भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 88, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 88

॥ काशिका ॥ २ । १ ॥ ८१ ॥ अथ द्वितीयाध्यायस्य प्रथमः पादः ॥ समर्थः पदविधिः ॥ १ ॥ परिभाषेयम् । यः कश्चिदिह शास्त्रे पदविधिः श्रूयते स समर्थो वेदि- तव्यः । विधीयतइति विधिः । पदानां विधिः पदविधिः । स पुनः समा- सादिः । समर्थः शक्तः, विवक्षितार्थाभिधाने यः शक्तः स समर्थो वेदि- तव्यः । अथ वा समर्थपदाश्रयत्वात् समर्थः । समर्थानां पदानां सम्बद्धार्थानां संसृष्टार्थानां विधिर्वेत्तव्यः । वक्ष्यति, “द्वितीया श्रितातीतपतितगतात्यस्त- प्राप्तापन्नैः” । कष्टं श्रितः, कष्टश्रितः । समर्थग्रहणं किम् । पश्य देवदत्त कष्टं, श्रितो विष्णुमित्रो गुरुकुलम् । “तृतीया तत्कृतार्थेन गुणवचनेन” । शङ्कुलया खण्डः, शङ्कुलाखण्डः । समर्थग्रहणं किम् । करिष्यसि शङ्कुलया, खण्डो देव- दत्त उपले ॥ “चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः” । यूपाय दारु, यूप- दारु । समर्थग्रहणं किम् । गच्छ त्वं यूपाय, दारु देवदत्तस्य गेहे । “पञ्चमी भयेन” । वृकेभ्यो भयं, वृकभयम् । समर्थग्रहणं किम् । गच्छ त्वं मा वृकेभ्यो, भयं देवदत्तस्य यज्ञदत्तात् । “षष्ठी” । राज्ञः पुरुषो, राजपुरुषः । समर्थग्रहणं किम् । भार्या राज्ञः, पुरुषो देवदत्तस्य । “सप्तमी शौण्डैः” । अक्षेषु शौण्डः, अक्षशौण्डः । समर्थग्रहणं किम् । शक्तस्त्वमक्षेषु, शौण्डः पिबति पानागारे । पदग्रहणं किम् । वर्णविधौ समर्थपरिभाषा मा भूत् । तिष्ठतु दध्य,शान त्वं शाकेन । तिष्ठतु कुमारी,च्छत्रं हर देवदत्तात् । यणादेशो नित्यश्च तुग्भवति ॥ सुबामन्त्रिते पराङ्गवत्स्वरे ॥ २ ॥ सुबन्तमामन्त्रिते परतः परस्याङ्गवद्भवति, स्वरे, स्वरलक्षणे कर्तव्ये । तादात्म्यातिदेशोऽयम् । सुबन्तमामन्त्रितमनुप्रविशति । वक्ष्यति । “आमन्त्रि- तस्य च” । आमन्त्रितस्यादिरुदात्तो भवति । स ससुप्कस्यापि यथा स्यात् । कुण्डेनाटन् । परशुना वृश्चन् । मद्राणां राजन् । काश्मीराणां राजन् । सुबिति किम् । पीडे पीड्यमान । आमन्त्रितइति किम् । गेहे गार्ग्यः । परवचनं किम् । पूर्वस्य मा भूत् । देवदत्त कुण्डेनाटन् । अङ्गग्रहणं किम् । यथा वृत्ति- षष्ठीभूतः स्वरं लभेत । उभयोराद्युदात्तत्वं मा भूत् । वत्करणं किम् । स्वाश्र- यमपि यथा स्यात् । आं कुण्डेनाटन् । “आम एकान्तरमामन्त्रितमनन्तिके”- इत्येकान्तरता भवति । स्वरइति किम् । कूपे सिञ्चन् । चर्म नमन् । षत्वणत्वे प्रति पराङ्गवन्न भवति । सुबन्तस्य पराङ्गवद्भावे समानाधिकरणस्योपसंख्यान- ६

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 88, कुल 828 में से · BharatKosha