भारतकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

॥ काशिका ॥ १ ॥ ४ ॥ प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्त्ता ॥ ४० ॥ प्रति आङ् इत्येवंपूर्वस्य शृणोतेः कारकं संप्रदानसंज्ञं भवति, कीदृशं, पूर्वस्य कर्त्ता। प्रतिपूर्वं आङ्पूर्वश्च शृणोतिरभ्युपगमे प्रतिज्ञाने वर्तते। स चाभ्युपगमः प- रेण प्रयुक्तस्य सतो भवति। तत्र प्रयोक्ता पूर्वस्याः क्रियायाः कर्त्ता संप्रदानसंज्ञो भव- ति। देवदत्ताय गां प्रतिशृणोति। देवदत्ताय गामा शृणोति। प्रतिजानीतइत्यर्थः॥ अनुप्रतिगृणश्च ॥ ४१ ॥ पूर्वस्य कर्त्तेति वर्तते। अनुपूर्वस्य प्रतिपूर्वस्य च गृणातेः कारकं पूर्वस्याः क्रियायाः कर्तृभूतं संप्रदानसंज्ञं भवति। होत्रे ऽनुगृणाति। होता प्रथमं शंसति तमय्यः प्रोत्साहयति। अनुगरः प्रतिगर इति हि शंसितुः प्रोत्साहने वर्तते। होत्रे ऽनुगृणाति। होतारं शंसन्तं प्रोत्साहयतीत्यर्थः॥ साधकतमं करणम् ॥ ४२ ॥ क्रियाप्रसिद्धौ यत्प्रकृष्टोपकारकं विवक्षितं तत्साधकतमं कारकं करणसंज्ञं भवति। दात्रेण लुनाति। परशुना छिनत्ति। तमब्ग्रहणं किम्। गङ्गायां घोषः। कूपे गर्गकुलम्। करणप्रदेशाः कर्तृकरणयोस्तृतीयेत्येवमादयः॥ दिवः कर्म च ॥ ४३ ॥ पूर्वेण करणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। दिवः साधकतमं यत्का- रकं तत्कर्मसंज्ञं भवति चकारात्करणसंज्ञं च। अक्षान्दीव्यति। अक्षैर्दीव्यति॥ परिक्रयणे संप्रदानमन्यतरस्याम् ॥ ४४ ॥ साधकतममिति वर्तते। पूर्वेण करणसंज्ञायां प्राप्तायां संप्रदानसंज्ञा अनेन विधीयते। परिक्रयणे साधकतमं कारकमन्यतरस्यां संप्रदानसंज्ञं भवति। परिक्रयणं नियतकालं वेतनादिना स्वीकरणं नात्यन्तिकः क्रय एव। शताय परि- क्रीतो ऽनुब्रूहि। शतेन परिक्रीतो ऽनुब्रूहि। सहस्रेण परिक्रीतो ऽनुब्रूहि। सहस्राय परिक्रीतो ऽनुब्रूहि॥ आधारो ऽधिकरणम् ॥ ४५ ॥ आध्रियन्ते ऽस्मिन् क्रिया इत्याधारः। कर्तृकर्मणोः क्रियाश्रयभूतयोर्धा- रणक्रियां प्रति य आधारस्तत्कारकमधिकरणसंज्ञं भवति। कटे चास्ते। कटे शेते। स्थाल्यां पचति। अधिकरणप्रदेशाः सप्तम्यधिकरणे चेत्येवमादयः॥ अधिशीङ्स्थासां कर्म ॥ ४६ ॥ पूर्वेणाधिकरणसंज्ञायां प्राप्तायां कर्मसंज्ञा विधीयते। अधिपूर्वाणां शीङ् स्था आस इत्येतेषामाधारो यस्तत्कारकं कर्मसंज्ञं भवति। ग्राममधिशेते। ग्राममधितिष्ठति। पर्वतमध्यास्ते॥

॥ काशिका ॥ १ ॥ ४ ॥ ६९ अभिनिविशश्च ॥ ४७ ॥ अभिनिपूर्वस्य विशतेराधारो यस्तत्कारकं कर्मसंज्ञं भवति । ग्राममभि- निविशते । कथं कल्याणे ऽभिनिवेशः, पापेभिनिवेशः, याया संज्ञायास्मिन्यस्मिन् संज्ञिन्यभिनिविशतइति । अन्यतरस्यामिति वर्तते परिक्रयणे संप्रदानमन्यतर- स्यामित्यतः । सा च व्यवस्थितविभाषा विज्ञायते ॥ उपान्वध्याङ्ग्वसः ॥ ४८ ॥ उप अनु अधि आङ् इत्येवंपूर्वस्य वसतेराधारो यस्तत्कारकं कर्मसंज्ञं भवति । ग्राममुपवसति सेना । पर्वतमुपवसति । ग्राममनुवसति । ग्राममधि- सति । ग्राममावसति ॥ वसेरश्यर्थस्य प्रतिषेधो वक्तव्यः ॥ * ॥ ग्रामे उपवसति । भोजननिवृत्तिं करोतीत्यर्थः ॥ कर्तुरीप्सिततमं कर्म ॥ ४९ ॥ कर्तुः क्रियया यदाप्तुमिष्टतमं तत्कारकं कर्मसंज्ञं भवति । कटं करोति । ग्रामं गच्छति । कर्तुरिति किम् । माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषा न कर्तुः । तमब्ग्रहणं किम् । पयसौदनं भुङ्क्ते । कर्मेत्यनुवर्तमाने पुनः कर्मग्रहण- माधारनिवृत्त्यर्थम् । इतरथा ऽऽधारस्यैव हि स्यात् । गेहं प्रविशतीति । ओदनं पचति सक्तून्पिबतीत्यादिषु न स्यात् । पुनः कर्मग्रहणात् सर्वत्र सिद्धं भवति । कर्मप्रदेशाः कर्मणि द्वितीयेत्येवमादयः ॥ तथायुक्तं चानीप्सितम् ॥ ५० ॥ येन प्रकारेण कर्तुरीप्सिततमं क्रियया युज्यते तेनैव चेत्प्रकारेण यदनी- प्सितं युक्तं भवति तस्य कर्मसंज्ञा विधीयते । ईप्सितादन्यत्सर्वमभीप्सितं द्वेष्य- मितरच्च । विषं भक्षयति । चौरान्पश्यति । ग्रामं गच्छन् वृक्षमूलान्युपसर्पति ॥ अकथितं च ॥ ५१ ॥ अकथितं च यत्कारकं तत्कर्मसंज्ञं भवति । केनाकथित,मपादानादि- विशेषकथाभिः । परिगणनं कर्तव्यम् । दुहियाचिरुधिप्रच्छिभिक्षिविचामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥ उपयुज्यतइत्युपयोगः, पयः प्रभृति, तस्य निमित्तं गवादि, तस्योपयु- ज्यमानपयःप्रभृतिनिमित्तस्य गवादेः कर्मसंज्ञा विधीयते । पाणिना कांस्यपात्र्यां गां दोग्धि पयः । पात्रादिकमप्युपयोगनिमित्तं तस्य कस्मान्न भवति । नैत- दस्ति । विहिता हि तत्र करणादिसंज्ञा । तदर्थमाह । अपूर्वविधाविति । ब्रुविशासिगुणेन च यत्सचते । ब्रुविशास्योर्गुणः साधनं प्रधानं कर्म यत्रोद्दिष्टं

