काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 85, कुल 828 में से
संदर्भ में पढ़ें९८ ॥ काशिका ॥ १ ॥ ४ ॥ चये प्रतिदानविषये च प्रतिः कर्मप्रवचनीयसंज्ञो भवति । अभिमन्युरर्जुनतः प्रति । माषानस्मै तिलेभ्यः प्रति यच्छति ॥ अधिपरी अनर्थकौ ॥ ९३ ॥ अधिपरी शब्दौ अनर्थकौ अनर्थान्तरवाचिनौ कर्मप्रवचनीयसंज्ञौ भवतः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गत्युपसर्गसंज्ञाबाधनार्था कर्मप्रवचनीय- संज्ञा विधीयते ॥ सुः पूजायाम् ॥ ९४ ॥ सुशब्दः पूजायामर्थे कर्मप्रवचनीयसंज्ञो भवति । सु सिक्तं भवता । सु स्तुतं भवता । धात्वर्थः स्तूयते । उपसर्गसंज्ञाश्रयं षत्वं न भवति । पूजाया- मिति किम् । सुषिक्तं किं तवात्र ॥ अतिरतिक्रमणे च ॥ ९५ ॥ अतिशब्दः अतिक्रमणे चकारात्पूजायां च कर्मप्रवचनीयसंज्ञो भवति । नि- न्द्येऽपि वस्तुनि क्रियाप्रवृत्तिरतिक्रमणम् । अति सिक्तमेव भवता । अति स्तुतमेव भ- वता । पूजायाम् । अति सिक्तं भवता । अति स्तुतं भवता । शोभनं कृतमित्यर्थः ॥ अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु ॥ ९६ ॥ पदार्थे संभावने ऽन्ववसर्गे गर्हायां समुच्चये च वर्तमानः अपिः कर्मप्र- वचनीयसंज्ञो भवति । पदान्तरस्याप्रयुज्यमानस्यार्थः पदार्थः । सर्पिषोऽपि स्यात् । मधुनोऽपि स्यात् । मात्रा बिन्दुः स्तोकमित्यस्यार्थे ऽपिशब्दो वर्तते । संभाव- नमधिकार्थवचनेन शक्तेरप्रतिघाताविष्करणम् । अपि सिञ्चेन्मूलकसहस्रम् । अपि स्तुयाद्राजानम् । अन्ववसर्गः कामचारानुज्ञा । अपि सिञ्च । अपि स्तुहि । गर्हा निन्दा । धिग्जाल्मं देवदत्तमपि सिञ्चेत्पलाण्डुम् । अपि स्तुया- द्वृषलम् । समुच्चये । अपि सिञ्च । अपि स्तुहि । सिञ्च च स्तुहि च । उप- सर्गसंज्ञाबाधनात् षत्वं न भवति ॥ अधिरीश्वरे ॥ ९७ ॥ ईश्वरः स्वामी स च स्वमपेक्षते । तदयं स्वस्वामिसंबन्ध कर्मप्रवचनीय- संज्ञो भवति । तत्र कदा चित्स्वामिनः कर्मप्रवचनीयविभक्तिः सप्तमी भवति कदा चित्स्वात् । अधि ब्रह्मदत्ते पञ्चालाः । अधि पञ्चालेषु ब्रह्मदत्तः ॥ विभाषा कृञि ॥ ९८ ॥ अधिः करोतौ विभाषा कर्मप्रवचनीयसंज्ञो भवति । यदत्र मामधिक- रिष्यति । कर्मप्रवचनीयसंज्ञापक्षे गतिसंज्ञाबाधनात् तिङि चोदात्तवतीति निघातो न भवति ॥