काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 736, कुल 828 में से
संदर्भ में पढ़ें॥ काशिका ॥ ७ ॥ ४ ॥ ७३५ नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ॥ ८४ ॥ वञ्चु स्रंसु ध्वंसु भ्रंसु कस पत पद स्कन्द इत्येतेषामभ्यासस्य नीगागमो भवति यङि यङ्लुकि च । वञ्चु । वनीवच्यते । वनीवञ्चीति । स्रंसु । सनीस्र- स्यते । सनीस्रंसीति । ध्वंसु । दनीध्वस्यते । दनीध्वंसीति । भ्रंसु । बनीभ्रस्यते । बनीभ्रंसीति । कस । चनीकस्यते । चनीकसाति । पत । पनीपत्यते । पनीपतीति । पद । पनीपद्यते । पनीपदीति । स्कन्द । चनीस्कद्यते । चनीस्कन्दीति ॥ नुगतोऽनुनासिकान्तस्य ॥ ८५ ॥ अनुनासिकान्तस्याङ्गस्य योभ्यासस्तस्याकारान्तस्य नुगागमो भवति यङ्यङ्लुकोः परतः । तंतन्यते । तंतनीति । जंगम्यते । जंगमीति । यंयम्यते । यंयमीति । रंरम्यते । रंरमीति । नुगित्येतदनुस्वारोपलक्षणार्थं द्रष्टव्यम् । स्था- निना ह्यादेशो लक्ष्यते । तेन यंयम्यतइत्येवमादावझल्परत्वेऽप्यनुस्वारो भवति ॥ पदान्तवच्चेति वक्तव्यम् ॥ * ॥ वा पदान्तस्येति परसवर्णविकल्पो यथा स्या- दिति । अत इति किम् । तेतिम्यते । तपरकरणं तु भूतपूर्वस्यापि दीर्घस्य निवृ- त्त्यर्थम् । बाभाम्यते । अनुनासिकान्तस्येति किम् । पापच्यते ॥ जपजभदहदशभञ्जपशां च ॥ ८६ ॥ जप जभ दह दश भञ्ज पश इत्येतेषामभ्यासस्य नुगागमो भवति यङ्य- ङ्लुकोः परतः । जंजप्यते । जंजपीति । जंजभ्यते । जंजभीति । दंदह्यते । दंद- हीति । दंदश्यते । दंदशीति । दश इति दंशिरयं नकारलोपार्थमेव निर्दिष्टः । तेन यङ्लुक्यपि नकारलोपो भवति । भञ्ज । बंभज्यते । बंभजीति । पश इति सौत्रो धातुः । पंपश्यते । पंपशीति ॥ चरफलोश्च ॥ ८७ ॥ चर फल इत्येतयोरभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः । चंचूर्यते । चंचूरीति । पंफुल्यते । पंफुलीति ॥ उत्परस्यातः ॥ ८८ ॥ चरफलोरभ्यासात्परस्यात उकारादेशो भवति यङ्यङ्लुकोः परतः । चंचूर्यते । चंचूरीति । पंफुल्यते । पंफुलीति । परस्येति किम् । अभ्यासस्य मा भूत् । अत इति किम् । अलोन्त्यस्य मा भूत् । उदिति तपरकरणं चंचूर्त्ति पंफु- लीति, अत्र लघूपधगुणनिवृत्त्यर्थम् । दीर्घस्यासिद्धत्वादिह लघुत्वं न निवर्त्तते ॥ ति च ॥ ८९ ॥ तकारादौ प्रत्यये परतश्चरफलोरकारस्य उकारादेशो भवति । चरथं