६० ॥ काशिका ॥ १ ॥ ४ ॥ तेन यत्संबध्यते, तदकीर्तितमाचरितं कविना, तदकथितमुक्तं सूत्रकारेण । दुहि, गां दोग्धि पयः । याचि, पौरवं गां याचते । रुधि, गामवरुणद्धि व्रजम् । प्रच्छि, माणवकं पन्थानं पृच्छति । भित्ति, पौरवं गां भित्ते । चिञ्, वृक्षमव- चिनोति फलानि । ब्रुवि, माणवकं धर्मं ब्रूते । शासि, माणवकं धर्ममनुशास्ति ॥ गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौ ॥ ५२ ॥ अर्थशब्दः प्रत्येकमभिसंबध्यते । गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानां च धातूनां तथा शब्दकर्मकाणामकर्मकाणां च अण्यन्तानां यः कर्त्ता स ण्यन्तानां कर्मसंज्ञो भवति । गच्छति माणवको ग्रामम् । गमयति माणवकं ग्रामम् । याति माणवको ग्रामम् । यापयति माणवकं ग्रामम् । गत्यर्थेषु नीवह्योः प्रतिषेधो वक्तव्यः ॥ * ॥ नयति भारं देवदत्तः । नाययति भारं देवदत्तेन । वहति भारं देवदत्तः । वाहयति भारं देवदत्तेन ॥ वहेरनियन्तृकर्तृकस्येति वक्तव्यम् ॥ * ॥ इह प्रतिषेधो मा भूत् । वहन्ति यवान् बलीवर्दाः । वाहयति यवान् बलीवदानिति । बुद्धि । बुध्यते माणवको धर्मम् । बोधयति माणवकं धर्मम् । वेत्ति माणवको धर्मम् । वेदयति माणवकं धर्मम् । प्रत्यवसानमभ्यवहारः । भुङ्क्ते माणवक ओद- नम् । भोजयति माणवकमोदनम् ॥ अश्नाति माणवक ओदनम् । आशयति माण- वकमोदनम् ॥ आदिखाद्योः प्रतिषेधो वक्तव्यः ॥ * ॥ अत्ति माणवक ओद- नम् । आदयते माणवकेनौदनम् । खादति माणवकः । खादयति माणवकेन ॥ भक्तेरहिंसार्थस्य प्रतिषेधो वक्तव्यः ॥ * ॥ भक्षयति पिण्डीं देवदत्तः । भक्षयति पिण्डीं देवदत्तेनेति । अहिंसार्थस्येति किम् । भक्षयन्ति बलीवर्दाः सस्यं, भक्ष- यन्ति बलीवर्दान्सस्यम् । शब्दकर्मणाम् । अधीते माणवको वेदम् । अध्याप- यति माणवकं वेदम् । पठतिमाणवको वेदम् । पाठयति माणवकं वेदम् ।' अकर्मकाणाम् । आस्ते देवदत्तः । आसयति देवदत्तम् । शेते देवदत्तः । शाय- यति देवदत्तम् । एतेषामिति किम् । पचत्योदनं देवदत्तः । पाचयत्योदनं देवदत्तेनेति । अण्यन्तानामिति किम् । गमयति देवदत्तो यज्ञदत्तं, तमपरः प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ॥ हृक्रोरन्यतरस्याम् ॥ ५३ ॥ अणि कर्त्ता स णाविति वर्तते । हरतेः करोतेश्चाण्यन्तयोर्यः कर्त्ता स ण्यन्तयोरन्यतरस्यां कर्मसंज्ञो भवति । हरति भारं माणवकः । हारयति भारं माणवकं माणवकेनेति वा । करोति कटं देवदत्तः । कारयति कटं देवदत्तं देवदत्तेनेति वा ॥ अभिवादिवृशोरात्मनेपदउपसंख्यानम् ॥ * ॥ अभिवादति गुरुं देवदत्तः । अभिवादयते गुरुं देवदत्त देवदत्तेनेति वा । पश्यन्ति भृत्या राजा-

॥ काशिका ॥ १ ॥ ४ ॥ ६१

नम् । दर्शयते भृत्यान् राजानं दर्शयते भृत्यैरिति वा । आत्मनेपदइति किम् । दर्शयति चैत्रं मैत्रमपरः । प्राप्तविकल्पत्वाद् द्वितीयेव । अभिवादयति गुरुं माणवकेन पिता । अप्राप्तविकल्पत्वात्तृतीयेव ॥ स्वतन्त्रः कर्त्ता ॥ ५४ ॥ स्वतन्त्र इति प्रधानभूत उच्यते । अगुणीभूतो यः । क्रियाप्रसिद्धौ स्वात- न्त्र्येण विवक्ष्यते तत्कारकं कर्तृसंज्ञं भवति । देवदत्तः पचति । स्थाली पचति । कर्तृप्रदेशाः कर्तृकरणयोस्तृतीयेत्येवमादयः ॥ तत्प्रयोजको हेतुश्च ॥ ५५ ॥ तदिति ह्यनन्तरः कर्ता परामृश्यते । तस्य प्रयोजकः तत्प्रयोजकः । निपातनात्समासः । स्वतन्त्रस्य प्रयोजको यो ऽर्थः तत्कारकं हेतुसंज्ञं भवति चकारात्कर्तृसंज्ञं च । संज्ञासमावेशार्थश्चकारः । कुर्वाणं प्रयुङ्क्ते । कारयति ।

? It's डिनुङ,(orडिडुङ) 8. वश्चम,orवश्चम्,? There is a virāma/halanta: वश्चम्,9.श्लिकम्,orश्लिक्कम्,? It's श्लिकम्,10.म्वकम्,orय्वकम्,? It looks like म्वकम्,(orश्वकम्) 11. सानुकम्,12.नुकम्,`

Line 33: धन्नं, दौः, सुष्ठु, भाजक्, अले, वद, वाद, कीम्, एते ऽधिकाः पुस्तकान्तरेषु । Wait, let's look at word 1: Is it धन्नं, or धन्वं,? Looking closely at line 33, word 1: धन्वं, - the second consonant is 'व' with an anusvāra dot on top! Wait, look at 'वव' in line 32: 'व' has a rounded belly. In 'धन्वं', the conjunct is 'न्व': 'न्' + 'व' with anusvāra: धन्वं,. Word 2: दौः, or द्यौः,? Look

मा भूत्। असेस्त्वाचेत्वजोप्रसर्गद्याकुर्या मस्तिष्यंचपर इति षत्वं प्रसज्येत। चकारः संज्ञासमावेशार्थः। प्रणीतम्। अभिषिक्तम्। गतिरनन्तर इति स्वर उपसर्गो- दिति णत्वषत्वे च भवतः। कारिकाशब्दस्योपसंख्यानम् ॥ * ॥ कारिकाकृत्य। कारिकाकृतम्। यत्कारिकाकरोति। पुनश्चनसौ छन्दसि गतिसंज्ञौ भवत इति वक्तव्यम् ॥ * ॥ पुनरुत्स्यूतं वासो देयम्। गतिर्गताविति निघातो भवति । चनोहितः। गतिरनन्तर इतिस्वरः। गतिप्रदेशाः कुगतिप्रादय इत्येवमादयः॥ ऊर्यादिच्चिडाचश्च ॥ ६१ ॥ ऊर्यादयः शब्दाः च्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञा भवन्ति । च्चिडाचोः कृञ्वस्तियोगे विधानं तत्साहचर्यादूर्यादीनामपि तैरेव योगे गतिसंज्ञा विधीयते। ऊरीउररीशब्दावङ्गीकरणे विस्तारे च। ऊरीकृत्य। ऊरीकृतम्। यदू- रीकरोति। उररीकृत्य। उररीकृतम्। यदुररीकरोति। पापी। ताली। आताजी। वेताली। धूली। शकला। संशकला। ध्वंसकला। भ्रंशकला। एते शकलादयो हिंसायाम्। शकलाकृत्य। संशकलाकृत्य। ध्वंसकलाकृत्य। भ्रंशकलाकृत्य। गुलुगुधा पीडार्थे। गुलुगुधाकृत्य। सजूः सहार्थे। सजूःकृत्य। फलू, फली, विक्ली, आक्ली, इति विकारे। फलूकृत्य। फलीकृत्य। विक्लीकृत्य। आक्लीकृत्य। आलोष्ठी, कराली, केवाली, शेवाली, वर्षाली, मस्मसा, मसमसा, एते हिंसायाम्। वषट्। वौषट्। श्रौषट्। स्वाहा। स्वधा। बन्धा। प्रादुस्। श्रत्। आविस्र्। च्यन्ताः खल्वपि। शुक्लीकृत्य। शुक्लीकृतम्। यच्छुक्लीकरोति। डाच्। पटपटाकृत्य। पटपटाकृतम्। यत्पटपटाकरोति ॥ अनुकरणं चानितिपरम् ॥ ६२ ॥ इतिः परो यस्मादिति बहुव्रीहिः। अनुकरणमनितिपरं क्रियायोगे गतिसंज्ञं भवति। खाट्कृत्य। खाट्कृतम्। यत् खाट्करोति। अनितिपरमिति किम्। खाडिति कृत्वा ‘निरष्ठीवत् ॥ आदरानादरयोः सदसती ॥ ६३ ॥ प्रीत्यतिशय आदरः * । परिभवोदासीन्यमनादरः। आदरानादरयोर्व- र्तमानं सदसच्छब्दौ गतिसंज्ञौ भवतः। सत्कृत्य। सत्कृतम्। यत्सत्करोति। असत्कृत्य। असत्कृतम्। यदसत्करोति। आदरानादरयोरिति किम्। सत्कृत्याकाष्ठं गतः। असत्कृत्या काष्ठं गतः ॥ भूषणे ऽलम् ॥ ६४ ॥

