भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 738, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 738

An accurate line-by-line transcription of the Sanskrit text from the image into Devanagari Markdown:

धानेपि वचनप्रामाण्याद्भवितव्यं, तदसत् । येन नाव्यवधानं तेन व्यवहितेपि वच- नप्रामाण्यादित्येकेन व्यवधानमाश्रीयते न पुनरनेकेन । यद्येवं, कथमचित्तषदिति, आचार्याप्रवृत्तिर्ज्ञापयति भवत्येवंजातीयकानामित्त्वमिति । यदयं तद्बाधनार्थं स्मर- त्यादीनामत्त्वं विदधाति । चङ्परइति किम् । अहं पपच । परग्रहणं किम् । चङ्येव केवले मा भूत् । अचक्रमत् । अनग्लोपइति किम् । अचकथत् । दृषदमाख्यातवान् अददृषत् । वादितवन्तं प्रयोजितवन्तं प्रयोजितवान् अवीवददित्यत्र योसौ यो यो- र्लोपो नासावग्लोप इत्याश्रीयते किं कारणं चङ्परइति णिजातेर्निमित्तत्वेनाक्षेपा- त्तान्यस्याग्लोपः परिगृह्यते । मीमादीनामत्रग्रहणात्सन्वद्भावेनाभ्यासलोपो न भवती

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक) · पृष्ठ 738, कुल 828 में से · BharatKosha