काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 707, कुल 828 में से
संदर्भ में पढ़ें७०६ ॥ काशिका ॥ ७ ॥ ३ ॥ सारिका दासी ॥ वर्णका तान्तवउपसंख्यानम् ॥ * ॥ वर्णका प्रावरणभेदः । तान्तवइति किम् । वर्णिका भागुरी लोकायते ॥ वर्त्तका शकुनौ प्राचामुपसं- ख्यानम् ॥ * ॥ वर्त्तका शकुनिः । प्राचामन्यत्र उदीचां तु वर्त्तिका । शकुना- विति किम् । वर्त्तिका भागुरी लोकायतस्य ॥ अष्टका पितृदैवत्ये ॥ * ॥ अष्टका । पितृदैवत्यइति किम् । अष्टिका खारी ॥ वा सूतकापुत्रकावृन्दार- काणा मुपसंख्यानम् ॥ * ॥ सूतिका । सूतका । पुत्रिका । पुत्रका । वृन्दा- रिका । वृन्दारका ॥ उदीचामातः स्थाने यकपूर्वायाः ॥ ४६ ॥ उदीचामाचार्याणां मतेन यकारपूर्वायाः ककारपूर्वायाश्चातः स्थाने योऽकारस्तस्यातः स्थाने इकारादेशो भवति । उदीचां ग्रहणं विकल्पार्थम् । इभ्यका । इभ्यिका । क्षत्रियका । क्षत्रियिका । ककारपूर्वायाः । चटकका । चटकिका । मूषिकका । मूषिकिका । आात इति किम् । सांकाश्ये भवा सांकाश्यिका । स्थानग्रहणमनुवादेपि स्थानसंबन्धप्रतिपत्त्यर्थम् । आात इत्य- नेन ह्यत इति स्थानी विशिष्यते । यकपूर्वाया इति किम् । अश्वा । अश्विका । यकपूर्वाया इति स्त्रीलिङ्गनिर्देशः आतः स्त्रीप्रत्ययस्य प्रतिपत्त्यर्थं, इह न भवति । शुभं यातीति शुभंयाः । शुभंयिका ॥ यकपूर्वत्वे धात्वन्तप्रति- षेधः ॥ * ॥ धात्वन्तयोर्यकारककारयोरस्य प्रतिषेधस्य प्रतिषेधो वक्तव्यः । सुनयिका । सुशयिका । सुपाक्किका । आशोकिका ॥ भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि ॥ ४७ ॥ आतः स्थाने योकारस्तस्य इत्वं न भवति उदीचामाचार्याणां मतेन । भस्त्रा । भस्त्रिका । भस्त्रका । अभस्त्रा । अभस्त्रिका । एषका । एषिका । अजका । अजिका । अनजिका । अनजका । ज्ञका । ज्ञिका । अज्ञका । अज्ञिका । द्वके । द्विके । स्वका । स्विका । अस्विका । अस्वका । एषाद्वे नञ्पूर्वे न प्रयो- ज्यतः। किं कारणम् । तत्र हि सति यदि साकच्काभ्यां नञ्समासः, अथापि कृते नञ्समासे पश्चादकच्, उभयथापि समासाद् या विभक्तिरुत्पद्यते तस्यां त्यदाद्यत्वे सति टापा भवितव्यं सोन्तर्वर्त्तिन्या विभक्त्या सुबन्तत्वादिति ह्रस्वस्य प्राप्तिरेव नास्ति । तेन अनेषका अद्वके इत्येव नित्यं भवितव्यम् । स्वशब्दस्तु ज्ञातिधनाख्यायां नञ्पूर्वोपि प्रयोक्ष्यति । भस्त्रेत्ययमभाषितपुंस्क- स्तस्याभाषितपुंस्काच्चेत्येव सिद्धे यदिह ग्रहणं तदुपसर्जनार्थम् । अविद्यमाना भस्त्रा यस्या अभस्त्रा । साल्या, अभस्त्रका । अभस्त्रिका । अत्रोपसर्जनह्रस्वत्वे कृते पुनर्बहुव्रीहौ कृते भाषितपुंस्काद्वाष्टाबुत्पद्यते तस्य के ऽण इति यो ह्रस्वो नासावभाषितपुंस्काद्विहितस्यातः स्थाने भवति । नञ्पूर्वाणामपीत्यपिशब्दा-