  • प्रीतिसंभ्रम इति पाठान्तरम्।

७४ ॥ काशिका ॥ १ ॥ ४ ॥ अलमिति प्रतिषेधे सामर्थ्ये पर्याप्तौ भूषणे चेति विशेषणमुपादीयते । भूषणे यो ऽलंशब्दः स गतिसंज्ञो भवति । अलंकृत्य । अलंकृतम् । यदलं- करोति । भूषणादिति किम् । अलं भुक्त्वा ओदनं गतः ॥ अन्तरपरिग्रहे ॥ ६५ ॥ अन्तरशब्दो ऽपरिग्रहार्थे गतिसंज्ञो भवति । परिग्रहः स्वीकरणं तदभावे गतिसंज्ञा विधीयते । अन्तर्हत्य । अन्तर्हतम् । यदन्तर्हन्ति । अपरिग्रह इति किम् । अन्तर्हत्वा मूषिकां श्येनो गतः । परिगृह्य गत इत्यर्थः । अन्तरशब्दस्याङ्कि- विधिखात्वेषूपसर्गसंज्ञा वक्तव्या ॥ * ॥ अन्तर्द्धः । अन्तर्द्धिः । अन्तर्द्धायति ॥ कणेमनसी श्रद्धाप्रतीघाते ॥ ६६ ॥ कणेशब्दो मनश्शब्दश्च श्रद्धाप्रतीघाते गतिसंज्ञौ भवतः । कणेहत्य पयः पिबति । मनोहत्य पयः पिबति । तावत्पिबति यावदस्याभिलाषो निवृत्तः । श्रद्धा प्रतिहतेत्यर्थः । श्रद्धाप्रतीघात इति किम् । कणे हत्वा गतः । मनो हत्वा गतः ॥ पुरो ऽव्ययम् ॥ ६७ ॥ असिप्रत्ययान्तः पुरःशब्दो ऽव्ययं स गतिसंज्ञो भवति । समासस्वरो- पचाराः प्रयोजनम् । पुरस्कृत्य । पुरस्कृतम् । यत्पुरस्करोति । अव्ययमिति किम् । पूः, पुरौ, पुरः कृत्वा काण्डं गतः ॥ अस्तं च ॥ ६८ ॥ अस्तंशब्दो मकारान्तो ऽव्ययमनुपलब्धौ वर्तते स गतिसंज्ञो भवति । अस्तंगत्य सविता पुनरुदेति । अस्तंगतानि धनानि । यदस्तंगच्छति । अव्यय- मित्येव । अस्तं काण्डम् । क्षिप्तमित्यर्थः ॥ अच्छ गत्यर्थवदेषु ॥ ६९ ॥ अच्छशब्दो ऽव्ययमभिशब्दस्यार्थे वर्तते । स गत्यर्थेषु धातुषु वदतौ च गतिसंज्ञो भवति । अच्छगत्य । अच्छगतम् । यदच्छगच्छति । वदतौ । अच्छोद्य । अच्छोदितम् । यदच्छवदति । अव्ययमित्येव । उदकमच्छं गच्छति ॥ अदो ऽनुपदेशे ॥ ७० ॥ अदःशब्दस्त्यदादिषु पठ्यते सोऽनुपदेशे गतिसंज्ञो भवति । उपदेशः परार्थः प्रयोगः । स्वयमेव तु यदा बुद्ध्या परामृशति तदा नास्त्युपदेश इति सो ऽस्य विषयः । अदःकृत्य । अदःकृतम् । यददःकरोति । अनुपदेश इति किम् । अदः हत्वा काण्डं गत इति परस्य कथयति ॥ तिरो ऽन्तर्द्धौ ॥ ७१ ॥ अन्तर्द्धिर्व्यवधानम् । तत्र तिरःशब्दो गतिसंज्ञो भवति । तिरोभूय ।

॥ काशिका ॥ १ ॥ ४ ॥ ७५ तिरोभूतम् । यत् तिरोभवति । अन्तर्द्धाविति किम् । तिरो भूत्वा स्थितः । पार्श्वतो भूत्वेत्यर्थः ॥ विभाषा कृञि ॥ ७२ ॥ अन्तर्द्धाविति वर्तते । प्राप्तविभाषेयम् । तिरःशब्दः करोतौ परतो विभाषा गतिसंज्ञो भवति । तिरःकृत्य । तिरस्कृत्य । तिरस्कृतम् । यत्तिरस्करोति । तिर- स्कृत्वा । तिरःकृत्वा । अन्तर्द्धावित्येव । तिरः कृत्वा काष्ठं तिष्ठति ॥ उपाजेन्वाजे ॥ ७३ ॥ विभाषा कृञीति वर्तते । उपाजेऽन्वाजेशब्दौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्याधाने वर्तेते तौ कृञि विभाषा गतिसंज्ञौ भवतः । उपाजेकृत्य । उपाजे कृत्वा । अन्वाजेकृत्य । अन्वाजे कृत्वा ॥ साक्षात्प्रभृतीनि च ॥ ७४ ॥ विभाषा कृञीति वर्तते । साक्षात्प्रभृतीनि शब्दरूपाणि कृञि विभाषा गतिसंज्ञानि भवन्ति । साक्षात्प्रभृतिषु च्व्यर्थवचनम् ॥ * ॥ साक्षात्कृत्य । साक्षा- त्कृत्वा । मिथ्याकृत्य । मिथ्या कृत्वा । साक्षात् । मिथ्या । चिन्ता । भद्रा । लौचना । विभाषा । संपत्का । आस्था । अमा । श्रद्धा । प्राजर्या । प्राजरुहा । बीजर्या । बीजरुहा । संसर्या । अर्थे । लवणम् । उष्णम् । शीतम् । उदकम् । आर्द्रम् । गतिसंज्ञासंनियोगेन लवणादीनां मकारान्तत्वं निपात्यते । अग्नौ । वशे । विकम्पने । विहसने । प्रहसने । प्रतपने । प्रादुस् । नमस् । आविस् ॥ अनत्याधानउरसिमनसी ॥ ७५ ॥ विभाषाकृञीति वर्तते । अत्याधानमुपश्लेषषं तदभावे ऽनत्याधाने उर- सिमनसी शब्दौ विभाषा कृञि गतिसंज्ञौ भवतः । उरसिकृत्य । उरसि कृत्वा । मन- सिकृत्य । मनसि कृत्वा । अनत्याधानइति किम् । उरसि कृत्वा पाणिं शेते ॥ मध्येपदेनिवचने च ॥ ७६ ॥ विभाषा कृञीति वर्तते । चकारादनत्याधानइति च । मध्ये पदे निवचने इत्येते शब्दा अनत्याधाने विभाषा कृञि गतिसंज्ञा भवन्ति । मध्येकृत्य । मध्ये कृत्वा । पदेकृत्य । पदे कृत्वा । निवचनं वचनाभावः । निवचनेकृत्य । निवचने कृ- त्वा । वाचं नियम्येत्यर्थः । अनत्याधानइत्येव । हस्तिनः पदे कृत्वा शिरः शेते ॥ नित्यं हस्तेपाणावुपयमने ॥ ७७ ॥ कृञीति वर्तते हस्ते पाणौ इत्येतौ शब्दौ कृञि नित्यं गतिसंज्ञौ भवत उपयमने । उपयमनं दारकर्म । पाणौकृत्य । हस्तेकृत्य । दार कर्म कृत्वेत्यर्थः । उपयमनइति किम् । हस्ते कृत्वा कार्षापणं गतः ॥

