काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 694, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ७ ॥ २ ॥ ६९३
सानां त्यदादीनामकृतसन्धीनामादेशा वक्तव्याः ॥ * ॥ परमाहम् । परमा- यम् । परमानेन । अदसः सोर्भवेद्दौत्वं किं सुलोपे विधीयते । ह्रस्वाल्लुप्येत संबुद्धिने हलः प्रकृतं हि तत् ॥ आप एत्वं भवेत्तस्मिन् झलीत्यनुवर्तनात् । प्रत्ययस्थाच्च कादित्वं शीभावश्च प्रसज्यते ॥ इदमो मः ॥ १०८ ॥ इदमः सौ परतो मकारोन्तादेशो भवति । इयम् । अयम् । इदमो मका- रस्य मकारवचनं त्यदाद्यत्वबाधनार्थम् ॥ दश्च ॥ १०९ ॥ इदमो दकारस्य स्थाने मकारादेशो भवति विभक्तौ परतः । इमौ । इमे । इमम् । इमौ । इमान् * ॥ यः सौ ॥ ११० ॥ इदमो मकारस्य यकारादेशो भवति सौ परतः । इयम् । उत्तरसूत्रे पुंसीति वचनात्स्त्रियामयं यकारः ॥ इदो ऽय् पुंसि ॥ १११ ॥ इदम इद्रूपस्य पुंसि सौ परतो ऽय् इत्ययमादेशो भवति । अयं ब्राह्मणः । पुंसीति किम् । इयं ब्राह्मणी ॥ अनाप्यकः ॥ ११२ ॥ इदमो ऽककारस्य इद्रूपस्य स्थाने अन इत्ययमादेशो भवति आपि विभक्तौ परतः । अनेन । अनयोः । अक इति किम् । इमकेन । इमकयोः । आपीति प्रत्याहारः तृतीयैकवचनात्प्रभृति सुपः पकारेण ॥ हलि लोपः ॥ ११३ ॥ हलादौ विभक्तौ परत इदमो ऽककारस्य इद्रूपस्य लोपो भवति । आभ्या- म् । एभिः । एभ्यः । एषाम् । एषु । नानर्थके ऽलोन्त्यविधिरिति सर्वस्यायमि- द्रूपस्य लोपः । अथ वा नायमिल्लोपः । अनाप्यक इति अन्ग्रहणमनुवर्तते † ॥ मृजेर्वृद्धिः ॥ ११४ ॥ विभक्ताविति निवृत्तम् । मृजेरङ्गस्य इको वृद्धिर्भवति । मार्ष्टि । मार्ष्टुम् ।
- इह साविति न संबद्ध्यते, उत्तरसूत्रे साविति वचनादित्यधिकमेकस्मिन्पुस्तके । † अथ वा नायमलोन्त्यलोप इति पा० २ पुस्तकान्तरे ।