काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
पृष्ठ 744, कुल 828 में से
संदर्भ में पढ़ेंअनुदात्तमिति च सर्वमिति च अपादादाविति च एतत्तयमधिकृतं वेदि- तव्यमापादपरिसमाप्ते, रित उत्तरं यद्वक्ष्यामः अनुदात्तं सर्वमपादादावित्येवं तद्वे- दितव्यम् । वक्ष्यत्यामन्त्रितस्य चेति । पचसि देवदत्त । अपादादाविति किम् । यत्ते नियतं रजसं मृत्यो अनवधृष्यम् । बहुवचनस्य वस्नसौ । ग्रामो वः स्वं, जनपदो नः स्वम् । अपादादाविति किम् । रुद्रो विश्वेश्वरो देवो युष्माकं कुलदेवता । स एव नाथो भगवानस्माकं शत्रुवर्धनः ॥ पादग्रहणेन च ऋक्पादः श्लोकपादश्च गृह्यते । सर्वग्रहणं सर्वमनूद्या- मानं विधीयमानं चानुदात्तं यथा स्यादिति । तेन युष्मदादेशानामपि वाक्य- भेदेनानुदात्तत्वं विधीयते । युष्मदस्मदादेशाश्च सर्वस्य सुबन्तस्य पदस्य यथा स्युः । यत्रापि स्वादिषु पदसंज्ञं भवति । ग्रामो वां दीयते । जनपदो नौ दीयते ॥ आमन्त्रितस्य च ॥ १९ ॥ आमन्त्रितस्य पदस्य पदात्परस्यापादादौ वर्तमानस्यानुदात्तो भवति । पचसि देवदत्त । पचसि यज्ञदत्त । आमन्त्रिताद्युदात्तत्वे प्राप्ते वच- नम् ॥ समानवाक्ये निघातयुष्मदस्मदादेशा वक्तव्याः ॥ * ॥ इह मा भूवन् । अयं दण्डो हरानेन ओदनं पच तव भविष्यति । ओदनं पच मम भवि- ष्यति * । इदं च यथा स्यात् । इह देवदत्त माता ते कथयति । नद्यास्ति- ष्ठति कूले । शालीनां ते ओदनं दास्यामि इति । आमन्त्रितान्तं तिङन्तं युष्मदस्मदादेशाश्च यस्मात्पराणि न तेषां सामर्थ्यमिति तदाश्रया निघातयु- ष्मदस्मदादेशा न स्युः समर्थः पदविधिरिति वचनात् ॥ युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ ॥ २० ॥ युष्मदस्मद् इत्येतयोः षष्ठीचतुर्थीद्वितीयास्थयोर्यथासंख्यं वांनौ इत्येता- वादेशौ भवतस्तौ चानुदात्तौ । पदस्य पदादनुदात्तं सर्वमपदादाविति सर्व- मिह संबध्यते । ग्रामो वां स्वम् । जनपदो नौ स्वम् । ग्रामो वां दीयते । जनपदो नौ दीयते । ग्रामो वां पश्यति । जनपदो नौ पश्यति । एकवचनब- हुवचनान्तयोरादेशान्तरविधानाद् द्विवचनान्तयोरेतावादेशौ विज्ञायेते । षष्ठी- चतुर्थीद्वितीयास्थयोरिति किम् । ग्रामे युवाभ्यां कृतम् । स्थग्रहणं श्रूयमाणावि- भक्त्यर्थम् । इह मा भूत् इति युष्मत्पुत्र इति ॥ बहुवचनस्य वस्नसौ ॥ २१ ॥ बहुवचनान्तयोर्युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्यथासंख्यं वस्
- भवतीह विष्णुमित्रो देवदत्तागच्छेति पुस्तकान्तरे ऽधिकम् ।