काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 73, कुल 828 में से
संदर्भ में पढ़ें६६ ॥ काशिका ॥ १ ॥ ४ ॥ ति। प्रवृत्तिविघातो वारणम्। यवेभ्यो गां वारयति। यवेभ्यो गां निवर्त्तय- यति। ईप्सित इति किम्। यवेभ्यो गां वारयति क्षेत्रे॥ अन्तर्द्धौ येनादर्शनमिच्छति ॥ २८ ॥ व्यवधानमन्तर्द्धिः। अन्तर्द्धिनिमित्तं येनादर्शनमात्मन इच्छति तत्का- रकमपादानसंज्ञं भवति। उपाध्यायादन्तर्द्धत्ते। उपाध्यायान्निलीयते। मा मामुपाध्यायो द्राक्षीदिति निलीयते। अन्तर्द्धाविति किम्। चौरान्न दिदृक्षते। इच्छतिग्रहणं किम्। अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात्॥ आख्यातोपयोगे ॥ २९ ॥ आख्याता प्रतिपादयिता। उपयोगे नियमपूर्वकं विद्याग्रहणम्। उप- योगे साध्ये य आख्याता तत्कारकमपादानसंज्ञं भवति। उपाध्यायादधीते। उपाध्यायादागमयति। उपयोगइति किम्। नटस्य शृणोति॥ जनिकर्त्तुः प्रकृतिः ॥ ३० ॥ जनेः कर्त्ता जनिकर्त्ता। जन्यस्य जन्मनः कर्त्ता जायमानः तस्य या प्रकृतिः कारणं हेतुः तत् कारकमपादानसंज्ञं भवति। शृङ्गाच्छरो जायते। गोमयाद्वृश्चिको जायते॥ भुवः प्रभवः ॥ ३१ ॥ कर्त्तुरिति वर्त्तते। भवनं भूः। प्रभवत्यस्मादिति प्रभवः। भूकर्त्तुः प्रभवो यस्तत्कारकमपादानसंज्ञं भवति। हिमवतो गङ्गा प्रभवति। काश्मीरेभ्यो वि- तस्ता प्रभवति। प्रथमत उपलभ्यतइत्यर्थः॥ कर्मणा यमभिप्रैति स संप्रदानम् ॥ ३२ ॥ कर्मणा करणभूतेन कर्त्ता यमभिप्रैति तत्कारकं संप्रदानसंज्ञं भवति। अन्वर्थसंज्ञाविज्ञानाद्ददातिकर्मणेति विज्ञायते। उपाध्यायाय गां ददाति। माणवकाय भिक्षां ददाति॥ क्रियाग्रहणमपि कर्त्तव्यम्॥ * ॥ क्रियापि यम- भिप्रैति स संप्रदानम्। श्राद्धाय निगर्हते। युद्धाय संनह्यते। पत्ये शेते। संप्र- दानप्रदेशाः चतुर्थी संप्रदानइत्येवमादयः॥ कर्मणः करणसंज्ञा वक्तव्या संप्रदा- नस्य च कर्मसंज्ञा॥ * ॥ पशुना रुद्रं यजते। पशुं रुद्राय ददातीत्यर्थः॥ रुच्यर्थानां प्रीयमाणः ॥ ३३ ॥ रुचिना समानार्था रुच्यर्थाः। अन्यकर्तृको ऽभिलाषो रुचिः। रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणो यो ऽर्थस्तत्कारकं संप्रदानसंज्ञं भवति। देवदत्ताय रोचते मोदकः। यज्ञदत्ताय स्वदते पूपः। देवदत्तस्याभिलाषस्य मोदकः कर्त्ता। प्रीयमाण इति किम्। देवदत्ताय रोचते मोदकः पथि॥