६६ ॥ काशिका ॥ १ । ४ ॥ प्राध्वं बन्धने ॥ ७८ ॥ कृञीति वर्तते । प्राध्वमिति मकारान्तमव्ययमानुकूल्ये वर्तते, तदानु- कूल्यं बन्धनहेतुकं यदा भवति, तदा प्राध्वंशब्दः कृञि नित्यं गतिसंज्ञो भवति । प्राध्वंकृत्य । बन्धन इति किम् । प्राध्वं कृत्वा शकटं गतः ॥ जीविकोपनिषदावौपम्ये ॥ ७९ ॥ कृञीति वर्तते । जीविका उपनिषदित्येतौ शब्दौ चौपम्ये विषये कृञि गतिसंज्ञौ भवतः । जीविकाकृत्य । उपनिषत्कृत्य । औपम्य इति किम् । जीविकां कृत्वा गतः ॥ ते प्राग्धातोः ॥ ८० ॥ ते गत्युपसर्गसंज्ञकाः धातोः प्राक् प्रयोक्तव्याः । तथा चैवोदाहृताः । तेप्राग्वचनमुपसर्गार्थम् । गतयो ह्यनन्तराः ॥ छन्दसि परे ऽपि ॥ ८१ ॥ प्राक् प्रयोगे प्राप्ते छन्दसि परेऽप्यनुज्ञायन्ते । छन्दसि विषये गत्युप- सर्गसंज्ञकाः परेऽपि पूर्वेऽपि प्रयोक्तव्याः । न च परेषां प्रयुज्यमानानां संज्ञाकार्ये किं चिदस्ति । केवलं परप्रयोगेऽपि क्रियायोग एवामस्तीति ज्ञाप्यते । याति त्रि हस्तिना । हन्ति नि मुष्टिना । निहन्ति मुष्टिना ॥ व्यवहिताश्च ॥ ८२ ॥ व्यवहिताश्च गत्युपसर्गसंज्ञकाः छन्दसि दृश्यन्ते । आ मन्द्रैरिन्द्र हरि- भिर्याहि मयूररोमभिः । आयाहि ॥ कर्मप्रवचनीयाः ॥ ८३ ॥ कर्मप्रवचनीया इत्याधिकारो वेदितव्यः । यानित ऊर्ध्वमनुक्रमिष्यामः कर्मप्रवचनीयसंज्ञास्ते वेदितव्याः । यदधिकोरीश्वर इति यावद्वक्ष्यति । कर्मप्रवच- नीयप्रदेशाः कर्मप्रवचनीययुक्ते द्वितीयेत्येवमादयः ॥ अनुर्लक्षणे ॥ ८४ ॥ अनुशब्दो लक्षणे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति । शाकल्यस्य संहिता- मनु प्रावर्षत् । अनुवृक्षमन्वसिञ्चत् । अगस्त्यमन्वसिञ्चन्नापः । किमर्थमि- दमुच्यते । यावता लक्षणेत्थंभूताख्यानेति सिद्धैवानोः कर्मप्रवचनीयसंज्ञा । हेत्वर्थे तु वचनं हेतुतृतीयां बाधित्वा द्वितीयेव यथा स्यात् ॥ तृतीयार्थे ॥ ८५ ॥ अनुशब्दस्तृतीयार्थे द्योत्ये कर्मप्रवचनीयसंज्ञो भवति । नदीमन्ववसिता सेना । पर्वतमन्ववसिता सेना । पर्वतेन संबद्धेत्यर्थः ॥

॥ काशिका ॥ १ ॥ ४ ॥ ७७ हीने ॥ ८६ ॥ हीन इति न्यून उच्यते स चोत्कृष्टापेक्षः । तेनेयं हीनोत्कृष्टसंबन्धे संज्ञा विधीयते । हीने द्योत्ये ऽयमनुः कर्मप्रवचनीयसंज्ञो भवति । अनुशाकटा- यनं वैयाकरणाः । अन्वार्जुनं योद्धारः ॥ उपोधिके च ॥ ८७ ॥ उपशब्दः अधिके हीने च द्योत्ये कर्मप्रवचनीयसंज्ञो भवति । उप खार्यां द्रोणः । उप निष्के कार्षापणम् । हीने । उप शाकटायनं वैयाकरणाः ॥ अपपरी वर्जने ॥ ८८ ॥ अपपरी शब्दौ वर्जने द्योत्ये कर्मप्रवचनीयसंज्ञौ भवतः । प्रकृतेन संब- न्धिना कस्य चिदनभिसंबन्धो वर्जनम् । अप त्रिगर्त्तेभ्यो वृष्टो देवः । परि । परि त्रिगत्र्तेभ्यो वृष्टो देवः । वर्जनेति किम् । ओदनं परिविञ्चति ॥ आङ्मर्यादावचने ॥ ८९ ॥ आङित्येष शब्दः मर्यादावचने कर्मप्रवचनीयसंज्ञो भवति । अवधिर्म- र्यादा । वचनग्रहणादभिविधिरपि गृह्यते । आ पाटलिपुत्राद्वृष्टो देवः । आकुमारं यशः पाणिनेः । आ सांकाश्यात् । आ मथुरायाः । मर्यादावचनेति किम् । ईषदर्थे क्रियायोगे च मा भूत् ॥ लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्य्यनवः ॥ ९० ॥ लक्षणे इत्थंभूताख्याने भागे वीप्सायां च विषयभूतायां प्रति परि अनु इत्येते कर्मप्रवचनीयसंज्ञा भवन्ति । लक्षणे तावत् । वृक्षं प्रति विद्योतते विद्युत् । वृक्षं परि । वृक्षमन्विति । इत्थंभूताख्याने । साधुर्देवदत्तो मातरं प्रति । मातरं परि । मातरमनु । भागे । यदत्र मां प्रति स्यात् । मां परि स्यात् । मामनु स्यात् । वीप्सायाम् । वृक्षंवृक्षं प्रति सिञ्चति । परि सिञ्चति । अनु सिञ्चति । लक्षणादि- ष्विति किम् । ओदनं परिविञ्चति । यद्य परिशब्दयोगे पञ्चमी कस्मान्न भवति पञ्चम्यपाङ्परिभिरिति । वर्जनविषये सा विधीयते, अपशब्दसाहचर्यात् ॥ अभिरभागे ॥ ९१ ॥ लक्षणादिष्वेव भागवर्जितेष्वभिः कर्मप्रवचनीयसंज्ञो भवति । वृक्षमभि विद्योतते । साधुर्देवदत्तो मातरमभि । वृक्षंवृक्षमभि सिञ्चति । अभागेति किम् । भागः स्वीक्रियमाणोंशः । यदत्र ममाभिष्यात् तद्दीयताम् । यदत्र मम भवति तद्दीयतामित्यर्थः ॥ प्रतिः प्रतिनिधिप्रतिदानयोः ॥ ९२ ॥ मुख्यसदृशः प्रतिनिधिः । दत्तस्य निर्यातनं प्रतिदानम् । प्रतिनिधिप्रति-

