काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 708, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ७ ॥ ३ ॥ ७०० दन्यपूर्वाणां केवलानां च विधिरयमिष्यते । निर्भस्त्रिका । निर्भस्त्रका । बहु- भस्त्रका । बहुभस्त्रिका, इत्येवमनयोरपीष्यते । तत्र नञ्पूर्वाणामिति वचनम- नुवाद एव मन्दबुद्धिप्रतिपत्त्यर्थः ॥ अभाषितपुंस्काच्च ॥ ४८ ॥ अभाषितपुंस्काद्विहितस्यातः स्थाने योकारस्तस्योदीचामाचार्याणां मतेन इकारादेशो न भवति । खट्विका । खट्वका । अखट्वका । अखट्विका । परम- खट्विका । परमखट्वका । बहुव्रीहौ यदा कपि ह्रस्वः क्रियते तदा भवितव्यम- नेन विधिना । तत्राप्यभाषितपुंस्काद्विहितस्यातः स्थाने भवत्यकार इति । यदा तु अविद्यमाना खट्वा अस्याः अखट्वा, अन्या अखट्वा, अखट्विकेति तदा न भवति । तथा अतिक्रान्ता खट्वामतिखट्वा, अन्या अतिखट्वा, अतिखट्विका ॥ आदाचार्याणाम् ॥ ४९ ॥ अभाषितपुंस्कादातः स्थाने यो ऽकारस्तस्याचार्याणामाकारादेशो भव- ति । खट्वाका । अखट्वाका । परमखट्वाका ॥ ठस्येकः ॥ ५० ॥ अङ्गस्य निमित्तं यष्ठः, कश्चाङ्गस्य निमित्तं, प्रत्यय,स्तस्य प्रत्ययठस्य इक इत्ययमादेशो भवति । प्राग्वहतेष्ठक् । आप्तिकः । शालाकिकः । लवणा- ठञ् । लावणिकः । ठगादिषु यदि वर्णमात्रं प्रत्यय उच्चारणार्योकारस्तदा इहाप्यकार उच्चारणार्यः । वर्णमात्रं तु स्थानित्वेनोपादीयते । संघाते तु प्रत्यये ऽत्रापि संघातग्रहणमेव । तत्र कण्ठेष्ठः, कण्ठ इत्येवमादीनामुखादीनामुखादयो बहुलमिति न भवति । मथितं पण्यमस्य माथितिक इत्यत्र तु यस्येति लोपे कृते इसुसुक्तान्तात्क इति स्थानिवद्भावादिकस्य कादेशः प्राप्नोति सन्निपातल- क्षणो विधिरनिमित्तं तद्विघातस्येति न भवति । यस्येत्यकारलोपस्य स्था निव- द्भावाद्वा । पूर्वस्मादपि हि विधौ स्थानिवद्भावः ॥ इसुसुक्तान्तात्कः ॥ ५१ ॥ इस् उस् इत्येवमन्तानामुगन्तानां तान्तानां चाङ्गानामुत्तरस्य ठस्य क इत्ययमादेशो भवति । इस् । सार्पिष्कः । उस् । धानुष्कः । याजुष्कः । उक् । नैषादकर्षुकः । शाबरजम्बुकः । मातृकम् । पैतृकम् । तान्तात् । क्षौदश्वित्कः । शाक्तुकः । याक्तुकः । इसुसोः प्रतिपदोक्तयोर्ग्रहणादिह न भवति । आशिषा चरति । आशिषिकः । उषा चरति औषिकः ॥ दोश्च उपसंख्यानम् ॥ * ॥ दोर्भ्यां चरति दौष्कः ॥ चजोः कु घिण्यतोः ॥ ५२ ॥