भारतकोश
काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

पृष्ठ 739, कुल 828 में से

संदर्भ में पढ़ें
पृष्ठ 739

७३८ ॥ काशिका ॥ ८ ॥ १ ॥ ॥ अथ अष्टमाध्यायस्य प्रथमः पादः ॥ सर्वस्य द्वे ॥ १ ॥ सर्वस्येति च द्वे इति चैतदधिकृतं वेदितव्यम् । इत उत्तरं यद्वक्ष्यामः प्राक् पदस्येत्यतः सर्वस्य द्वे भवत इत्येवं तद्वेदितव्यम् । वक्ष्यति । नित्यवीप्सयोरिति तत्र सर्वस्य स्थाने द्वे भवतः । के द्वे भवतः । ये शब्दतश्चार्थतश्चोभयथान्तरतमे, एकस्य पचतिशब्दस्य द्वौ पचतिशब्दौ भवतः । पचति २ । ग्रामो २ रमणीयः । यदा तु द्विः प्रयोगे द्विर्वचनं तदा स एव पचतिशब्दो द्विरावर्त्तते तस्य द्वे आवृत्ती भवतः । सर्वस्येति विस्पष्टार्थम् । अथ पदस्येत्येव कस्मान्नोच्यते । नैवं शक्यमिह हि न स्यात् प्रपचति प्रपचतीति । इह द्रोग्धा द्रोढा इति घत्वढत्व- योरसिद्धत्वादकृतयोरेव तयोर्द्विर्वचनं प्राप्नोति तत्र पश्चाद्विकल्पे सत्यनिष्टमपि स्यात् । द्रोग्धा द्रोढा । द्रोढा द्रोग्धेति । तस्माद्वक्तव्यमेतत् पूर्वत्रासिद्धीयम- द्विर्वचनेति । सर्वस्येत्येतदेव वा कृतं सर्वकार्यप्रतिपत्त्यर्थं द्रष्टव्यम् ॥ तस्य परमाम्रेडितम् ॥ २ ॥ तस्य द्विरुक्तस्य यत्परं शब्दरूपं तदाम्रेडितसंज्ञं भवति । चौरचौर ३ । वृषलवृषल ३ । दस्योदस्यो ३ घातयिष्यामि त्वा बन्धयिष्यामि त्वा । आम्रे- डितप्रदेशा आम्रेडितं भर्त्सने इत्येवमादयः ॥ अनुदात्तं च ॥ ३ ॥ अनुदात्तं च तद्भवति यदाम्रेडितसंज्ञम् । भुङ्क्ते २ । पशून् २ ॥ नित्यवीप्सयोः ॥ ४ ॥ नित्ये चार्थे वीप्सायां च यद्वर्त्तते तस्य द्वे भवतः । केषु नित्यता । तिङ्सु चाव्यये कृत्सु च । कुत एतत् । आभीक्ष्ण्यमिह नित्यता । आभीक्ष्ण्यं च क्रियाधर्मः । यां क्रियां कर्ता प्राधान्येनानुपरमन्करोति तन्नित्यम् । पचति २ । जल्पति २ । भुक्त्वा २ व्रजति । भोजं २ व्रजति । लुनीहिलुनीहीत्येवायं लुनाति । क्त्वाणमुलोलौटश्च द्विवेचनापेक्षायामेव पौनःपुन्यप्रकाशने शक्तिः । यङ् तु तन्निरपेक्षः प्रकाशयति । पुनः २ पचति पापच्यतइति । यदा तु तत्र द्विर्वचनं तदा क्रियासमभिहारे पौनःपुन्यं द्रष्टव्यं पापच्यतेपापच्यतइति । अथ केषु वीप्सा । सुप्सु वीप्सा, का पुनः सा । व्याप्तिविशेषविषया प्रयोक्तुरिच्छा वीप्सा । का पुनरसौ । नानावाचिनामधिकरणानां क्रियागुणाभ्यां युगपत्प्र- योक्तुर्व्याप्तुमिच्छा वीप्सा । नानाभूतार्थवाचिनां शब्दानां यान्यधिकरणानि वाच्यानि तेषां क्रियागुणाभ्यां युगपत्प्रयोक्तुमिच्छा वीप्सा । ग्रामो २ रमणीयः ।