९८ ॥ काशिका ॥ १ ॥ ४ ॥ चये प्रतिदानविषये च प्रतिः कर्मप्रवचनीयसंज्ञो भवति । अभिमन्युरर्जुनतः प्रति । माषानस्मै तिलेभ्यः प्रति यच्छति ॥ अधिपरी अनर्थकौ ॥ ९३ ॥ अधिपरी शब्दौ अनर्थकौ अनर्थान्तरवाचिनौ कर्मप्रवचनीयसंज्ञौ भवतः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गत्युपसर्गसंज्ञाबाधनार्था कर्मप्रवचनीय- संज्ञा विधीयते ॥ सुः पूजायाम् ॥ ९४ ॥ सुशब्दः पूजायामर्थे कर्मप्रवचनीयसंज्ञो भवति । सु सिक्तं भवता । सु स्तुतं भवता । धात्वर्थः स्तूयते । उपसर्गसंज्ञाश्रयं षत्वं न भवति । पूजाया- मिति किम् । सुषिक्तं किं तवात्र ॥ अतिरतिक्रमणे च ॥ ९५ ॥ अतिशब्दः अतिक्रमणे चकारात्पूजायां च कर्मप्रवचनीयसंज्ञो भवति । नि- न्द्येऽपि वस्तुनि क्रियाप्रवृत्तिरतिक्रमणम् । अति सिक्तमेव भवता । अति स्तुतमेव भ- वता । पूजायाम् । अति सिक्तं भवता । अति स्तुतं भवता । शोभनं कृतमित्यर्थः ॥ अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु ॥ ९६ ॥ पदार्थे संभावने ऽन्ववसर्गे गर्हायां समुच्चये च वर्तमानः अपिः कर्मप्र- वचनीयसंज्ञो भवति । पदान्तरस्याप्रयुज्यमानस्यार्थः पदार्थः । सर्पिषोऽपि स्यात् । मधुनोऽपि स्यात् । मात्रा बिन्दुः स्तोकमित्यस्यार्थे ऽपिशब्दो वर्तते । संभाव- नमधिकार्थवचनेन शक्तेरप्रतिघाताविष्करणम् । अपि सिञ्चेन्मूलकसहस्रम् । अपि स्तुयाद्राजानम् । अन्ववसर्गः कामचारानुज्ञा । अपि सिञ्च । अपि स्तुहि । गर्हा निन्दा । धिग्जाल्मं देवदत्तमपि सिञ्चेत्पलाण्डुम् । अपि स्तुया- द्वृषलम् । समुच्चये । अपि सिञ्च । अपि स्तुहि । सिञ्च च स्तुहि च । उप- सर्गसंज्ञाबाधनात् षत्वं न भवति ॥ अधिरीश्वरे ॥ ९७ ॥ ईश्वरः स्वामी स च स्वमपेक्षते । तदयं स्वस्वामिसंबन्ध कर्मप्रवचनीय- संज्ञो भवति । तत्र कदा चित्स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति कदा चित्स्वात् । अधि ब्रह्मदत्ते पञ्चालाः । अधि पञ्चालेषु ब्रह्मदत्तः ॥ विभाषा कृञि ॥ ९८ ॥ अधिः करोतौ विभाषा कर्मप्रवचनीयसंज्ञो भवति । यदत्र मामधिक- रिष्यति । कर्मप्रवचनीयसंज्ञापक्षे गतिसंज्ञाबाधनात् तिङि चोदात्तवतीति निघातो न भवति ॥

॥ काशिका ॥ १ । ४ ॥ ७९ लः परस्मैपदम् ॥ ९९ ॥ ल इति षष्ठी सादेशापेक्षा । लादेशाः परस्मैपदसंज्ञा भवन्ति । तिप्, तस्, झि । सिप्, थस्, थ । मिप्, वस्, मस् । शतृक्वसू च । परस्मैपदप्रदेशाः सिचि वृद्धिः परस्मैपदेष्वित्येवमादयः ॥ तङानावात्मनेपदम् ॥ १०० ॥ तङिति प्रत्याहारो नवानां वचनानाम् । आन इति शानच्कानचोर्ग्र- हणम् । पूर्वेण परस्मैपदसंज्ञायां प्राप्तायां तङानयोरात्मनेपदसंज्ञा विधीयते । त, आताम्, झ । थास्, आथाम्, ध्वम् । इट्, वहि, महिङ् । आनः खल्व- पि । शानच्कानचौ । ल इत्येव । कतीह निघ्नानाः । आत्मनेपदप्रदेशा अनु- दात्तङित आत्मनेपदमित्येवमादयः ॥ तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाः ॥ १०१ ॥ तिङोऽष्टादश प्रत्ययाः नव परस्मैपदसंज्ञकाः नवात्मनेपदसंज्ञकाः तत्र परस्मैपदेषु त्रयस्त्रिकाः यथाक्रमं प्रथममध्यमोत्तमसंज्ञा भवन्ति । आत्मनेप- देष्वपि त्रयस्त्रिकाः प्रथममध्यमोत्तमसंज्ञा भवन्ति । तिप्, तस्, झि, इति प्रथमः । सिप्, थस्, थ, इति मध्यमः । मिप्, वस्, मस्, इत्युत्तमः । आत्म- नेपदेषु त, आतां, झ, इति प्रथमः । थास्, आथाम्, ध्वम्, इति मध्यमः । इट्, वहि, महिङ्, इत्युत्तमः । प्रथममध्यमोत्तमप्रदेशाः शेषे प्रथम इत्येवमादयः ॥ तान्येकवचनद्विवचनबहुवचनान्येकशः ॥ १०२ ॥ तान्येकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति * एकशः एकैकं पदम् । तिबित्येकवचनम् । तसिति द्विवचनम् । झि इति बहुवचनम् । एवं सर्वत्र । एकवचनद्विवचनबहुवचनप्रदेशाः बहुषु बहुवचनमित्येवमादयः ॥ सुपः ॥ १०३ ॥ तिङां त्रिकेष्वेकवचनादिसंज्ञा विहिताः संप्रति सुपां त्रिकेषु विधीयन्ते । सुपश्च त्रीणित्रीणि पदानि एकश एकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति । सु इत्येकवचनम् । औ इति द्विवचनम् । जसिति बहुवचनम् । एवं सर्वत्र ॥ विभक्तिश्च ॥ १०४ ॥ त्रीणित्रीणीत्यनुवर्तते । त्रीणित्रीणि विभक्तिसंज्ञाश्च भवन्ति सुपस्ति- ङश्च । विभक्तिप्रदेशा अष्टन आ विभक्तावित्येवमादयः ॥

  • तानि तिङस्त्रीणित्रीणि भूत्वैकवचनद्विवचनबहुवचनसंज्ञानि भवन्तीत्यपि क्व चि- त्पाठः ।

४० ॥ काशिका ॥ १ ॥ ४ ॥ युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः ॥ १०५ ॥ लस्येत्यधिकृत्य सामान्येन तिङादयो विहितास्तेषामयं पुरुषनियमः क्रियते । युष्मद्युपपदे सति व्यवहिते चाव्यवहिते सति समानाधिकरणे समा- नाभिधेये तुल्यकारके स्थानिनि प्रयुज्यमाने ऽप्यप्रयुज्यमानेऽपि मध्यमपुरुषो भव- ति । त्वं पचसि । युवां पचथः । यूयं पचथ । अप्रयुज्यमानेऽपि । पचसि । पचथः । पचथ ॥ प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च ॥ १०६ ॥ प्रहासः परिहासः क्रीडा । प्रहासे गम्यमाने मन्योपपदे धातोर्मध्यमपु- रुषो भवति, मन्यतेश्चोत्तमः स चैकवद्भवति । एहि मन्ये ओदनं भोक्ष्यस इति, नहि भोक्ष्यसे, भुक्तः सोऽतिथिभिः । एहि मन्ये रथेन यास्यसि, नहि यास्यसि, यातस्तेन ते पिता । मध्यमोत्तमयोः प्राप्तयोः उत्तममध्यमौ विधीयेते । प्रहा- स इति किम् । एहि मन्यसे ओदनं भोक्ष्य इति । सुष्ठु मन्यसे, साधु मन्यसे ॥ अस्मद्युत्तमः ॥ १०७ ॥ उत्तमपुरुषो नियम्यते । अस्मद्युपपदे समानाभिधेये प्रयुज्यमानेऽप्यप्रयु- ज्यमानेपि उत्तमपुरुषो भवति । अहं पचामि । आवां पचावः । वयं पचामः । अप्रयुज्यमानेपि । पचामि । पचावः । पचामः ॥ शेषे प्रथमः ॥ १०८ ॥ शेष इति मध्यमोत्तमविषयादन्य उच्यते । यत्र युष्मदस्मदी समानाधि- करणे उपपदे न स्तः तत्र शेषे प्रथमपुरुषो भवति । पचति । पचतः । पचन्ति ॥ परः संनिकर्षः संहिता ॥ १०९ ॥ परशब्दो ऽतिशये वर्तते । संनिकर्षः प्रत्यासत्तिः । परो यः संनिकर्षो वर्णानामर्धमात्राकालव्यवधानं स संहितासंज्ञो भवति । दध्यत्र । मध्वत्र । संहिताप्रदेशास्संहितायामित्येवमादयः ॥ विरामो ऽवसानम् ॥ ११० ॥ विरतिर्विरामः । विरम्यतेनेनेति वा विरामः । सोऽवसानसंज्ञो भवति । दधि । मधु । वृक्षः । प्लक्षः । अवसानप्रदेशाः खरवसानयोर्विसर्जनीय इत्येवमादयः ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ प्रथमाध्यायस्य चतुर्थः पादः ॥ समाप्तश्चाध्यायः ॥ शुभम् ॥

