काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 75, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ १ ॥ ४ ॥ प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्त्ता ॥ ४० ॥ प्रति आङ् इत्येवंपूर्वस्य शृणोतेः कारकं संप्रदानसंज्ञं भवति, कीदृशं, पूर्वस्य कर्त्ता। प्रतिपूर्वं आङ्पूर्वश्च शृणोतिरभ्युपगमे प्रतिज्ञाने वर्तते। स चाभ्युपगमः प- रेण प्रयुक्तस्य सतो भवति। तत्र प्रयोक्ता पूर्वस्याः क्रियायाः कर्त्ता संप्रदानसंज्ञो भव- ति। देवदत्ताय गां प्रतिशृणोति। देवदत्ताय गामा शृणोति। प्रतिजानीतइत्यर्थः॥ अनुप्रतिगृणश्च ॥ ४१ ॥ पूर्वस्य कर्त्तेति वर्तते। अनुपूर्वस्य प्रतिपूर्वस्य च गृणातेः कारकं पूर्वस्याः क्रियायाः कर्तृभूतं संप्रदानसंज्ञं भवति। होत्रे ऽनुगृणाति। होता प्रथमं शंसति तमय्यः प्रोत्साहयति। अनुगरः प्रतिगर इति हि शंसितुः प्रोत्साहने वर्तते। होत्रे ऽनुगृणाति। होतारं शंसन्तं प्रोत्साहयतीत्यर्थः॥ साधकतमं करणम् ॥ ४२ ॥ क्रियाप्रसिद्धौ यत्प्रकृष्टोपकारकं विवक्षितं तत्साधकतमं कारकं करणसंज्ञं भवति। दात्रेण लुनाति। परशुना छिनत्ति। तमब्ग्रहणं किम्। गङ्गायां घोषः। कूपे गर्गकुलम्। करणप्रदेशाः कर्तृकरणयोस्तृतीयेत्येवमादयः॥ दिवः कर्म च ॥ ४३ ॥ पूर्वेण करणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। दिवः साधकतमं यत्का- रकं तत्कर्मसंज्ञं भवति चकारात्करणसंज्ञं च। अक्षान्दीव्यति। अक्षैर्दीव्यति॥ परिक्रयणे संप्रदानमन्यतरस्याम् ॥ ४४ ॥ साधकतममिति वर्तते। पूर्वेण करणसंज्ञायां प्राप्तायां संप्रदानसंज्ञा अनेन विधीयते। परिक्रयणे साधकतमं कारकमन्यतरस्यां संप्रदानसंज्ञं भवति। परिक्रयणं नियतकालं वेतनादिना स्वीकरणं नात्यन्तिकः क्रय एव। शताय परि- क्रीतो ऽनुब्रूहि। शतेन परिक्रीतो ऽनुब्रूहि। सहस्रेण परिक्रीतो ऽनुब्रूहि। सहस्राय परिक्रीतो ऽनुब्रूहि॥ आधारो ऽधिकरणम् ॥ ४५ ॥ आध्रियन्ते ऽस्मिन् क्रिया इत्याधारः। कर्तृकर्मणोः क्रियाश्रयभूतयोर्धा- रणक्रियां प्रति य आधारस्तत्कारकमधिकरणसंज्ञं भवति। कटे चास्ते। कटे शेते। स्थाल्यां पचति। अधिकरणप्रदेशाः सप्तम्यधिकरणे चेत्येवमादयः॥ अधिशीङ्स्थासां कर्म ॥ ४६ ॥ पूर्वेणाधिकरणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। अधिपूर्वाणां शीङ् स्था आस इत्येतेषामाधारो यस्तत्कारकं कर्मसंज्ञं भवति। ग्राममधिशेते। ग्राममधितिष्ठति। पर्वतमध्यास्ते॥