काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 731, कुल 828 में से
संदर्भ में पढ़ें७३० ॥ काशिका ॥ ७ ॥ ४ ॥ लोपस्येत्येवं सिद्धे यदत्रग्रहणमिह क्रियते तद्विषयावधारणार्थमत्रैवाभ्यास- लोपो भवति । सन्वद्भावविषये न भवति । अमीमपत् । अदीदपत् । सन्वल्ल- धुनि चङ्परइति सन्वद्भावात्प्राप्नोति । सर्वस्याभ्यासस्यायं लोप इष्यते तदर्थ- मेव केचिदत्रग्रहणं वर्णयन्ति । नानर्थकेऽलोऽन्त्यविधिरित्यपरे सर्वस्य कुर्वन्ति ॥ ह्रस्वः ॥ ५९ ॥ ह्रस्वो भवत्याभ्यासस्य । डुढौकिषते । तुनौकिषते । डुढौके । तुनौके । अडुढौकत् । अतुनौकत् ॥ अभ्यासस्यानचि ॥ * ॥ अभ्यासस्य यदुच्यते अनचि तद्भवतीति वक्तव्यम् । चराचरः । चलाचलः । पतापतः । वदावदः । हलादिः शेषो न भवति ॥ हलादिः शेषः ॥ ६० ॥ अभ्यासस्य हलादिः शिष्यते अनादिर्लुप्यते । जल्लौ । मल्लौ । पपाच । पपाठ । आट । आटतुः । आटुः । आदिशेषनिमित्तोयमनादेर्लोपो विधीयते । तत्राभ्यासजातेराश्रयणात्क्वचिदपि वर्त्तमानो हलादिरनादेः सर्वत्र निवृत्तिं करोति । अपरे तु ब्रुवते । शेषशब्दोयं निवृत्त्या विशिष्टमवस्थानमाह । तद- वस्थायमुक्तिरो यद्यपि प्रधानमविधेयत्वात् तदप्रधानम् । निवृत्तिरेव तु विधे- यत्वात्प्रधानम् । तत्रायमर्थोस्य जायते । अभ्यासस्यानादेर्हलो निवृत्तिर्भवतीति । सा किमित्यादेरविधेयां सतीमनिवृत्तिमपेक्षिष्यतइति ॥ शर्पूर्वाः खयः ॥ ६१ ॥ अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । अन्ये हलो लुप्यन्ते । चुश्च्योति- षति । तिष्ठासति । पिस्पन्दिषते । शूर्पूर्वा इति किम् । पपाच । खय इति किम् । स्रस्रौ ॥ खर्पूर्वाः खय इति वक्तव्यम् ॥ * ॥ उचिच्छिषतीत्यत्र उच्छेर- न्तरङ्गत्वात्तुकि कृते द्विवर्चनं तत्र हलादिः शेषे सत्यभ्यासे तकारः श्रूयेत ॥ कुहोश्चुः ॥ ६२ ॥ अभ्यासस्य कवर्गहकारयोश्चवर्गादेशो भवति । चकार । चखाम । जगाम । जघान । हकारस्य । जहार । जिहीर्षति । जहौ ॥ न कवतेर्यङि ॥ ६३ ॥ कवतेरभ्यासस्य यङि परतश्चुर्न भवति । कोकूर्यते । उष्ट्रः । कोकूर्यते । खरः । कवतेरिति विकरणनिर्देशः कौतेः कुवतेश्च निवृत्त्यर्थः । तयोश्चुत्वमेव भवति । चोकूयते । यङीति किम् । चुकूवे ॥ कृपेश्छन्दसि ॥ ६४ ॥