॥ काशिका ॥ २ । १ ॥ ८१ ॥ अथ द्वितीयाध्यायस्य प्रथमः पादः ॥ समर्थः पदविधिः ॥ १ ॥ परिभाषेयम् । यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स समर्थो वेदि- तव्यः । विधीयतइति विधिः । पदानां विधिः पदविधिः । स पुनः समा- सादिः । समर्थः शक्तः, विवक्षितार्थाभिधाने यः शक्तः स समर्थो वेदि- तव्यः । अथ वा समर्थपदाश्रयत्वात् समर्थः । समर्थानां पदानां सम्बद्धार्थानां संसृष्टार्थानां विधिर्वेत्तव्यः । वक्ष्यति, “द्वितीया श्रितातीतपतितगतात्यस्त- प्राप्तापन्नैः” । कष्टं श्रितः, कष्टश्रितः । समर्थग्रहणं किम् । पश्य देवदत्त कष्टं, श्रितो विष्णुमित्रो गुरुकुलम् । “तृतीया तत्कृतार्थेन गुणवचनेन” । शङ्कुलया खण्डः, शङ्कुलाखण्डः । समर्थग्रहणं किम् । करिष्यसि शङ्कुलया, खण्डो देव- दत्त उपले ॥ “चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः” । यूपाय दारु, यूप- दारु । समर्थग्रहणं किम् । गच्छ त्वं यूपाय, दारु देवदत्तस्य गेहे । “पञ्चमी भयेन” । वृकेभ्यो भयं, वृकभयम् । समर्थग्रहणं किम् । गच्छ त्वं मा वृकेभ्यो, भयं देवदत्तस्य यज्ञदत्तात् । “षष्ठी” । राज्ञः पुरुषो, राजपुरुषः । समर्थग्रहणं किम् । भार्या राज्ञः, पुरुषो देवदत्तस्य । “सप्तमी शौण्डैः” । अक्षेषु शौण्डः, अक्षशौण्डः । समर्थग्रहणं किम् । शक्तस्त्वमक्षेषु, शौण्डः पिबति पानागारे । पदग्रहणं किम् । वर्णविधौ समर्थपरिभाषा मा भूत् । तिष्ठतु दध्य,शान त्वं शाकेन । तिष्ठतु कुमारी,च्छत्रं हर देवदत्तात् । यणादेशो नित्यश्च तुग्भवति ॥ सुबामन्त्रिते पराङ्गवत्स्वरे ॥ २ ॥ सुबन्तमामन्त्रिते परतः परस्याङ्गवद्भवति, स्वरे, स्वरलक्षणे कर्तव्ये । तादात्म्यातिदेशोऽयम् । सुबन्तमामन्त्रितमनुप्रविशति । वक्ष्यति । “आमन्त्रि- तस्य च” । आमन्त्रितस्यादिरुदात्तो भवति । स ससुप्कस्यापि यथा स्यात् । कुण्डेनाटन् । परशुना वृश्चन् । मद्राणां राजन् । काश्मीराणां राजन् । सुबिति किम् । पीडे पीड्यमान । आमन्त्रितइति किम् । गेहे गार्ग्यः । परवचनं किम् । पूर्वस्य मा भूत् । देवदत्त कुण्डेनाटन् । अङ्गग्रहणं किम् । यथा वृत्ति- षष्ठीभूतः स्वरं लभेत । उभयोराद्युदात्तत्वं मा भूत् । वत्करणं किम् । स्वाश्र- यमपि यथा स्यात् । आं कुण्डेनाटन् । “आम एकान्तरमामन्त्रितमनन्तिके”- इत्येकान्तरता भवति । स्वरइति किम् । कूपे सिञ्चन् । चर्म नमन् । षत्वणत्वे प्रति पराङ्गवन्न भवति । सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपसंख्यान- ६

८२ ॥ काशिका ॥ २ । १ ॥ मननन्तरत्वात् ॥ * ॥ * तीक्ष्णया सूच्या सीव्यन् । तीक्ष्णेन परशुना वृश्चन् । चाव्ययानां प्रतिषेधो वक्तव्यः ॥ * ॥ उच्चैरधीयान । नीचैरधीयान ॥ प्राक्कडारात्समासः ॥ ३ ॥ कडारसंशब्दानात्प्राग् † यानि ऊर्द्धमनुक्रमिष्यामस्ते समाससंज्ञा वेदि- तव्याः । वक्ष्यति । यथा ऽसादृश्ये । यथावृद्धं ब्राह्मणानामन्त्रयस्व । प्राग्वचनं संज्ञासमावेशार्थम् । समासप्रदेशा "स्तृतीयापमास" इत्येवमादयः ॥ सह सुपा ॥ ४ ॥ सुबिति वर्तते, सहेति सुपेति च त्रयमप्यधिकृतं वेदितव्यम् । यदिह ऊर्द्धमनुक्रमिष्यामस्तत्रेदमुपस्थितं द्रष्टव्यम् । वक्ष्यति द्वितीयाश्रितेति द्वितीयान्तं श्रितादिभिः सह समस्यते । कष्टं श्रितः, कष्टश्रितः । सहग्रहणं योगविभा- गार्थं

