भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 720, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 720

॥ काशिका ॥ ७ ॥ ३ ॥ ७१९ घ्यन्तस्याङ्गस्य ङिति प्रत्यये परतो गुणो भवति । अग्नये । वायवे । अग्नेरागच्छति । वायोरागच्छति । अग्नेः स्वम् । वायोः स्वम् । घेरिति किम् । सख्ये । पत्ये । ङितीति किम् । अग्निभ्याम् । सुपीत्येव । पट्वी । कुरुतः ॥ आण् नद्याः ॥ ११२ ॥ नद्यन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्याडागमो भवति । कुमार्यै । ब्रह्म- बन्ध्वै । कुमार्याः । ब्रह्मबन्ध्वाः ॥ याडापः ॥ ११३ ॥ आबन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्य याडागमो भवति । खट्वायै । बहुराजायै । कारीषगन्धायै । खट्वायाः । कारीषगन्धायाः । बहुराजायाः । अतिखट्वायेत्यत्राकृते दीर्धे ङ्याब्ग्रहणे ऽदीर्घे इति वचनाद्याडागमो न भवति । कृते तु लाक्षणिकत्वात् ॥ सर्वनाम्नः स्याड्ढ्रस्वश्च ॥ ११४ ॥ सर्वनाम्न आबन्तादङ्गादुत्तरस्य ङितः प्रत्ययस्य स्याडागमो ह्रस्वश्च भवति । सर्वस्यै । विश्वस्यै । यस्यै । तस्यै । कस्यै । सर्वस्याः । विश्वस्याः । यस्याः । तस्याः । कस्याः । अन्यस्यै । अन्यस्याः । आप् इत्येव । भवति । भवते ॥ विभाषा द्वितीयातृतीयाभ्याम् ॥ ११५ ॥ द्वितीया तृतीया इत्येताभ्यामुत्तरस्य ङितः प्रत्ययस्य विभाषा स्याडा- गमो भवति । द्वितीयातृतीययोश्च ह्रस्वो भवति । द्वितीयस्यै । द्वितीयायै । तृतीयस्यै । तृतीयायै ॥ ङेराम्नद्याम्नीभ्यः ॥ ११६ ॥ नद्यन्तादाबन्तान्नीत्येतस्माच्चोत्तरस्य ङेरामित्ययमादेशो भवति । कुमार्याम् । गौर्याम् । ब्रह्मबन्ध्वाम् । धीबन्ध्वाम् । आपः । खट्वायाम् । बहु- राजायाम् । कारीषगन्धायाम् । नी । राजन्याम् । सेनान्याम् * ॥ इदुद्भ्याम् ॥ ११७ ॥ इकारोकाराभ्यां नदीसंज्ञकाभ्यामुत्तरस्य ङेरामादेशो भवति । कृत्याम् । धेन्वाम् ॥ औत् ॥ ११८ ॥ इदुद्भ्यामुत्तरस्य ङेरौकारादेशो भवति । यन्न नदीसंज्ञं नापि घिसंज्ञमि- कारान्तं तदिहोदाहरणम् । सख्यौ । पत्यौ ॥

  • ग्रामण्यामिति पुस्तकान्तरे ऽधिकम् ।