काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 727, कुल 828 में से
संदर्भ में पढ़ें७२६ ॥ काशिका ॥ ७ । ४ ॥ दुरस्यूर्द्रविणस्युर्वृषण्यति रिषण्यति ॥ ३६ ॥ दुरस्युः द्रविणस्युः वृषण्यति रिषण्यति एतानि छन्दसि निपात्यन्ते । दुष्टशब्दस्य क्यचि दुरस्भावो निपात्यते । अवियोना दुरस्युः । दुष्टीयतीति प्राप्ते । द्रविणशब्दस्य द्रविणस्भावो निपात्यते । द्रविणस्युर्विपन्यया । द्रवि- णीयतीति प्राप्ते । वृषशब्दस्य वृषणभावो निपात्यते । वृषण्यति । वृषीयतीति प्राप्ते । रिष्टशब्दस्य रिषणभावो निपात्यते । रिषण्यति । रिष्टीयतीति प्राप्ते ॥ अश्वाघस्यात् ॥ ३७ ॥ अश्व अघ इत्येतयोः क्यचि परतः छन्दसि विषये आकारादेशो भव- ति । आश्वायन्तो मघवन् । मा त्वा वृका अघायवो विदन् । एतदेवाश्ववचनं ज्ञापकं नच्छन्दस्यपुत्रस्येति दीर्घप्रतिषेधो भवतीति ॥ देवसुम्नयोर्यजुषि काठके ॥ ३८ ॥ देव सुम्न इत्येतयोः क्यचि परत आकारादेशो भवति यजुषि काठके । देवायन्तो यजमानाय । सुम्नायन्ता हवामहे । यजुषीति किम् । देवाञ्जिगाय सुम्न्युः । काठकइति किम् । सुम्नयुरिदमासीत् ॥ कव्यध्वरपृतनस्यर्चि लोपः ॥ ३९ ॥ कवि अध्वर पृतना इत्येतेषामङ्गानां क्यचि परतो लोपो भवति ऋचि विषये । कव्यन्तः सुमनसः । अध्वर । अध्वर्यन्तः । पृतन्यन्तस्तिष्ठन्ति ॥ द्यतिस्यतिमास्थामित्ति किति ॥ ४० ॥ द्यति स्यति मा स्था इत्येतेषामङ्गानामिकारादेशो भवति तकारादौ किति प्रत्यये परतः । द्यति । निर्दितः । निर्दितवान् । स्यति । अवसितः । अवसितवान् । मा । मितः । मितवान् । स्था । स्थितः । स्थितवान् । तीति किम् । अवदाय । कितीति किम् । अवदाता ॥ शाच्छोरन्यतरस्याम् ॥ ४१ ॥ शा छा इत्येतयोरन्यतरस्यामिकारादेशो भवति तकारादौ किति । शा । निशितम् । निशातम् । निशितवान् । निशातवान् । अवच्छितम् । अव- च्छातम् । अवच्छितवान् । अवच्छातवान् ॥ श्यतेरित्वं व्रते नित्यमिति वक्त- व्यम् ॥ * ॥ संशितो ब्राह्मणः । संशितव्रत इत्यर्थः । व्यवस्थितविभाषाविज्ञा- नात्सिद्धम् । देवत्रातो गलो ग्राह्य इतियोगे च सद्धिधिः । मिथस्ते न विभाष्यन्ते गवाक्षः संशितव्रतः ॥