भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 92, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 92

॥ काशिका ॥ २ ॥ १ ॥ ८५ अनुर्यत्समया ॥ १५ ॥ समया समीपम् । अनुर्यस्य समीपवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति । अनुवनमशनिर्गतः । अनुरीति किम् । वनं समया । यत्समयेति किम् । वृत्तम॒नु विद्योतते विद्युत् । अव्ययं विभक्तिसमीपेत्येव सिद्धे पुनर्वचनं विभाषार्थम् ॥ ॥ यस्य चायामः ॥ १६ ॥ लक्षणेनेति वर्तते । आयामो दैर्घ्यम् । अनुर्यस्यायामवाची तेन लक्षण- भूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति । अनुगङ्गं वारा- णसी । अनुयमुनं मथुरा । यमुनाऽऽयामेन मथुराऽऽयामो लक्ष्यते । चायाम इति किम् । वृत्तम॒नु विद्योतते विद्युत् ॥ तिष्ठद्गुप्रभृतीनि च ॥ १७ ॥ तिष्ठद्ग्वादयः समुदाया एव निपात्यन्ते । तिष्ठद्गुप्रभृतीनि शब्दरूपाणि अव्ययीभावसंज्ञानि भवन्ति । तिष्ठद्गु कालविशेषः । तिष्ठन्ति गावो यस्मिन्काले दोहाय स तिष्ठद्गु कालः । खलेयवादीनि प्रथमान्तानि विभक्त्यन्तरेण नैव संब- ध्यन्ते ऽन्यपदार्थे च काले वर्त्तन्ते । चकारो ऽवधारणार्थः । अपरः समासो न भवति परमतिष्ठद्विति । तिष्ठद्गु । वहद्गु । आयतीगवम् । खलेबुसम् । खलेयवम् । लून- यवम् । लृयमानयवम् । पूतयवम् । पूयमानयवम् । संहृतयवम् । संह्रियमाण- यवम् । संहृतबुसम् । संह्रियमाणबुसम् । एते कालशब्दाः । समभूमि । समपदाति । सुषमम् । विषमम् । निष्षमम् । दुष्षमम् । अपरसमम् । आयतीसमम् । प्राह्णम् । प्रत्यहम् । प्रमृगम् । प्रदक्षिणम् । अपरदक्षिणम् । संप्रति । असंप्रति । पापस- मम् । पुण्यसमम् ॥ इच् कर्मव्यतिहारे ॥ दण्डादण्डि । मुसलामुसलि ॥ पारे मध्ये षष्ठ्या वा ॥ १८ ॥ षष्ठीसमासे प्राप्ते तदपवादो ऽव्ययीभाव आरभ्यते । वावचनाच्च षष्ठी- समासोऽपि पक्षे ऽभ्यनुज्ञायते । पारमध्यशब्दौ षष्ठ्यन्तेन सह विभाषा समस्येते, अव्ययीभावश्च समासो भवति । तत्सन्नियोगेन चानयोरेकारान्तत्वं निपात्यते । पारं गङ्गायाः, पारेगङ्गम् । मध्यं गङ्गायाः, मध्येगङ्गम् । षष्ठीसमासपक्षे । गङ्गा- पारम् । गङ्गामध्यम् । महाविभाषया वाक्यविकल्पः क्रियते ॥ संख्या वंश्येन ॥ १९ ॥ विद्यया जन्मना वा प्राणिनामेकलक्षणसंतानो वंश इत्यभिधीयते । तत्र भवो वंश्यः । तद्वाचिना सुबन्तेन सह संख्या समस्यते, अव्ययीभावश्च समासो भवति । द्वौ मुनी व्याकरणस्य वंश्यौ द्विमुनि व्याकरणस्य । त्रिमुनि व्याकर-