काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 90, कुल 828 में से
संदर्भ में पढ़ेंहिमानि । निर्हिमं, निःशीतं, वर्तते । असंप्रति, उपभोगस्य वर्तमानकालप्र- तिषेधः । अतितैसूकम् * । तैसूकमाच्छादनं, तस्यायमुपभोगकालो न भवती- त्यर्थः । शब्दप्रादुर्भावः प्रकाशता शब्दस्य । इतिपाणिनि । तत्पाणिनि । पाणि- निशब्दो लोके प्रकाशतइत्यर्थः । पश्चात् । अनुरथं पादातम् । रथानां पश्चात् । यथार्थे यदव्ययं वर्तते तत्समस्यते । योग्यता वीप्सा पदार्थानतिवृत्तिः सादृश्यं चेति यथार्थाः । योग्यतायाम् । अनुरूपम् । रूपयोग्यं भवतीत्यर्थः । वीप्सायाम् । अर्थमर्थं प्रति । प्रत्यर्थम् । पदार्थानतिवृत्तौ । यथाशक्ति । आनुपूर्व्यमनुक्रमः । अनुज्येष्ठं प्रविशन्तु भवन्तः । ज्येष्ठानुपूर्व्या भवन्तः प्रविशन्त्वित्यर्थः । यौग- पद्यमेककालता । सचक्रं धेहि । युगपच्चक्रं धेहीत्यर्थः । सादृश्यं तुल्यता । किमर्थमिदमुच्यते, यथार्थइत्येव सिद्धम् । गुणभूतेऽपि सादृश्ये यथा स्यात् । सदृशः सख्या ससखि । संपत्तिरनुरूप आत्मभावः समृद्धेरन्यः । सब्रह्म बाध- वायाम् । सत्रक्षं शालङ्कायनानाम् । साकल्यमशेषता । सतृणमभ्यवहरति । सबुसम् । न किं चिदभ्यवहार्यं परित्यजतीत्ययमर्थोऽधिकार्थवचनेन प्रतिपा- द्यते । अन्तवचने । अन्तइति परिग्रहापेक्षया समाप्तिरुच्यते । साग्न्यधीते । सेष्टिपशुबन्धम् । पशुबन्धान्तमधीतइत्यर्थः । इयं समाप्तिरसकलेऽप्यध्ययने भव- तीति साकल्यात्पृथगुच्यते ॥ यथा ऽसादृश्ये ॥ ७ ॥ यथेत्येतदव्ययमसादृश्ये वर्तमानं सुपा सह समस्यते, ऽव्ययीभावश्च समासो भवति । यथावृद्धं ब्राह्मणानामन्त्रयस्व । येये वृद्धाः । यथावृद्धुक्षः । यथाध्यापकम् । असादृश्यइति किम् । यथा देवदत्तस्तथा यज्ञदत्तः । यथार्थे यदव्ययमिति पूर्वेणैव सिद्धे समासे वचनमिदं सादृश्यप्रतिषेधार्थम् ॥ यावदवधारणे ॥ ८ ॥ यावदित्येतदव्ययमवधारणे वर्तमानं सुपा सह समस्यते, अव्ययीभा- वश्च समासो भवति । अवधारणमियत्तापरिच्छेदः । यावदमत्रं ब्राह्मणानाम- न्त्रयस्व । यावन्त्यमत्राणि संभवन्ति पञ्च बह्वा तावत आमन्त्रयस्व । अवधा- रणइति किम् । यावद्भुक्तं तावदुक्तम् । नावधारयामि कियन्मया भुक्तमिति † ॥ सुप्प्रतिना मात्रार्थे ॥ ९ ॥ मात्रा बिन्दुः स्तोकमल्पमिति पर्यायाः । मात्रार्थे वर्तमानेन प्रतिना सह सुबन्तं समस्यते, अव्ययीभावश्च समासो भवति । शाकस्य लेशः शाकप्रति । * तैक्षकम् । इति पाठान्तरम् । † कियद्दत्तं त्वया कियद्भुक्तं मयेति वा ।