हिमानि । निर्हिमं, निःशीतं, वर्तते । असंप्रति, उपभोगस्य वर्तमानकालप्र- तिषेधः । अतितैसूकम् * । तैसूकमाच्छादनं, तस्यायमुपभोगकालो न भवती- त्यर्थः । शब्दप्रादुर्भावः प्रकाशता शब्दस्य । इतिपाणिनि । तत्पाणिनि । पाणि- निशब्दो लोके प्रकाशतइत्यर्थः । पश्चात् । अनुरथं पादातम् । रथानां पश्चात् । यथार्थे यदव्ययं वर्तते तत्समस्यते । योग्यता वीप्सा पदार्थानतिवृत्तिः सादृश्यं चेति यथार्थाः । योग्यतायाम् । अनुरूपम् । रूपयोग्यं भवतीत्यर्थः । वीप्सायाम् । अर्थमर्थं प्रति । प्रत्यर्थम् । पदार्थानतिवृत्तौ । यथाशक्ति । आनुपूर्व्यमनुक्रमः । अनुज्येष्ठं प्रविशन्तु भवन्तः । ज्येष्ठानुपूर्व्या भवन्तः प्रविशन्त्वित्यर्थः । यौग- पद्यमेककालता । सचक्रं धेहि । युगपच्चक्रं धेहीत्यर्थः । सादृश्यं तुल्यता । किमर्थमिदमुच्यते, यथार्थइत्येव सिद्धम् । गुणभूतेऽपि सादृश्ये यथा स्यात् । सदृशः सख्या ससखि । संपत्तिरनुरूप आत्मभावः समृद्धेरन्यः । सब्रह्म बाध- वायाम् । सत्रक्षं शालङ्कायनानाम् । साकल्यमशेषता । सतृणमभ्यवहरति । सबुसम् । न किं चिदभ्यवहार्यं परित्यजतीत्ययमर्थोऽधिकार्थवचनेन प्रतिपा- द्यते । अन्तवचने । अन्तइति परिग्रहापेक्षया समाप्तिरुच्यते । साग्न्यधीते । सेष्टिपशुबन्धम् । पशुबन्धान्तमधीतइत्यर्थः । इयं समाप्तिरसकलेऽप्यध्ययने भव- तीति साकल्यात्पृथगुच्यते ॥ यथा ऽसादृश्ये ॥ ७ ॥ यथेत्येतदव्ययमसादृश्ये वर्तमानं सुपा सह समस्यते, ऽव्ययीभावश्च समासो भवति । यथावृद्धं ब्राह्मणानामन्त्रयस्व । येये वृद्धाः । यथावृद्धुक्षः । यथाध्यापकम् । असादृश्यइति किम् । यथा देवदत्तस्तथा यज्ञदत्तः । यथार्थे यदव्ययमिति पूर्वेणैव सिद्धे समासे वचनमिदं सादृश्यप्रतिषेधार्थम् ॥ यावदवधारणे ॥ ८ ॥ यावदित्येतदव्ययमवधारणे वर्तमानं सुपा सह समस्यते, अव्ययीभा- वश्च समासो भवति । अवधारणमियत्तापरिच्छेदः । यावदमत्रं ब्राह्मणानाम- न्त्रयस्व । यावन्त्यमत्राणि संभवन्ति पञ्च बह्वा तावत आमन्त्रयस्व । अवधा- रणइति किम् । यावद्भुक्तं तावदुक्तम् । नावधारयामि कियन्मया भुक्तमिति † ॥ सुप्प्रतिना मात्रार्थे ॥ ९ ॥ मात्रा बिन्दुः स्तोकमल्पमिति पर्यायाः । मात्रार्थे वर्तमानेन प्रतिना सह सुबन्तं समस्यते, अव्ययीभावश्च समासो भवति । शाकस्य लेशः शाकप्रति । * तैक्षकम् । इति पाठान्तरम् । † कियद्दत्तं त्वया कियद्भुक्तं मयेति वा ।

८४ ॥ काशिका ॥ २ । १ ॥ शाकप्रति । सूपप्रति । मात्रार्थे इति किम् । वृक्षं प्रति विद्योतते विद्युत् । सुबिति । वर्त्तमाने पुनः सुब्ग्रहणमव्ययनिवृत्त्यर्थम् ॥ अक्षशलाकासंख्याः परिणा ॥ १० ॥ अक्षशब्दः शलाकाशब्दः संख्याशब्दश्च परिणा सह समस्यन्ते, अव्य- यीभावश्च समासो भवति । कितवव्यवहारे समासोऽयमिष्यते । पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर्वा भवति, तत्र यदा सर्वे उत्तानाः पतन्त्यवाञ्चो वा तदा पातयिता जयति, तस्यैवास्य विघातो ऽन्यथा पाते सति जायते । अक्षेणेदं न तथा वृत्तं यथा पूर्वे जघ्ने, अक्षपरि । शलाकापरि । एकपरि । द्विपार । त्रिपरि । परमेण चतुष्परि । पञ्चसु त्वेकरूपासु जय एव भविष्यति । अक्षादयस्तृतीयान्ताः पूर्वोक्तस्य यथा न तत् । कितवव्यवहारे च एकत्वे ऽक्षशलाकयोः ॥ विभाषा ॥ ११ ॥ विभाषेत्ययमधिकारो वेदितव्यः । यदिद ऊर्द्धमनुक्रमिष्यामस्तद्विभाषा भवति । वक्ष्यति “अपपरिबहिरञ्चवः पञ्चम्या” । अपत्रिगर्तं वृष्टो देवः । अप त्रिगर्तेभ्यः ॥ अपपरिबहिरञ्चवः पञ्चम्या ॥ १२ ॥ अप परि बहिस् अञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा सम- स्यन्ते, अव्ययीभावश्च समासो भवति । अपत्रिगर्तं वृष्टो देवः । अप त्रिग- र्तेभ्यः । परिचिगर्तम् । परि त्रिगर्तेभ्यः । बहिर्ग्रामम् । बहिर्यामात् । प्राग्ग्रा- मम् । प्राग्ग्रामात् । बहिःशब्दयोगे पञ्चमीभावस्यैतदेव ज्ञापकम् ॥ आङ्मर्यादाभिविध्योः ॥ १३ ॥ आङित्येतन्मर्यादायामभिविधौ च वर्त्तमानं पञ्चम्यन्तेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति । आपाटलिपुत्रं वृष्टो देवः । आ पाटलिपुत्रात् । अभिविधौ । आकुमारं यशः पाणिनेः । आ कुमारेभ्यः ॥ लक्षणेनाभिप्रती आभिमुख्ये ॥ १४ ॥ लक्षणं चिह्नं तद्वाचिना सुबन्तेन सहाभिप्रती शब्दावाभिमुख्ये वर्त्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति । अभ्यग्नि शलभाः पतन्ति । अग्निमभि । प्रत्यग्नि । अग्निं प्रति । अग्निं लक्ष्यीकृत्य अभिमुखं पतन्तीत्यर्थः । लक्षणेनेति किम् । सुघ्नं प्रति गतः । प्रतिनिवृत्य सुघ्नमेवाभिमुखं गतः । अभिप्रती इति किम् । येनाग्निस्तेन गतः । आभिमुख्यइति किम् । अभ्यङ्गु गावः । प्रत्यङ्गु गावः । नवाङ्गा इत्यर्थः ॥

॥ काशिका ॥ २ ॥ १ ॥ ८५ अनुर्यत्समया ॥ १५ ॥ समया समीपम् । अनुर्यस्य समीपवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति । अनुवनमशनिर्गतः । अनुरीति किम् । वनं समया । यत्समयेति किम् । वृत्तम॒नु विद्योतते विद्युत् । अव्ययं विभक्तिसमीपेत्येव सिद्धे पुनर्वचनं विभाषार्थम् ॥ ॥ यस्य चायामः ॥ १६ ॥ लक्षणेनेति वर्तते । आयामो दैर्घ्यम् । अनुर्यस्यायामवाची तेन लक्षण- भूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति । अनुगङ्गं वारा- णसी । अनुयमुनं मथुरा । यमुनाऽऽयामेन मथुराऽऽयामो लक्ष्यते । चायाम इति किम् । वृत्तम॒नु विद्योतते विद्युत् ॥ तिष्ठद्गुप्रभृतीनि च ॥ १७ ॥ तिष्ठद्ग्वादयः समुदाया एव निपात्यन्ते । तिष्ठद्गुप्रभृतीनि शब्दरूपाणि अव्ययीभावसंज्ञानि भवन्ति । तिष्ठद्गु कालविशेषः । तिष्ठन्ति गावो यस्मिन्काले दोहाय स तिष्ठद्गु कालः । खलेयवादीनि प्रथमान्तानि विभक्त्यन्तरेण नैव संब- ध्यन्ते ऽन्यपदार्थे च काले वर्त्तन्ते । चकारो ऽवधारणार्थः । अपरः समासो न भवति परमतिष्ठद्विति । तिष्ठद्गु । वहद्गु । आयतीगवम् । खलेबुसम् । खलेयवम् । लून- यवम् । लृयमानयवम् । पूतयवम् । पूयमानयवम् । संहृतयवम् । संह्रियमाण- यवम् । संहृतबुसम् । संह्रियमाणबुसम् । एते कालशब्दाः । समभूमि । समपदाति । सुषमम् । विषमम् । निष्षमम् । दुष्षमम् । अपरसमम् । आयतीसमम् । प्राह्णम् । प्रत्यहम् । प्रमृगम् । प्रदक्षिणम् । अपरदक्षिणम् । संप्रति । असंप्रति । पापस- मम् । पुण्यसमम् ॥ इच् कर्मव्यतिहारे ॥ दण्डादण्डि । मुसलामुसलि ॥ पारे मध्ये षष्ठ्या वा ॥ १८ ॥ षष्ठीसमासे प्राप्ते तदपवादो ऽव्ययीभाव आरभ्यते । वावचनाच्च षष्ठी- समासोऽपि पक्षे ऽभ्यनुज्ञायते । पारमध्यशब्दौ षष्ठ्यन्तेन सह विभाषा समस्येते, अव्ययीभावश्च समासो भवति । तत्सन्नियोगेन चानयोरेकारान्तत्वं निपात्यते । पारं गङ्गायाः, पारेगङ्गम् । मध्यं गङ्गायाः, मध्येगङ्गम् । षष्ठीसमासपक्षे । गङ्गा- पारम् । गङ्गामध्यम् । महाविभाषया वाक्यविकल्पः क्रियते ॥ संख्या वंश्येन ॥ १९ ॥ विद्यया जन्मना वा प्राणिनामेकलक्षणसंतानो वंश इत्यभिधीयते । तत्र भवो वंश्यः । तद्वाचिना सुबन्तेन सह संख्या समस्यते, अव्ययीभावश्च समासो भवति । द्वौ मुनी व्याकरणस्य वंश्यौ द्विमुनि व्याकरणस्य । त्रिमुनि व्याकर-

