काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 86, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ १ । ४ ॥ ७९ लः परस्मैपदम् ॥ ९९ ॥ ल इति षष्ठी सादेशापेक्षा । लादेशाः परस्मैपदसंज्ञा भवन्ति । तिप्, तस्, झि । सिप्, थस्, थ । मिप्, वस्, मस् । शतृक्वसू च । परस्मैपदप्रदेशाः सिचि वृद्धिः परस्मैपदेष्वित्येवमादयः ॥ तङानावात्मनेपदम् ॥ १०० ॥ तङिति प्रत्याहारो नवानां वचनानाम् । आन इति शानच्कानचोर्ग्र- हणम् । पूर्वेण परस्मैपदसंज्ञायां प्राप्तायां तङानयोरात्मनेपदसंज्ञा विधीयते । त, आताम्, झ । थास्, आथाम्, ध्वम् । इट्, वहि, महिङ् । आनः खल्व- पि । शानच्कानचौ । ल इत्येव । कतीह निघ्नानाः । आत्मनेपदप्रदेशा अनु- दात्तङित आत्मनेपदमित्येवमादयः ॥ तिङस्त्रीणित्रीणि प्रथममध्यमोत्तमाः ॥ १०१ ॥ तिङोऽष्टादश प्रत्ययाः नव परस्मैपदसंज्ञकाः नवात्मनेपदसंज्ञकाः तत्र परस्मैपदेषु त्रयस्त्रिकाः यथाक्रमं प्रथममध्यमोत्तमसंज्ञा भवन्ति । आत्मनेप- देष्वपि त्रयस्त्रिकाः प्रथममध्यमोत्तमसंज्ञा भवन्ति । तिप्, तस्, झि, इति प्रथमः । सिप्, थस्, थ, इति मध्यमः । मिप्, वस्, मस्, इत्युत्तमः । आत्म- नेपदेषु त, आतां, झ, इति प्रथमः । थास्, आथाम्, ध्वम्, इति मध्यमः । इट्, वहि, महिङ्, इत्युत्तमः । प्रथममध्यमोत्तमप्रदेशाः शेषे प्रथम इत्येवमादयः ॥ तान्येकवचनद्विवचनबहुवचनान्येकशः ॥ १०२ ॥ तान्येकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति * एकशः एकैकं पदम् । तिबित्येकवचनम् । तसिति द्विवचनम् । झि इति बहुवचनम् । एवं सर्वत्र । एकवचनद्विवचनबहुवचनप्रदेशाः बहुषु बहुवचनमित्येवमादयः ॥ सुपः ॥ १०३ ॥ तिङां त्रिकेष्वेकवचनादिसंज्ञा विहिताः संप्रति सुपां त्रिकेषु विधीयन्ते । सुपश्च त्रीणित्रीणि पदानि एकश एकवचनद्विवचनबहुवचनसंज्ञानि भवन्ति । सु इत्येकवचनम् । औ इति द्विवचनम् । जसिति बहुवचनम् । एवं सर्वत्र ॥ विभक्तिश्च ॥ १०४ ॥ त्रीणित्रीणीत्यनुवर्तते । त्रीणित्रीणि विभक्तिसंज्ञाश्च भवन्ति सुपस्ति- ङश्च । विभक्तिप्रदेशा अष्टन आ विभक्तावित्येवमादयः ॥
- तानि तिङस्त्रीणित्रीणि भूत्वैकवचनद्विवचनबहुवचनसंज्ञानि भवन्तीत्यपि क्व चि- त्पाठः ।