काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 729, कुल 828 में से
संदर्भ में पढ़ें७२८ ॥ काशिका ॥ ७ ॥ ४ ॥ अच उपसर्गात्तः ॥ ४७ ॥ अजन्तादुपसर्गादुत्तरस्य दा इत्येतस्य घुसंज्ञकस्य त इत्ययमादेशो भवति तकारादौ किति । प्रत्त,मवत्तं,नीत्तं,परीत्तम् । अच इति किम् । निर्दुत्तम् । दुर्दुत्तम् । उपसर्गादिति किम् । दधि दत्तम् । मधु दत्तम् । घोरित्येव । अव- दातं मुखम् । उपसर्गादिति पञ्चमीनिर्देशादादेरन्तः प्राप्नोति । तत्र समाधि- माहुः । अच इत्येतदावर्त्यते । तत्रैकं पञ्चम्यन्तमुपसर्गविशेषणार्थं, अपरमपि षष्ठ्यन्तं स्थानिनिर्देशार्थमित्याकारस्य स्थाने तकारो भवति । द्वितकारो वा संयोगो ऽयमादिश्यते । सोऽनेकाल्त्वात्सर्वस्य भविष्यति । अपो भीत्यत्र पञ्च- म्यन्तमच इत्यनुवर्त्तते । तेन पकारमात्रस्य भविष्यति ॥ द्यतेरित्त्वाद्दचस्त इत्ये- तद्वत्ति