काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 74, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ १ ॥ ४ ॥ ४७ श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः ॥ ३४ ॥ श्लाघ ह्नुङ् स्था शप इत्येतेषां ज्ञीप्स्यमानो यो ऽर्थस्तत्कारकं संप्रदान- संज्ञं भवति । ज्ञीप्स्यमानो ज्ञापयितुमिष्यमाणो बोधयितुमभिप्रेतः । देवदत्ताय श्लाघते । देवदत्तं श्लाघमानस्तां श्लाघां तमेव ज्ञापयितुमिच्छतीत्यर्थः । एवं देवदत्ताय ह्नुते । यज्ञदत्ताय ह्नुते। देवदत्ताय तिष्ठते। यज्ञदत्ताय तिष्ठते। देवदत्ताय शपते । यज्ञदत्ताय शपते । ज्ञीप्स्यमान इति किम् । देवदत्ताय श्लाघते पथि ॥ धारेरुत्तमर्णः ॥ ३५ ॥ धारयतेः प्रयोगे उत्तमर्णो यो ऽर्थः तत्कारकं संप्रदानसंज्ञं भवति । उत्त- ममृणं यस्य स उत्तमर्णः । कस्य चोत्तममृणं, यदीयं धनं, धनस्वामी प्रयोक्ता उत्तमर्णः स संप्रदानसंज्ञो भवति । देवदत्ताय शतं धारयति । यज्ञदत्ताय शतं धारयति । उत्तमर्ण इति किम् । देवदत्ताय शतं धारयति ग्रामे ॥ स्पृहेरीप्सितः ॥ ३६ ॥ स्पृह ईप्सायां, चुरादावदन्तः पठ्यते, तस्य ईप्सितो यो ऽर्थस्तत्कारकं संप्रदानसंज्ञं भवति । ईप्सित इत्यभिप्रेत उच्यते । पुष्पेभ्यः स्पृहयति । फलेभ्यः स्पृहयति । ईप्सित इति किम् । पुष्पेभ्यो वने स्पृहयति ॥ क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः ॥ ३७ ॥ अमर्षः क्रोधः । अपकारो द्रोहः । अक्षमा ईर्ष्या । गुणेषु दोषाविष्कर- णमसूया । क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपस्तत्कारकं संप्रदानसंज्ञं भवति । क्रोधस्तावत्कोप एव, द्रोहादयोऽपि कोपप्रभावा एव गृह्यन्ते । तस्मात्सामान्येन विशेषणं यं प्रति कोप इति । देवदत्ताय क्रुध्यति । देवदत्ताय द्रुह्यति । देव- दत्तायेर्ष्यति । देवदत्तायासूयति । यं प्रति कोप इति किम् । भार्यामीर्ष्यति । मैनामन्यो द्राक्षीदिति ॥ क्रुधद्रुहोरुपसृष्टयोः कर्म ॥ ३८ ॥ पूर्वेण संप्रदानसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते । क्रुधद्रुहोरुपसृष्टयोरुप- सर्गसंबद्धयोर्यं प्रति कोपस्तत्कारकं कर्मसंज्ञं भवति । देवदत्तमभिक्रुध्यति। देवदत्त- मभिद्रुह्यति । उपसृष्टयोरिति किम् । देवदत्ताय क्रुध्यति । यज्ञदत्ताय द्रुह्यति ॥ राधीक्ष्योर्यस्य विप्रश्नः ॥ ३९ ॥ राधेरीक्षेश्च कारकं संप्रदानसंज्ञं भवति, कीदृशं, यस्य विप्रश्नः, विविधः प्रश्नः विप्रश्नः, स कस्य भवति, यस्य शुभाशुभं पृच्छ्यते । देवदत्ताय राध्यति । देवदत्तायेक्षते । नैमित्तिकः पृष्टः सन् देवदत्तस्य दैवं पर्यालोचयतीत्यर्थः ॥