काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 89, कुल 828 में से
संदर्भ में पढ़ें८२ ॥ काशिका ॥ २ । १ ॥ मननन्तरत्वात् ॥ * ॥ * तीक्ष्णया सूच्या सीव्यन् । तीक्ष्णेन परशुना वृश्चन् । चाव्ययानां प्रतिषेधो वक्तव्यः ॥ * ॥ उच्चैरधीयान । नीचैरधीयान ॥ प्राक्कडारात्समासः ॥ ३ ॥ कडारसंशब्दानात्प्राग् † यानि ऊर्द्धमनुक्रमिष्यामस्ते समाससंज्ञा वेदि- तव्याः । वक्ष्यति । यथा ऽसादृश्ये । यथावृद्धं ब्राह्मणानामन्त्रयस्व । प्राग्वचनं संज्ञासमावेशार्थम् । समासप्रदेशा "स्तृतीयापमास" इत्येवमादयः ॥ सह सुपा ॥ ४ ॥ सुबिति वर्तते, सहेति सुपेति च त्रयमप्यधिकृतं वेदितव्यम् । यदिह ऊर्द्धमनुक्रमिष्यामस्तत्रेदमुपस्थितं द्रष्टव्यम् । वक्ष्यति द्वितीयाश्रितेति द्वितीयान्तं श्रितादिभिः सह समस्यते । कष्टं श्रितः, कष्टश्रितः । सहग्रहणं योगविभा- गार्थं