८६ ॥ काशिका ॥ २ । १ ॥ णास्य । यदा तु विद्याया तद्गतामभेदविवक्षा तदा सामानाधिकरण्यं भवति । द्विमुनि व्याकरणं, त्रिमुनि व्याकरणमिति । जन्मना । एकविंशति भारद्वाजम् ॥ नदीभिश्च ॥ २० ॥ संख्येत्यनुवर्तते । नदीवचनैः शब्दैः सह संख्या समस्यते, अव्ययीभा- वश्च समासो भवति समाहारे चायमिष्यते । सप्तगङ्गम् । द्वियमुनम् । पञ्च- नदम् । सप्तगोदावरम् ॥ अन्यपदार्थे च संज्ञायाम् ॥ २१ ॥ संख्येति निवृत्तं, नदीग्रहणमनुवर्त्तते । नदीभिः सह सुबन्तमन्यपदार्थे वर्त्तमानं संज्ञायां विषये समस्यते, अव्ययीभावश्च समासो भवति । विभाषा- धिकारेपि नित्यसमास एवायम् । नहि वाक्येन संज्ञा गम्यते । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् । कृष्ण गङ्गम् । शनैर्गङ्गम् । अन्यपदार्थइति किम् । कृष्णवेणा संज्ञायामिति किम् । शीघ्रगङ्गो देशः ॥ तत्पुरुषः ॥ २२ ॥ तत्पुरुष इति संज्ञा ऽधिक्रियते प्राग्बहुव्रीहे, यनितऊर्द्ध्वं नुक्रमिष्याम- स्तत्पुरुषसंज्ञास्ते वेदितव्याः । वक्ष्यति द्वितीयाश्रितातीतपतितेति । कष्टश्रितः । पूर्वाचार्यसंज्ञा चेयं महती तदङ्गीकरणमुपाधेरपि तदीयस्य परिग्रहार्थम् । उत्तर- पदार्थप्रधानस्तत्पुरुष इति । तत्पुरुषप्रदेशाः तत्पुरुषे कृति बहुलमित्येवमादयः ॥ द्विगुश्च ॥ २३ ॥ द्विगुश्च समासस्तत्पुरुषसंज्ञो भवति । द्विगोस्तत्पुरुषत्वे समासान्ताः प्रयोजनम् । पञ्चराजी । दशराजी । द्व्यहः । पञ्चगवम् । दशगवम् ॥ द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ॥ २४ ॥ सुप् सुपेति वर्त्तते, तस्य विशेषणमेतद् द्वितीया । द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति । कष्टं श्रितः, कष्ट- श्रितः । नरकाश्रितः । अतीत । कान्तारमतीतः, कान्तारातीतः । पतित । नरकं पतितः, नरकपतितः । गत । ग्रामं गतः, ग्रामगतः । अत्यस्त । तरङ्गा- नत्यस्तः, तरङ्गात्यस्तः । तुहिनात्यस्तः । प्राप्त । सुखं प्राप्तः सुखप्राप्तः । आपन्न । सुखमापन्नः, सुखापन्नः । दुःखापन्नः ॥ श्रितादिषु गमिगाम्यादीनामु- पसंख्यानम् ॥ * ॥ ग्रामं गमी, ग्रामगमी । ग्रामं गामी, ग्रामगामी । ओदनं बुभुक्षुः, ओदनबुभुक्षुः ॥ स्वयं क्तेन ॥ २५ ॥ स्वयमेतदव्ययमात्मनेत्यस्यार्थे वर्त्तते तस्य द्वितीयाया संबन्धोनुपपन्न इति

॥ काशिका ॥ २ ॥ १ ॥ ८७ द्वितीयाग्रहणमुत्तरार्थमनुवर्त्तते । स्वयमित्येतत्सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । स्वयंधौतौ पादौ । स्वयंविलीनमाज्यम् । ऐकप- द्यमैकस्वर्यं च समासत्वाद्भवति ॥ खट्वा क्षेपे ॥ २६ ॥ खट्वाशब्दो द्वितीयान्तः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरु- षश्च समासो भवति । क्षेपो निन्दा स च समासार्थ एव, तेन विभाषाधि- कारेपि नित्यसमास एवायं, नहि वाक्येन क्षेपो गम्यते । खट्वारोहणं चेह विमार्गप्रस्थानस्योपलक्षणम् । सर्व एवाविनीतः खट्वारूढ इत्युच्यते । खट्वारूढो जाल्मः । खट्वाप्रुतः । अपथप्रस्थित इत्यर्थः । क्षेपइति किम् । खट्वामारूढः ॥ सामि ॥ २७ ॥ सामित्येतदव्ययमर्द्धशब्दपर्यायस्तस्यासत्त्ववाचित्वाद् द्वितीया नास्ति संबन्धः तत् सुबन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति । सामि- कृतम् । सामिपीतम् । सामिभुक्तम् । ऐकपद्यमैकस्वर्यं च समासत्वाद्भवति ॥ कालाः ॥ २८ ॥ द्वितीया क्तेनेति वर्त्तते । कालवाचिनः शब्दा द्वितीयान्ताः क्तान्तेन सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति । अत्यन्तसंयोगार्थं वच- नम् । काला इति न स्वरूपविधिः । षण्मुहूर्त्ताश्चराचराः । ते कदा चिदह- र्गच्छन्ति कदा चिद्रात्रिम् । अहरतिसृता मुहूर्त्ताः । अहस्संक्रान्ताः । रात्र्य- तिसृता मुहूर्ताः । रात्रिसंक्रान्ताः । मासप्रमितश्चन्द्रमाः । मासं प्रमातुमा- रब्धः प्रतिपच्चन्द्रमा इत्यर्थः ॥ अत्यन्तसंयोगे च ॥ २९ ॥ काला इति वर्त्तते, क्तेनेति निवृत्तम् । अत्यन्तसंयोगः कृत्स्नसंयोगः कालस्य स्वेन संबन्धिना व्याप्तिः । कालवाचिनः शब्दा द्वितीयान्ता अत्यन्त- संयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति । मुहूर्तं सुखम्, मुहूर्त्तसुखम् । सर्वरात्रकल्याणी । सर्वरात्रशोभना ॥ तृतीया तत्कृतार्थेन गुणवचनेन ॥ ३० ॥ सुप् सुपेति वर्त्तते, तस्य विशेषणमेतत् । तृतीयान्तं सुबन्तं गुणवचने- नार्थशब्देन च सह समस्यते, तत्पुरुषश्च समासो भवति । कीदृशेन गुणवच- नेन तत्कृतेन, तदर्थकृतेन, तृतीयान्तार्थकृतेनेति यावत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । किरिणा काणः, किरिकाणः । अर्थशब्देन । धान्येनार्थः, धान्या- र्थः । तत्कृतेनेति किम् । अक्ष्णा काणः । गुणवचनेनेति किम् । गोभिर्वपावान् ॥