भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 692, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 692

॥ काशिका ॥ ७ । २ ॥ ६६१ भवतो विभक्तौ परतः। तिस्रः। चतस्रः। तिसृभिः। चतसृभिः। स्त्रियामिति किम्। त्रयः। चत्वारः। त्रीणि। चत्वारि। स्त्रियामिति चैतत् त्रिचतुरोरेव विशेषणं नाङ्गस्य। तेन यदा त्रिचतुःशब्दौ स्त्रियामङ्गं तु लिङ्गान्तरे तथाप्या- देशौ भवत एव। प्रियास्तिस्रो ब्राह्मण्योस्य ब्राह्मणस्य प्रियतिस्रा ब्राह्मण इति। प्रियतिस्रौ। प्रियतिस्रः। प्रियतिसृ ब्राह्मणकुलम्। प्रियतिसृणी। प्रियतिसृणि। प्रियचतस्रा। प्रियचतस्रौ। प्रियचतस्रः। प्रियचतसृ। प्रियचत- सृणी। प्रियचतसृणि। नद्यृतश्चेति समासान्तो न भवति। विभक्त्याश्रयत्वेन तिसृभावस्य बहिरङ्गलक्षणत्वात् *। यदा तु त्रिचतुःशब्दौ लिङ्गान्तरे स्त्रिया- मङ्गं तदा देशौ न भवतः। प्रियास्त्रयोस्याः प्रियाणि त्रीणि वा अस्या ब्राह्मण्याः सा प्रियत्रिः। प्रियत्री। प्रियत्रयः। प्रियचत्वाः। प्रियचत्वारौ। प्रियचत्वारः ॥ तिसृभावे संज्ञायां कन्युपसंख्यानं कर्त्तव्यम् ॥ * ॥ तिसृका नाम ग्रामः ॥ चतसर्यानुदात्तनिपातनं कर्त्तव्यम् ॥ * ॥ चतस्रः पश्येत्यत्र चतुरः शसीत्येव स्वरो मा भूत। चतसृणामित्यत्र तु षट्चतुर्भ्यो हलादिरि- त्येव स्वरो भवति। हलादिग्रहणं सामर्थ्यान्निपातनस्वरो बाध्यते ॥ अचि र ऋतः ॥ १०० ॥ तिसृ चतसृ इत्येतयोर्ऋतः स्थाने रेफादेशो भवति अजादौ विभक्तौ परतः। तिस्रस्तिष्ठन्ति। तिस्रः पश्य। चतस्रस्तिष्ठन्ति। चतस्रः पश्य। प्रियतिस्र आनय। प्रियचतस्र आनय। प्रियतिस्रः स्वम्। प्रियचतस्रः स्वम्। प्रियतिस्रि निधेहि प्रियचतस्रि निधेहि। पूर्वसवर्णत्वङिसर्वनामस्थानगुणाना- मपवादः। परमपि ङिसर्वनामस्थानगुणं पूर्वविप्रतिषेधेन बाधते। अचीति किम्। तिसृभिः। चतसृभिः। ऋत इति तिसृचतस्रोः प्रतिपत्त्यर्थमन्यथा हि तदपवादात्त्रिचतुरोरेवायमादेशो विज्ञायेत ॥ जराया जरसन्यतरस्याम् ॥ १०१ ॥ जरा इत्येतस्य जरसित्ययमादेशो भवति अन्यतरस्यामजादौ विभक्तौ परतः। जरसा दन्ताः शीर्यन्ते। जरया दन्ता