेशे यो धातुरकारवान् तासौ नित्यानिट् तस्मात्तासाविव थलीडा- गमो न भवति । पक्ता । पपक्थ । यष्टा । इयष्ठ । शक्ता । शशक्थ । उपदे- श इति किम् । कर्त्ता चकर्थिथ । ऋत्वत इति किम् । भेत्ता । बिभेदिथ । तप- रकरणं किम् । राद्धा । रराधिथ । तास्वदित्येव । जिघत्सति । जघसिथ । नित्य- मनिट इत्येव । शङ्का । शङ्किता । आनशिथ ॥ ऋतो भारद्वाजस्य ॥ ६३ ॥ ऋकारान्ताद्धातोर्भारद्वाजस्याचार्यस्य मतेन तासाविव नित्यानिटस्थलि इडागमो न भवति । स्मर्त्ता । सस्मर्थ । धर्त्ता । दधर्थ† । सिद्धे सत्यारम्भो
- विवृत्सितुम् विवृत्सितव्यमित्यधिकं पुस्तकान्तरे । † कर्त्ता चकर्थेति पुस्तकान्तरे ऽधिकम् ।