काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 737, कुल 828 में से
संदर्भ में पढ़ें७३६ ॥ काशिका ॥ ७ । ४ ॥ चूर्णिः । ब्रह्मणाश्चूर्णिः । प्रफुल्लः । प्रफुल्लाः सुमनसः । यङ्लुकोरभ्यासस्येति चानुवर्त्तमानमपि वचनसामर्थ्यादिह नाभिसंबध्यते ॥ रीगृदुपधस्य च ॥ ९० ॥ ऋदुपधस्याङ्गस्य योऽभ्यासस्तस्य रीगागमो भवति यङ्लुकोः परतः । वरीवृत्यते । वरीवृद्धाते । वरीवृतीति । वरीवृधीति । नरीनृत्यते । नरीनृतीति ॥ रीश्वत इति वक्तव्यम् ॥ * ॥ इहापि यथा स्यात् । वरीवृश्च्यते । वरीवृश्चीति ॥ रुग्रिकौ च लुकि ॥ ९१ ॥ यङ्लुकि ऋदुपधस्याङ्गस्य योभ्यासस्तस्य रुग्रिकावागमौ भवतश्चाका- राद्रीञ्च । नर्नर्त्ति । नरिनर्त्ति । नरीनर्त्ति । वर्वर्त्ति । वरिवर्त्ति । वरीवर्त्ति । उकार उच्चारणार्थः ॥ मर्मृज्यते मर्मृज्यमानास इत्युपसंख्यानम् ॥ * ॥ मर्मृ- ज्यते । मर्मृज्यमानासः ॥ ऋतश्च ॥ ९२ ॥ ऋकारान्तस्याङ्गस्य योभ्यासस्तस्य रुग्रिकावागमौ भवतो रीक्व यङ्- लुकि । चर्चर्त्ति । चरिचर्त्ति । चरीचर्त्ति । जर्हर्त्ति । जरिहर्त्ति । जरीहर्त्ति । तप- रकरणं किम् । किरतेश्चाकर्त्ति । किरातिं चर्करीतान्तं पचतीत्यच यो नयेत् । प्राप्तिज्ञं तमहं मन्ये प्रारब्धस्तेन संग्रहः * ॥ तन्नेयं प्राप्तिस्तपरकरणसामर्थ्यादङ्गविशेषणमृत्तदित्येतत्तथा चाप्राप्ति किरतेऋगादीनामिति ॥ सन्वल्लघुनि चङ्परेऽनग्लोपे ॥ ९३ ॥ लघुनि धात्वक्षरे परतो योभ्यासस्तस्य चङ्परे णौ परतः सनीव कार्यं भवति अनग्लोपे । सन्यत इत्युक्तं चङ्परेऽपि तथा । अचीकरत् । अपीपचत् । ओः पुयण्ज्यपरेदृत्युक्तं चङ्परेऽपि तथा । अपीपवत् । अलीलवत् । अजीजवत् । स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वेत्युक्तं चङ्परेऽपि तथा । असिस्र- वत् । असुस्रुवत् । अशिश्रवत् । अशुश्रवत् । अदिद्रवत् । अदुद्रवत् । अपिप्र- वत् । अपुप्रवत् । अपिप्लवत् । अपुप्लवत् । अचिच्यवत् । अचुच्यवत् । लघुनीति किम् । अततक्षत् । अररक्षत् । जागरयतेः । अजजागरत् । अत्र केचिद्गुरुशब्दं लघुमाश्रित्य सन्वद्भावमिच्छन्ति सर्वेणैव लघोरानन्तर्यमभ्यासेन नास्तीति व्यर्थ-
- किरातिमिति ऋकारान्तोपलक्षणं, चर्करीतमिति यङ्लुकः पूर्वाचार्यसंज्ञा, पचतीति लट् उपलक्षणम् । तेन चाकर्तीत्यादीनि रूपाणि किरतेर्यो नयेदित्यर्थः । प्राप्तिज्ञं ऋगादीनां विषयविभागेन या प्राप्तिस्तज्ज्ञं, संग्रहः साधुशब्दसंग्रहः । इति पदमञ्जरी ।