काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
DevanagariHindipublished828 पृष्ठ
पृष्ठ 728, कुल 828 में से
संदर्भ में पढ़ेंपृष्ठ 728
॥ काशिका ॥ ७ ॥ ४ ॥ ७२७ दधातेर्हिः ॥ ४२ ॥ दधातेरङ्गस्य हात्ययमादेशो भवति तकारादौ क्ङिति प्रत्यये परतः । हितः । हितवान् । हित्वा ॥ जहातेश्च क्त्वि ॥ ४३ ॥ जहातेरङ्गस्य हीत्ययमादेशो भवति क्त्वाप्रत्यये परतः । हित्वा राज्यं वनं गतः । हित्वा गच्छति । जहातेर्निर्देशाज्जिहीतेर्न भवति । हात्वा ॥ विभाषा छन्दसि ॥ ४४ ॥ जहातेरङ्गस्य विभाषा हीत्ययमादेशो भवति छन्दसि विषये क्त्वाप्र- त्यये परतः । हित्वा शरीरं यातव्यम् । हात्वा * ॥ सुधितवसुधितनेमधितधिष्वधिषीय च ॥ ४५ ॥ सुधित वसुधित नेमधित धिष्व धिषीय इत्येतानि छन्दसि विषये निपात्यन्ते । तत्र सुधित वसुधित नेमधित इति सुवसुनेमपूर्वस्य दधातेः क्त्वा- प्रत्यये इत्त्वमिडागमो